भाषा

ENहिગુ
ग्रंथ पाठ

गोपालचम्पू · अध्याय 1.17

1.17.1

[अनुष्टुभ्]
इति श्री-श्री-गोपाल-चम्पूम् अनु
प्रलम्ब-दव-संवर्त-निवर्तनं नाम
षोडशं पूरणम्
॥16॥
(17)
अथ सप्तदशं पूरणम्
वेणु-शिक्षा-च्छलेन प्रेयसी-भिक्षा
[1] अथ पूर्ववद् विलक्षणायां क्षणदा-सभायां समुत्कण्ठः स मधुकण्ठः कथयामास-
[2] पूर्व-पूर्वानुसारेण धेनुक-वधानन्तर-व्यवहारेण प्रेयसीनां प्रत्यहम् एव वर्धमानाः कमल-कलिकावद् उत्कलिका मधुसूदनस्य बहिर् ईहितैर् दुरूहां स्पृहां बृंहयामासुः ।
[3] तत्रापि सर्वाधिकायाः श्री-राधिकायास् तु नितरां, तत्र तूपलक्षणतया श्री-राधा-माधवयोर् वर्ण्यते-
प्रसङ्गेच्छा वीक्षा-स्पृहितम् अनुषङ्गाभिलषितं
पृथग् लोक-द्वेषः प्रतिसमयम् उद्वेग-कलना ।
इमे भावा युग्मे युगपद् उदितास् तत्-क्रम-वशाद्
अहो दूर-स्थित्योर् अपि दयितयोर् एक-रुचिता

1.17.2

[शिखरिणी]
आदर्शाव् इव तौ स्वच्छौ सदाभिमुखतां गतौ ।
राधा-माधवयोर् भावौ मिथो भावान् उपेयतुः

1.17.3

[अनुष्टुभ्]
भूयो भूयो दृश्यते यर्हि मूर्च्छा
राधायां वा श्रीहरौ वा रहस् तु ।
अन्योऽ न्यस्य स्फूर्तिर् एवाप्ति-तुल्या
कल्याणाय प्रायशः कल्पते स्म

1.17.4

[शालिनी]
[4] तद् एवं ताभिस् तस्यातिदुर्लभस्य स्पृहातिशय-वाहितया नातिहितायां शरद्य् अतिवाहितायां मार्गशीर्षस् तु तासां पतिं-मन्य-गृह-गमनाय मार्ग-शीर्षताम् अवाप ।
[5] यत्र च कन्यानां मातर-पितरेषु तद्-दानाय पूर्वम् एव स्वयम् अनभिरुचिती-कृत-मुरजिद्-इतरेषु, स्वप्न-दोषाद् एवान्यत्रावगत-तद्-वितरेषु, तत एव दुःखिततयानभिनन्दित-तत्-सम्बन्धि-निकरेषु, सम्प्रति तासाम् अतिदुःख-शुष्कता-दृष्ट्या भीति-परेषु, तत एव तत्-प्रस्थापनायां स्थगितान्तरेषु लोक-धर्म-विगान-लब्ध-दरेषु च, घूर्णित-चित्ता पूर्णिमा तद् इदं निर्दिदेश-
[6] भवन्तस् तावत् तटस्थी-भवन्तस् तिष्ठन्तु, वयम् एवामूर् अनुनीय तत्-तद्-गृहम् उपनीय तत्-तत्-प्रक्रियां क्रिया-विषयी-करिष्यामः इति ।
[7] अथ जन्यं-मन्यांस् तेषाम् अनादरम् अवधाय मन्युं मन्यमानान् स्वयम् एव सा देवतादि-मान्या साम्ना सम्मान्य यथा स्व-मनीषितम् एवाङ्गीकारयाञ् चकार ।
[8] कन्यास् तु ता धन्या वरं-मन्यालयान्तः-प्रयाणं तत्र च लब्ध-तद्-अञ्चल-न्यास-निजाञ्चलताद्य्-अन्यायम् असम्मन्यमाना बभूवुः ।
[9] अथ ताः सा शपथ-प्रथनया तद्-आलयेष्व् असम्भवम् अपीष्ट-लम्भनम् अनिष्ट-विप्रलम्भनं च विश्रम्भविषयं विधाय दुःसह-नानाध्यवसायाद् विष्कम्भ्य गमन-कर्मणि लम्भ्यमानाः पथि तु स्वमायया गोपयन्ती तत्र तत्-सदृग्-अन्याश् चारोपयन्ती तत् तन् निर्वाहयामास । पश्चाद् एव च तास् तत्र वासयामास । तास् तु तत्र च परम-त्रस्ता बभूवुः, यतः-
यासां देहोऽ प्य् एष बन्दी-गृहाभः
कृष्णालाभाद् गोपिकानां बभूव ।
तासां गेहं पैतृकं शर्मणे किं
यद्य् एवं धिक् श्वाशुरं वह्निर् एव

1.17.5

[शालिनी]
अप्य् अनुकूलं यासां प्रतिकूलं स्याद् विदूरगे कृष्णे ।
तासां प्रतिकूलं तु स्फुटम् एवासीत् कुकूल-तल्पाभम्

1.17.6

[गीति]
[10] तथापि पौर्णमासी तास् तत्-तद्-गेह-मध्यम् अध्यासीना विधाय यदा चलितुम् उद्यतासीत् तदामूः पुनर् विच-प्रचाम् आप्ता निश्च-प्रचा-कृते तद् इदम् आदिष्टवती, यदा भवतीभिः स्व-मर्यादा-लोपस् तर्क्यते, तदा प्रपलाय्य स्थीयताम् । समाधानं पुनः कयाचिद् विद्ययास्माभिर् एव विधातव्यम्, सहसा पलायन-धाम च तत्र तत्र विधातव्यम् इति ।
[11] तद् एवं राज-कारागृहाद् वैरि-कारागृह इव पितृ-गृहात् तत्र गत्वा वसन्तीषु,
यावान् अजनि निरोधस् तावत्य् उत्कापि संववृधे ।
कृष्ण-प्रेमवतीषु श्वासानिल-लीनतां याता

1.17.7

[उपगीति]
यद्यपि मनसि समिद्धा हरि-परिरिप्सा तथापि ताभिः सा ।
आव्रियते स्म विचारैस् ततिर् इव वह्नेः सद्-इन्धन-प्रकरैः

1.17.8

[गीति]
[12] तच् च श्री-राधा-प्रधानतया वर्ण्यते, यथा-
पीयूष-च्छवि-धारि-हारि-किरणः सर्वत्र शश्वज्-जडी-
भाव-प्राप्ति-गुणः सदार्द्र-हृदयः सद्-भ्रू-चकोरी-गतिः ।
सोऽ यं हन्त मया कथं हरिर् अहो तत्-प्राणया त्यज्यतां
धर्मो गच्छति किन्त्व् अधर्म-पदवीं रुद्ध्वा च मान-क्षयाम्

1.17.9

[शार्दूलविक्रीडित]
[13] श्री-कृष्णस्य च भावना, यथा-
मद्-एक-चेतो मत्-प्राणा राधान्य-वशतां गता ।
यां स्मरन् मम हा चेतश् चेतनाम् आवरिष्यति

1.17.10

[अनुष्टुभ्]
ततश् च-
राधां तथा स्मरन् कृष्णः स्निग्धं रागि विलोचनम् ।
कियन्त्य् अहानि मार्ष्टि स्म हन्त हारिद्र-वाससा

1.17.11

[अनुष्टुभ्]
[14] मिलनायाति-वैयग्र्यं च-
धर्मातिक्रमि चित्तं कथम् अधिमित्रं च तत् प्रकाशते? ।
इति हरिर् उपचित-युक्तिर् युयोज दूत्याय केवलां दृष्टिम्

1.17.12

[गीति]
[15] इदम् एव वक्ष्यते ताभिः-
शरद्-उदाशये साधु-जात-सत्-
सरसिजोदर-श्री-मुषा दृशा ।
सुरत-नाथ तेऽ शुल्क-दासिका
वरद निघ्नतो नेह किं वधः? ॥[भ्प् 10.31.2] इति ।
यतः-
कृष्णस्यान्यत्र दृक्-प्रान्तः सद्भिः शास्त्र-फलं स्मृतम् ।
हन्त तासु पुनः सोऽ यम् एभिः शस्त्र-फलं मतम्

1.17.13

[अनुष्टुभ्]
ततश् च-
रात्रिन्दिवं वसति चेतसि हन्त भाव-
ज्वाला हरेर् उत तदीय-रमा-गणानाम् ।
सन्ध्या-द्वये व्यतिविलोक-सुखाज्य-सिक्ता
साग्नि-द्विजालय इवाग्निततिः समिद्धा

1.17.14

[वसन्ततिलका]
तत्र च-
गोष्ठाद् वनं प्रविशतो वनतश् च गोष्ठं
लोकेन लोकन-कृते सह माधवेन्दोः ।
सम्भूय सङ्गतवतीषु च तत्-प्रियासु
राधा जयत्य् उडुषु पौर्णिम-राधिकेव

1.17.15

[वसन्ततिलका]
[16] तत्र च प्रगेतन-वन-प्रस्थाने-
मिथ्याहासान् अकुरुत हरिः स्पृष्ट-पार्श्वस्थ-हस्तं
वीक्षां वक्र-प्रणय-वलिताम् अर्धम् अर्धं वितेने ।
आश्लेषाद्यं विहरण-गणं मित्र-वर्गेषु चक्रे
दूरे गत्वाप्य् अहह मुरली-संविदः संव्यधत्त

1.17.16

[मन्दाक्रान्ता]
[17] इदम् एव च ताभिर् वक्ष्यते,
प्रहसितं प्रिय प्रेम-वीक्षितं
विहरणं च ते ध्यान-मङ्गलम् ।
रहसि संविदो या हृदि-स्पृशः
कुहक नो मनः क्षोभयन्ति हि ॥[भ्प् 10.31.10] इति ।
[18] अथ सायन्तनागमने तु-
यदा वा गोष्ठं सम्प्रविशति तदा च भ्रमरकैर्
वृतं वक्त्राम्भोजं धन-खुर-परागैर् वलयितम् ।
अमूषां नेत्रालिष्व् अभिमुखतया दर्शयति तन्-
मिलत्-पाशं यन्त्रं मदन-रचितं बन्धुम् इव तान्

1.17.17

[शिखरिणी]
[19] एवम् एव च ताभिर् वक्ष्यते-
दिन-परिक्षये नील-कुन्तलैर्
वन-रुहाननं बिभ्रद् आवृतम् ।
धन-रजस्वलं दर्शयन् मुहुर्
मनसि नः स्मरं वीर यच्छसि ॥[भ्प् 10.31.12] इति ।
[20] एवम् अहरहर् अपि परस्परं स्पर्धयेव वर्धमानतया तासाम् उत्कलिकाः कलित-मधु-माधवाधिकला-व्याकुलताकुलतां कलयामासुः ।
[21] यथा वर्णितं प्रलम्ब-वध-वासर-सम्बन्धि-सन्ध्याम् अनुसन्धाय,
गोपीनां परमानन्द आसीद् गोविन्द-दर्शने ।
क्षणं युग-शतम् इव यासां येन विनाभवत् ॥[भ्प् 10.19.16] इति ।
[22] अस्य चाभिधेयम् इदम्,
तासां कृष्णावलोके प्रमद-समुदितिर् न स्वरूपेण वक्तुं
शक्या किन्तु स्व-कार्य-स्फुरण-पदतया किञ्चिद् उद्देशम् आप्ता ।
तद्-विश्लेषे यथासां युग-शतक-दशां याति कालः कलाख्यस्
तद्वत् तस्यानुषङ्गे युग-शतम् अपि तद् भाति शश्वत् कलाभम्

1.17.18

[स्रग्धरा]
कलापि यदि विश्लेषे युगानां शततां गता ।
रात्रिन्दिवीय-सङ्ख्यायां तदा शङ्कामहे वयम्

1.17.19

[अनुष्टुभ्]
[23] एवं सायम्-प्रातिकावलोकन-वलतः कथम् अपि निदाघेऽ पि क्षपिते मयूरान् मदयित्नूनां गदयित्नूनां च स्तनयित्नूनां समागमः संवृत्तः । यथा-
अकुण्ठाम् उत्कण्ठां निरवधि वितर्क्यालि-विततिर्
यदा तासाम् अग्रे हरि-परिचितं वृत्तम् अरुणत् ।
तदा वर्षा जातास् तडिद्-अनुगताम्भोद-वलिताः
प्रतीपाभाः कृष्ण-स्फुरणम् अधिकं हा विदधिरे

1.17.20

[शिखरिणी]
नूनं निदाघेन विभूय जज्ञे
सन्तप्तिर् आसां हरि-रागिनीनाम् ।
वर्षासु शाम्येद् इति सङ्गिनीनां
निर्णीतिर् आसीद् विपरीत-रीतिः

1.17.21

[इन्द्रवज्रा]
वर्षा द्वितीया दधिरेऽ क्षि-नीरैर्
अन्तः स्फुरत्-कृष्ण-घनाभिर् आभिः ।
इत्थं निनिन्दुः किल ते रुवन्तः
स्वाजीव्य-वर्षानुगताः प्लवाद्याः

1.17.22

[इन्द्रवज्रा]
कलापाम् आसुर् एतासु कलापाश् च कलापिनां ।
स्मरार्ध-चन्द्र-बाणाभा यत्रैके भान्ति चोन्मुखाः

1.17.23

[अनुष्टुभ्]
वर्षाः शीतलताकरैर् निज-गुणैर् आसां मनः-शान्तताम्
आनेतुं किल यद् यद् अत्र विदधुः सर्वं च तत् प्रत्युत ।
द्वेषं ता बत मेनिरे यद् अनु च प्राणालिभिः शङ्कितं
हन्त द्विष्ट-सुहृद्-दशेयम् उदिता हा हा विधेः का गतिः?

1.17.24

[शार्दूल]
[24] तत्र च गृह-निगृहीतानां तासां मनः-कथा, यथा-
खर्जरादि-फलैः सुकन्द-वलितैर् मित्रैः समं प्रावृषि
प्राञ्चद्-वृष्टिज-वारि-वारिणि तरु-क्रोडेऽ शन-क्रीडनम् ।
नीर-प्रान्त-शिलासु तासु दधि-युग्-भिप्सादि सम्भोजनं
दूराद् धेन्व्-अनुहूतिर् अप्य् अघजिता नश् चित्तम् उल्लुञ्चति

1.17.25

[शार्दूल]
यत्र च,
घनागम-घनागमे विरमिताजितोन्मीलने
समस्त-जन-शर्मदाः सपदि खञ्जरीटेक्षणाः ।
अमूः शुचि-रुचि-श्रिया स्व-हृदि कृष्ण-भावं गता
हरि-व्रज-नव-प्रियास् तमसि लीनताम् आगताः

1.17.26

[पृथ्वी]
[25] अत्र तासां त्रास-वचनम्-
इरंमद-रदास् तेऽ मी नीरदा अपि सर्वदा ।
चर्वन्ति क्षौणि-पृष्ठ-स्थान् गर्जन्ति किल गर्वतः

1.17.27

[उद्गीति]
[26] अहो, चित्रीयते सेयं प्रेम-गति-वैचित्री यतस् तादृशि च तद्-वृत्ते कदाचिद् आनुकूल्य-स्पृशीव श्री-राधा-स्तुतीनाम् आधारता दृश्यते । [27] यथा तस्यास् तत् पश्यन्त्या भावनेयम्-
अयि तडित् त्वम् असौ क्व नु किं तपः
कियद् अहो कृतवत्य् असि तद् वद ।
यद् इमम् अम्बु-धरं हरि-वक्षसस्
तुलितम् आलि गता रमसे सदा

1.17.28

[द्रुतविलम्बिता]
[28] यत्र च प्रमादतः सा किञ्चन प्रोच्यापि सख्याम् अपि सङ्कोचाद् अन्यथा प्रखापयामास-
अहह पश्यत: कृष्ण-घनाघनं
प्रसजती चपला खलु खेलति ।
स्मरसि किं नु हरेः स्मर-कौतुकं?
नहि नहीदम् ऋतोर् गुण-वर्णनम्!

1.17.29

इति । [द्रुतविलम्बित?]
कदाचिच् च-
मेघागम-समयेऽ स्मिन्न् अधिगत-हरिता दृशां सम्पत् ।
हरये स्पृहयसि राधे नहि नहि शाद्वल-विभूतये द्विषति

1.17.30

इति । [उद्गीति]
[29] अथ श्री-कृष्णस्य दिग्-दर्शनं, यथा-
शिखण्डिनां या कल-नृत्य-माधुरी
शिखण्ड-चूडस्य सदातिशर्मदा ।
न सानुसन्धानम् इता तद् अस्तु यन्
मूर्ध्नः शिखण्डं च जगाम विस्मृतिम्

1.17.31

[उपजाति 12]
[30] तद् एवं सुष्ठु चापष्ठुताम् अनुष्ठाय गतायां प्रावृषि शरद् अपि, यथा-
आगमिष्यति शरद् भुवि द्यवि
स्वच्छतां विदधतीति चिन्तितम् ।
हन्त ताभिर् उदये तदीयके
स्वं दधे द्वि-गुण-भावनाविलम्

1.17.32

[रथोद्धता]
स-तडिद्-वारिद-वृन्दं निरीक्ष्य पूर्वं यद् एव या तप्ता ।
तद् अपश्यन्त्य् अपि सेयं सम्प्रति राधा भृशं दूना

1.17.33

[आर्या]
[31] तत्र च राधा-कृष्णयोर् नख-लिपि-वलयित-किसलय-दल-द्वय-गतं पद्य-द्वयं वायुना परस्परं नीतम् । तद्, यथा-
तडितः पुण्य-शालिन्यः सदा या घन-जीवनाः ।
तेन सार्धम् अदृश्यन्त, नादृश्यन्त च तं विना

1.17.34

[अनुष्टुभ्]
आवृतिम् अजहाद् इन्दुर् विलसति हंसश् च नील-कञ्जं च ।
वृन्दावनम् अनु हा धिग् दैवं तत् तन् न दृश्यते तस्याः

1.17.35

इति॥ [गीति]
राधा-कृष्णाव् इत्थम् अन्योऽ न्यम् आप्तं
दैवात् पत्रं शश्वद् आश्लिष्य साश्रु ।
अन्तः-शून्य-स्वर्ण-बिम्बान्तर् उप्तं
मध्ये हारं नायकं निर्मिमाते

1.17.36

[शालिनी]
[32] अत्र सखीनाम् अपि स्विन्नता, यथा-
जलं कुमुदम् अम्बुजं विधु-रुचिश् च यस्यां शरद्य्
अहो विकसद्-आत्मताम् अगमद् आशु तस्याम् अपि ।
मनो नयनम् आननं दशन-कान्तिर् आसां पुनः
सदा मलिनताम् अगाद् इति किम् आलिभिः सह्यताम्?

1.17.37

[पृथ्वी]
[33] अत्र च वर्णितं लब्ध-वर्णैर् अपि,
आश्लिष्य सम-शीतोष्णं प्रसून-वन-मारुतम् ।
जनास् तापं जुहुर् गोप्यो न कृष्ण-हृत-चेतसः ॥[भ्प् 10.20.45]
यतः-
सौन्दर्यं तन्-नीलिमासौ द्युतिः सा
लावण्यं तत् ते च लीला-विलासाः ।
पीयूष-श्रीण्य् अङ्ग-सङ्गे प्रियाणां
विश्लेषे तान्य् एव हालाहलानि

1.17.38

[शालिनी]
ततश् च-
हरेर् गन्धवहान् सर्वे जगत्-प्राणतया विदुः ।
तद्-वियोगेन तु क्षामा रामास् तान् आशुगाख्यया

1.17.39

[अनुष्टुभ्]
[34] तद् एवं यद्यप्य् उत्कण्ठायाः परम-काष्ठा जाता, तथापि काचिद् अपि काञ्चित् प्रति न प्रकाशयामास । अधर्मेणापि तं भजानि, इति यथा तास् तथा कृष्णोऽ पि तत्र ता निर्विद्या निर्विद्य खिद्यते स्म ।
[35] कृष्णस् तूपयान्तरम् अपश्यन् नेत्र-विक्षेप-वेत्र-विक्षेप-वित्रस्तानाम् अपि तासां वश्यताम् अयातानाम् आवश्यक-तद्-भावनाय वंशी-शंसन-विशेषम् अभ्यस्यति स्म । [36] यथैव वक्ष्यते तत्र तत्र तद् एवालक्ष्य ताभिः वेणु-वाद्य उरुधा निज-शिक्षाः इति । [भ्प् 10.35.14]
[37] अथ प्रथमतस् तन्-मना निजाग्र-जन्मना युगली-भूय मुरली-कलीम् आवर्तयति स्म । [38] तत्र तु यदा समुद्दीपित-भावान्तरे वनान्तरे गो-चारणे सर्व-मनसोऽ प्य् अगोचरान् सहचरान् विस्मापयन्न् अतिकान्त-गुण-व्रजेन निजाग्रजेन सह स्वयम् अहरहः सहर्ष उत्कर्षं प्रवीणयन् वेणु-शिक्षाम् ईक्षयाम् आस,॥ [39] तदा तासां तद्-रूप-स्फूर्तिर् अतीव पूर्तिम् आयाता ।
[40] सा च यथावद् एव, यतस् तस्य भाव-वैभवस्य स्वभाव एवायम्, यद् दूरतश् च स्व-विषयं विषयीकरोति । तथा हि-
अनुमान-गता तासाम् अर्थापत्तिः प्रतीयते ।
यतः कृष्णस्य दयितास् ता एव न्याय-पण्डिताः

1.17.40

[अनुष्टुभ्]
[41] तत्र याः पुनर् अतीव स्निग्धता-दिग्ध-हृदयास् तद् दुःखतः शुष्कताम् अवापुर् न तु पुनः स्वक-दुःखं पुष्कलं मेनिरे ।
[42] यथा राधाया विशाखा ललिता पर्यायानुराधा च, चन्द्रावल्याः शैव्या पद्मा चेत्य्-आदयः । तासु तु ताः स्व-मात्र-निष्ठतां निष्टङ्क्य स्वयम् एव स-सौहार्दं निज-हार्दम् आवेदयाञ्चक्रुः । तथापि तत्र प्रथमं राम-सहितता-पिहितम् एव तं लुप्त-वर्ण-पदं वर्णयामासुः ।
[43] तत्र गीतं, यथा-
रामो रामानुज इति युगलम् ।
कृत-नट-वेषतया पटु राजति गायति सखि-गण-युगलम् । [ध्रुव]
सरस-रसालज-पल्लव-तल्लज-पल्लवितामल-शीर्षम् ।
नव-यौवन-वन-बीजाङ्कुरम् इव धावयद्-अतनु-चिकीर्षम् ॥ब्॥
वाञ्छित-पिञ्छावलि-परिलाञ्छित-मणि-निचयाञ्चित-केशम् ।
दधद् इव हरि-धनुर्-अनुगत-तारा-वलि-वलिताम्बुद-लेशम् ॥च्॥
वलयित-नव-दलद्-उत्पल-कर्णिक-कर्ण-युगाद्भुत-शोभम् ।
लतिका कासाव् इति विस्मयकृति मधुकृति विनिहित-लोभम् ॥द्॥
हस्त-कमलम् अभि कमल-विघूर्णन-रमण-कला-रमणीयम् ।
मधुप-गणं प्रति मधु-कण-वर्षणम् अकृत यतः कमनीयम् ॥ए॥
मालामाला-परिमल-बलि-बलि-वपुर् अलि-वलित-सदेशम् ।
अलि-झङ्कृति-नुति-कोलाहल-वह-बहुल-कुतूहल-वेशम् ॥f॥
सितम् असितं वपुर् असितं पीतं वसनं यस्य च गीतम् ।
तद् इदं यदि गोकुलम् अनु गोकुलम् अयति तदाघम् अतीतम् ॥ग्॥

1.17.41

। इति ।
[44] अपि तु तस्य गोकुल-सदेश-प्रदेश-प्रवेश एव सर्वेषाम् अभिनिवेश-हेतुः, यतः-
चक्षुर्-भाजां फलम् इदम् अहो यद् व्रजस्य प्रवेशे
गोभिः साकं सखि-वलयितं दृश्यते भ्रातृ-युग्मम् ।
युग्मे तस्मिन् लघुर् इह मुखाम्भोजम् अस्मिन् मुरल्या
दीप्तिः किञ्चिन् निगमन-कलाशालि नेत्रं च तत्र

1.17.42

[मन्दाक्रान्ता]
[45] अत्र चैव ध्वनितम्-
धामागतस्य समये सखि-धेनु-सङ्गि
सङ्गायतो विहरतो हरतश् च तस्य ।
किञ्चिद् विमृग्यद् इव चञ्चलताञ्चि-तारं
हाराणि-नेत्रम् अनु विध्यति मानसं नः

1.17.43

[वसन्ततिलका]
तस्मात्-
सा किल कुलजा कुलजा नयने तस्याः परं नयने ।
वेणु-विनोदी मदनः स भवति यस्याः स्वयं मदनः

1.17.44

[उपगीति]
[46] तद् एवम् अघदमनेन तासां क्रम-परम्परातः परस्परं स्व-विषयाभिलाष-व्यञ्जना-सञ्जनं किञ्चिल् लज्जा-पर्ययम् आचर्य तादृश-रम्य-स्व-विद्या-बल-तारतम्य-विदुरतया विदूरतोऽ पि तम् अवधार्य पर-परतः परार्ध्यं समर्ध्यमानां पुनर् वेणु-शिक्षां विलक्षणी-कुर्वता सङ्कर्षणः केवलं लक्ष्याय कल्पयाञ्चक्रे । यत्र हि सर्वम् एव युगपन् मुग्धता-दिग्धं बभूव ।
[47] यत्र श्री-व्रज-देवीभिर् अपि निज-भाव-व्यक्तिं शङ्कमानाभिः सङ्कर्षणं लक्ष्यं विधाय तद् वर्णयामासे, यथा-
वेणोः शिक्षाम् अथ रचयतोर् धेनु-रक्षादि-लक्ष्यान्
नानारण्यं प्रति विहरतोर् बिभ्रतोर् यष्टि-रज्जू ।
स्तम्भं लोले चलनम् अचले कुर्वतोर् अत्यपूर्वं
भ्रात्रोर् आसीद् बत तनु-भृतां धर्मतो वैपरीत्यम्

1.17.45

[मन्दाक्रान्ता]
[48] अत्र चैवं ध्वनितम्-
नूनम् एवं विदधतोः सर्वेषां धर्म-पर्ययम् ।
कृष्णोऽ मूलम् असौ चास्मद्-धर्मम् उन्मूलयिष्यति

1.17.46

[अनुष्टुभ्]
[49] तद् एवं भ्रातृभ्यां सङ्गाने युगपद् एव सर्वेषां मोहनम् ऊहमानेनानुजेन विचारितम्-[50] हन्त तासाम् एव मोहनाकर्षणे सुष्ठु ममाभीष्टे, तत्रापि राधाभिधायाः । तस्मात् पृथग् भवन् पृथग् एव यथा जीवानां जातिर् यथा-युक्तं तयोर् द्वयम् एकं वा वहति, क्रमशो व्यक्तिर् अपि, तथा शिक्षार्थं प्रयतिष्ये । तच् च तत्-तन्-मात्रातिशयिताभीप्सित-स्वरादि-मर्म-समुद्भावनया सम्भविष्यति इति ।
[51] तद् एवं विचारयता तेन परीक्षा-पर्यालोचनार्थम् उत्तरम् उत्तरां वश्यताम् अतीततराण्य् अवराणि सत्त्वानि क्रमशः स्व-वशताम् आनीतानि, तथापि तत्-प्रेयसीभिश् चित्त-क्षोभ-मात्रं तु लेभ एव ।
[52] तत्र यथा प्रथमतो गाः प्रति तद्-गानम् अवकर्णितम्, तथा वर्णितम्, यथा-
हरेर् वक्त्रं वेणु-ध्वनि-मिषतया वर्षति सुधां
पिबत्य् एतां गव्या यद् अनु रसना-कर्ण-युगलम् ।
अहासीत् प्रस्तब्धा निज-विषयम् अन्या तु रसना
किम् एतत् किं नैतद् भवति किम् इवैतत् किम् इति वा

1.17.47

[शिखरिणी]
[53] अत्रापि ध्वनितम् इदम्-
गवाम् अस्माकं च श्रवणम् अनु वेणोः समदशा
यदप्य् एषा जाता तदपि किल भेदो विलसति ।
अमूस् तद्-वक्तेन्दुं सपदि कलयन्ति प्रतिपदं
वयं नैतद् विद्मः क्व भवति युगे तस्य कलनम्

1.17.48

[शिखरिणी]
[54] अथापरे-द्युश् चापरां शिक्षाम् अधिकृत्य वन्यान्य् अपि सत्त्वानि समाहृत्य मोहितानि, यथा-
वंशः सोऽ यं तु वीतंसः कंस-शत्रोर् इतीयते ।
तेन शंसनतो यान्ति विध्वंसं मृग-पक्षिणः

1.17.49

[अनुष्टुभ्]
[55] तद् अपि ताभिर् उद्भावितम्, यथा-
वृन्दारण्यं प्रथयति भुवः कीर्तिम् अत्र स्वयं हि
श्रीमान् कृष्णो विहरति पदाम्भोज-लक्ष्मीं वितन्वन् ।
वेणोर् वाद्ये नटन-घटनं बर्हिणः सभ्य-भावं
वन्याः सर्वे ययुर् इति सदा रङ्गतां यज् जगाम

1.17.50

[मन्दाक्रान्ता]
[56] अत्र चेदं ध्वनितम्-
वृन्दारण्यस्य पुण्यं व्रजितुम् इह न नः शक्तिर् अस्तीति चास्तां
यद् बर्ह्याद्याश् च भान्ति प्रतिपद-सुकृत-प्रोदयाद् अस्मद्-अर्ह्याः ।
गृह्याणां गृह्यकाः स्मः स्फुटम् इह तद् अलं गृह्यकेभ्यश् च गर्ह्यास्
ते तस्य स्वैरम् ईक्षां विदधति न तद्-आभासम् अण्व् अप्य् अयाम

1.17.51

[स्रग्धरा]
[57] अथ दिनान्तरेऽ पि तेभ्यो विच्छिद्य हरिण्यस् तथा कृताः । तच् च पूर्ववत् ताभिर् वर्णितम्-
आश्चर्यं सखि कृष्णसार-दयिता-वृन्दं मिलद्-भर्तृकं
जात्या मूढम् अपि व्यतीत्य भवतीर् अप्य् एवम् ईहां दधे ।
श्रुत्वा वेणु-कलं हरिं प्रति गतिस् तद्-रूपतश् चित्रता
तस्याप्य् अर्चनम् उल्लसत्-प्रणयतस् तत्रापि नेत्राञ्चलैः

1.17.52

[शार्दूल]
[58] ध्वनितम् अपीदम्-
वयं जात्या नार्यः पुरु-गुणवताम् आदृततमास्
तथा भर्तारस् तत्-प्रणय-नय-सिद्ध-व्रज-भुवः ।
हरिण्यो नेदृश्यस् तदपि पतिभिस् तं ययुर् अहो
धिग् अस्मान् दुष्पुण्या दधिम नहि तासाम् अपि तुलाम्

1.17.53

[शिखरिणी]
[59] दिनान्तरे तु विशिष्य विहङ्गमास् तथा-भावं गमिताः, तत्र च ताभिर् अभिहितं,
अस्मिन् वने तु विहगा मुनयः प्रदिष्टाः
कृष्णस् तु तद्-गुरुर् इति प्रततं प्रतीमः ।
नैवान्यथा तद् अमुना किमपि प्रगीतं
मौन-व्रतेन शृणुयुः परितो निविष्टाः

1.17.54

[वसन्ततिलका]
[60] अत्र तु स-निर्वेदं ध्वनितम्-
यस्माद् असौ मुनिस् ते च मुनयः सर्वतः स्थिताः ।
तस्मात् काञ्चित् स्पृहाम् अत्र नाञ्चितां कर्तुम् अर्हथ

1.17.55

[अनुष्टुभ्]
[61] अथ दिनान्तरे देव्योऽ पि तथा कृताः, तत्र ताभिर् वर्णनं, यथा-
वेणूद्गान-गुणेन तस्य परितः कृष्टे विमानोत्करे
देव्यो रूप-विलास-मोहन-कलाम् आसाद्य मोहं गताः ।
यत्रेदं न विदुः किम् एतद् अभितः पूर्वं श्रुतं वीक्षितं
वेति स्रस्तम् अभूत् कचादि किम् उ वा नैवेत्य् अपि प्रायशः

1.17.56

[शार्दूल]
[62] अत्र च ध्वनितम्-
हन्त देव्योऽ पि यत्रैताम् अवस्थाम् आपुर् अञ्जसा ।
तदीय-व्रज-भू-बाला वराक्यस् तत्र का वयम्?

1.17.57

[अनुष्टुभ्]
[63] तद् एवं चेतनांस् तथा वितथ-चेतनान् विधायाचेतनान् अपि चेतनान् इवाचरितुम् आरभते स्म । अचल-मर्यादया पर्याप्ताः स्फुटम् अमूर् आक्रष्टुम् अचेतनताम् अतिक्रम्यापि दुःशका इति ।
[64] तत्र नदी-चरितं ताभिर् एवं विचारितम्-
द्वीपिन्यः श्रवणेन वेणु-रणितेः स्तम्भं गताः सभ्रमाः
फुल्लत्-पूरतया स्फुरद्-घन-रसा हंसादि-गीः-शिञ्जिताः ।
उन्मर्याद-दशाम् इता मुररिपुं दूरेऽ भिसृत्यागता
भङ्गालोल-भुजैः सरोज-वलयस् तस्याङ्घ्रि-युग्मं दधुः

1.17.58

[शार्दूल]
[65] अत्र चेदं ध्वनितम्-
नद्यः सिन्धु-पति-व्रता हरि हरि प्रत्यक्त-मर्यादिकास्
तं विद्रुत्य मिलन्ति चेद् अहह का दीनास् तदानीं वयम्? ।
किन्तु स्वैरम् अमूर् उदूढ-सुकृता नास्मासु तत्-तुल्यता
स्वल्पापीति निवृत्तिर् एव सुखतो युक्ताथवा दुःखतः

1.17.59

[शार्दूलविक्रीडितम्]
[66] दिनान्तरे चाम्भोद-वर्णनं, यथा-
मुरारेर् अम्भोदः सुहृद् इति न वा केवल-रुचा
स्वसादृश्यात् किन्तु व्यतिकृत-हितत्वाद् अपि सदा ।
असौ मल्लारेण प्रबलयति तं वेणु-जनुषा
स चायं छायाभिः प्रशमयति तापं तद्-उपरि

1.17.60

[शिखरिणी]
[67] अत्र च ध्वनिः-
हंहो पश्य जडोऽ पि वारिद-चयः सर्वोपरि स्थाय्य् अपि
च्छायाभिः स्वरसैश् च तं परिचरत्य् अन्तश्चर-प्रेमतः ।
कष्टं सुष्ठु वयं तद्-एक-शरण-प्राण-स्थितिं-मन्यता-
गण्यास् तस्य विना तु सेवनम् अमूर् जीवाम धिग् जीवितम्

1.17.61

[स्रग्धरा]
[68] अहो, शिलामय्य् अपि शैलजातिः सुखम् एवं भजते, यथा-
श्रीमान् गोवर्धनाद्रिः स्फुटम् अयम् अभितः श्री-हरेर् दास-वर्यः
कृष्णे रमेण यस्मात् तम् अनु मुरलिका-वादनायाधिरूढे ।
लब्धैर् यः सात्त्विकाभैश् चरण-सरसिज-स्पर्शजैर् अङ्कुराद्यैः
सर्वाङ्गीन-द्रवैर् अप्य् अनुग-सखि-धनं सेवते तं चिराय

1.17.62

[स्रग्धरा]
आस्तां गोवर्धनाद्रेः पुलक-मुख-दशा श्रूयताम् अन्यद् एतत्
चित्रं चेन् न प्रतीतिर् भवति किल गिरौ दृश्यतां चापरत्र ।
यः स्निग्धत्वं समन्ताद् दधद् इह मुरली-गानतश् चिक्वणाख्याम्
आगाद् यत्रास्ति साक्षि प्रतिपदम् उदितं कृष्ण-मुख्याङ्घ्रि-चिह्नम्

1.17.63

[स्रग्धरा]
[69] अत्र चेदं ध्वनितम्-
महतां पदवीम् आप्तुं वाञ्छा यद्यपि धृष्टता
तथाप्य् अनुगतिस् तेषां भाति चेद् अस्ति दृष्टता

1.17.64

[अनुष्टुभ्]
[70] तद् एवं तासाम् अतस्मिंस् तद्-भावनां भावयन्न् उन्माद-दशा-वशतां परिकलय्य विह्वल-हृदयः सदयतया स मधुकण्ठः क्षणं गद्गद-कण्ठः संवस्त्रित-मुखः समस्त-मन्यु-न्यस्त-निजासुखः पुरु रुरोद, अनूदितवांश् च श्री-राधा-निबद्धम् अबद्धं पद्यम् एकम्-
वेणोः पुण्यम् अतीव हन्त यद् असाव् अस्त्री च तस्याधरं
गोपीनां स्वम् अपि ह्रियं परिहरन् शश्वत् पिबन्न् अर्दति ।
तृप्त्या छर्दि-निभाद् अमुष्य रणितान् नद्योऽ पि फुल्लन्त्य् अमूर्
यद्-वंश्या नग-जातयोऽ पि मधुभिर् बाष्पं मदाद् बिभ्रति

1.17.65

[शार्दूल]
[71] ध्वनितं चेदं-
याचेऽ हं वंश-देहं न तु कुलज-वधू-देहम् आद्ये हि कृष्णस्
तृष्णग्-भावेन सज्जन् बहु-रुचि विहरन् दुर्लभः स्यात् परत्र ।
वंशी-भावे चिद्-अंश-प्रशमन-वशता-विस्मृतात्मा यदि स्यात्
तेन ज्ञायेय सेयं मम विरह-दुता दारुताम् आगतेति

1.17.66

[स्रग्धरा]
[72] ततश् चेतसि चेदं विचारितं-
गण्डं चुम्बसि कुण्डल-स्थम् अकरि त्वं तस्य वंसि त्वम् अप्य्
आस्यं प्रेक्षि तथाङ्गम् अङ्गम् असकृन् माले त्वम् आलिङ्गसि ।
तद् युक्तं यद् अतीत-सर्व-विधिका यूयं, वयं तु स्फुटं
हा तत्-तद्-विधि-भाग्-विचार-हतकेनाभीप्सिताद् वञ्चिताः

1.17.67

[शार्दूल]
अहो सुमनसो मुक्ता वज्राण्य् अपि हरेर् उरः ।
न त्यजन्ति वयं तत्र का वा स्मर-वशाः स्त्रियः?

1.17.68

[अनुष्टुभ्]
चेन् न सङ्गम् अपरस्य विधत्ते
श्याम एष न तु तर्हि दुनोमि ।
अङ्कपालयति हा गत-शङ्कः
सङ्गिनः कथम् इदं कलयामि

1.17.69

इति । [स्वागता]
[73] तद् एतत्-पर्यन्तम् अन्तर-स्पर्शि-राग-परीते तस्य वेणु-गीते कोऽ पि सम्भ्रमः सर्वम् एव व्रजं निघ्नं कुर्वन् विघ्नम् आचरति स्म । [74] स तु प्रातः प्रस्तोष्यते । इत्य् अञ्जलिं बद्ध्वा पुनर् उवाच-
अस्य त्वदीय-कान्तस्य राधे जानाति कोऽ पि न ।
प्रयासाभ्यन्तर-स्थायि-त्वन्-निमित्त-प्रयासताम्

मूल पाठ: Gopālacampū, P1-33, U1-3, U5-6, U29 · Edition: Puridasa (1947). · Data entry Jan Brzezinski · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc