गोपालचम्पू · अध्याय 1.16
[शिखरिणी]
[181] अथ कथायां वृत्तायां चिराद् एव च धीरतायां प्रवृत्तायां यथास्वं सूत-सुत-द्वयाय वितीर्ण-सर्वेहिताः सर्वे शयनाय सदनं विविशुः ।
इति श्री-श्री-गोपाल-चम्पूम् अन्व्
अपूर्वानुराग-चर्या-जागर्या नाम
पञ्चदशं पूरणम् ।
॥15॥
(16)
अथ षोडशं पूरणम्
प्रलम्ब-दव-संवर्त-निवर्तनं
[1] अथ प्रभाते सभातेजसा प्रभाते परम-प्रभाववतां गोमतां प्रभाव् उपविष्टे कृष्ण-विशिष्टे तस्मिन् सदसि पूर्ववन् मधुकण्ठश् च कथायां यथावद् उपक्रमते स्म--स्निग्धकण्ठ! मदुपकण्ठतया राम-विक्रमान्तरम् आकर्ण्यताम्, यथा-
एवं गोचारण-मिष-मयं क्रीडति भ्रातृ-युग्मे
वृन्दारण्यं तप-ऋतुर् अगात् प्राणिनां नातिरुच्यः ।
धत्ते यद् द्राक् स च मधु-गुणं तच् च नाश्चर्य-चर्यं
तद्-युग्मं यद् वसति सततं तत्र नित्यानुरागि
[मन्दाक्रान्ता]
निर्झर-स्वन-वशाम्बुदागम-
भ्रान्ति-झिल्लि-कुलम् आप मूकताम् ।
अङ्घ्रिपाश् च झर-शीकर-प्लुताः
पुष्पिताः परम् अमी मधुं दधुः
[रथोद्धता]
वनस्य च्छायाभिर् जडित-जल-वृन्दे विकसतः
शुचाव् अप्य् अब्जादेः पवन-विततिर् माधव इव ।
तद् एवार्द्रं कृत्वा कुसुमितम् अकार्षीद् अविरतं
मिथो योग्यानां यद् व्यतिवहति मैत्री-सुख-शतम्
[शिखरिणी]
तत्रासीन् नर-जातीनां ग्रीष्मेऽ पि ऋतु-राण्-मतिः ।
पिक-भ्रमर-मुख्यानां तिरश्चां तर्हि का कथा?
[अनुष्टुभ्]
माधवस् तु यदा मित्रैः प्रविशन् वेणुना जगौ ।
तदा द्वि-गुणितो रेजे माधवस् तत्र सोऽ परः
[अनुष्टुभ्]
ते गृहे मणिभिर् अप्य् अलङ्कृताश्
चारु-कान्ति-विधये यद् उद्भवैः ।
पुष्प-पल्लव-मुखैर् अलङ्क्रियां
शश्वद् आदिषत तस्य किं ब्रुवे
[रथोद्धता]
[2] अथ श्रीदाम-प्रधानतया सुदाम-वसुदामादिषु सभासद्वद् गोजाल-सम्भालनाय नातिदूरतः पृथग् उपविशत्सु लसत्सु बलानुज-बल-सुबलार्जुनादयस् तत्रागत्य नृत्य-रङ्गाजीवि-भङ्गितया सङ्गत्य शुभाशिषा विशेषितवन्तः । तैश् च कुत्रत्या विचित्र-नर्तक-प्रायाः प्रयाता भवन्तः? इति पृष्टा हृष्टात्मानः स्फुटम् उद्दिष्टवन्तः-भोः परम-दानशूराः ! दूराद् आगता वयम् यतः प्रथमं तावद् भवत्-कीर्ति-नर्तित-मनस्का जाताः, ततश् च शरीरेणापि भवद्-अग्रे नर्तितुम् इच्छावः । कुत्रापि चिराय वर्तितुं न समर्थाः । श्रोत्रयोर् इव नेत्रयोर् अपि सुखं बिभ्रतः सम्प्रति वर्तामहे ।
[3] तत्र श्री-कृष्णः स्वान् उवाच-अहो, प्रत्येकम् एवास्माकं लब्ध-वर्णाव् इमौ कर्णाव् एव पुरु-गुरू अभूताम् याभ्याम् एषां महाशयानां गुणानुभवम् आसाद्यामहे स्म । कियद् वा मनः सम्प्रशंसया मानयामः, येन तत्रैव सामोदं प्रोदसाहयिष्महि? चरणाभ्यां परितः किं नाचरितम्, याभ्यां मनोरथ-पथम् अलम्भयिष्महि? लोचन-युगलाय रोचनं किम् अन्यद् वितरामः, येन गुरूपदिष्टं तन्-मिष्टम् अनुभाव्यामहे? नासाद्वयात् किं नासादयाम, येनानेनामोदेन सामोदीक्रियामहे? त्वचः किं वचः कथयामः, यया तम् इदम् अदः-सम्बन्धि-गन्धवाहम् अवगाह्यामहे? आत्मनि तु सुभग-नाम-धेयं भाग-धेयं कियद् आधेयतां विन्देत, यस्य तत्-तत्-फल-वलयेनान्तर् बहिर् अप्य् आव्रियामहे?
अहो ! अस्तु तावन् नाम्नैव श्रियं दातुर् अस्य महाराजस्य विराजमानता, पारिषदानाम् अप्य् अमीषां महीमानम् उपनिषदोऽ पि वर्णयितुं न शक्नुवन्ति, येनात्मानम् अपि विस्मार्य नृत्यम् अनुवर्त्यामहे । किम् असङ्कीर्णम् अस्मासु न वितीर्णम् अमीभिर् महा-महिम-चरणैः, यत् खल्व् अतीत-लोकेन निजालोकेन निर्निमेषतया सुपर्वाणः क्रियामहे? कतिशः स्वयं न प्रतिपालिता वयं, यन् निज-च्छायाम् आपाय्य पर्याप्यामहे? कतरद् वा मनः-सन्तोषणं पोषणं न विहितं यन् निज-दृष्टि-सुधा-वृष्टिभिर् अभितर्प्यामहे । पश्यत पश्यत, नेत्र-गति-विचित्रताम् अमीषाम्, यया खलु नृत्यम् उपादिशद्भिर् आमीभिर् अनुगृह्यामहे । तस्मान् नृत्य-चर्या-परिचर्या-पर्युत्सुका वयं तद्-अर्थम् एव योग्यम् अवसरं मृग्यन्तो वर्तामहे ।
[4] सभासद ऊचुः, भो भोः सुशील-वासनाः! कुशीलवा इव स्तुवाना यदि सर्व-पर्वणि वर्तका नर्तकाः स्थ, तर्हि भवद्भिः समर्हिता निज-कला-कलापाः कल्प्यन्ताम्, विशेषाद् अनेन श्याम-धाम-निकाम-राम-राम-विग्रहेण । यः खलु चित्राङ्गो न तु चित्राङ्गः, चन्द्रकी न तु चन्द्रकी, पीतांशुको न तु पीतांशुकः, श्याम-घनो न तु श्याम-घनः, वंश-प्रवीणाधरो न तु वंश-प्रवीणाधरः, गुण-रूपी न तु गुण-रूपी, विद्याधरो न तु विद्याधर इति वैचित्रीभिर् नेत्राणि विचित्रयति ।
ततश् च,
अर्जुन-सुबलादिभिर् उपगाने
पाणि-शृङ्ग-दल-ताल-निधाने ।
नृत्यन्तं तं व्रज-शिशु-सभ्याः
प्रशशंसुर् ये श्रुति-नुति-लभ्याः
[पादाकुलक]
श्री-कान्तेऽ प्य् अथ निष्क्रान्ते विवेशावेशतो बलः ।
तद्-आलोकः सभ्य-लोकः श्लोकयामास तद् द्वयम्
[अनुष्टुभ्]
यद्य् एतयोर् वर्ण-भेदः स्यान् नैव श्याम-गौरयोः ।
तदा न परिचीयेताम् एतावङ्ग-गुणादिभिः
इति । [अनुष्टुभ्]
अङ्ग-हारे तडिल्-लीलाम् अङ्गे मेघेन्दुतां क्रमात् ।
व्यञ्जं व्यञ्जं विविशतुः सङ्गि-गातृ-कुलाचले
[अनुष्टुभ्]
[5] अथ सभासदः स्व-स्व-हृदय-विहारि मणिमय-हारि हारादिकं ददतस् ते तु प्रत्याचख्युः-न वयं द्रव्य-वनीयका नर्तक-नायकाः, किन्तु नियुद्ध-याचनका एव, शुभवन्तो भवन्तो मल्ल-तल्लजा इति वर्णनां कर्णयोः सञ्चित्य निश्चित्य च समन्ताद् विचित्य सर्वोर्ध्वं भवतां भवतां समितिं समागताः । अतस् तद् एवास्मदीयाय तोषाय पोषाय च दीयताम्, न तु मोषाय नीयताम् ।
[6] तद् एवम् अवधारयद्भिर् एव हसद्भिस् तैः सभासद्भिर् उपसर्पद्भिः सह सहजातौ कृत-शातौ तत्र-भवन्तौ तदारब्धवन्तौ । यत्र-
भ्रामणैर् लङ्घनैः क्षेपैर् आस्फोटन-विकर्षणैः । [भ्प् 10.18.12]
उरःपेषम् इवामीभिर् न्ययुध्येतां बलाजितौ
[अनुष्टुभ्]
[7] ततश् चानवद्यया विद्यया तोषितेषु तेषु निखिल-गुणि-जन-गर्व-निवर्तकेषु कृष्णादि-नर्तकेषु सर्व-दुरासद-श्रीदामादि-सभासदः स्वक-सर्व-कला-वेदिता निवेदिताचरणाय नृत्य-विद्याम् उद्भावयामासुः ।
[8] यत्रानन्द-कन्दलिततया स्वयम् अपि लब्ध-तृष्णाः कृष्णादयस् तदीय-शिक्षा-परीक्षणाय सुदुर्गम-तालादि-धरास् तत्-परिकरा एव बभूवुः ।
[9] अतएवोक्तम् ऋषिणा-
मिस्सिन्ग्!
क्वचिन् नृत्यत्सु चान्येषु गायकौ वादकौ स्वयम् ।
शशंसतुर् महाराज साधु साध्व् इति वादिनौ ॥[भ्प् 10.18.13] इति ।
[10] अथ गोषु गोचरताम् अतीतासु ततश् चलितवन्तस् ते-
बिल्वैः कुम्भैः कर-स्थामलक-समुदयैस् ताडयन्तो मिथस् ते
हासं हासं मृगेहाविकिर-भणितिभिर् दर्दुरादि-प्लुताद्यैः ।
अस्पर्शि-स्पर्शनार्थं नयन-परिवृतेर् मोचनैः कृष्ण-राज्य-
स्यन्दोली-सिंह-पीठाद्य्-अधिकृतिज-सुखैर् निन्यिरे याम-वर्गम्
[शार्दूलविक्रीडित]
तत्र च-
नृपतिर् अजनि कृष्णः स्तोककृष्णः प्रधानं
सुबल-सचिव-रामस्यापि तद्वन् नृपत्वम् ।
उभय-बल-पती श्रीदाम-भद्राव् इतीदं
विध-विविधतया तौ राष्ट्र-लक्ष्मीम् अकार्ष्टाम्
[मालिनी]
क्वचित् स्थानं क्वचिद् यानं क्वाप्य् अर्थे सन्धि-विग्रहौ ।
पराजय-जयौ क्वापि क्रीडायाम् अनुचक्रतुः
[अनुष्टुभ्]
एवं तौ लोक-सिद्धाभिः क्रीडाभिश् चेरतुर् वने ।
नद्य्-अद्रि-द्रोणि-कुञ्जेषु काननेषु सरःसु च ॥[भ्प् 10.18.16]
[11] तद् एवं स्थिते दिन-कतिपये च प्रस्थिते कदाचिद् अहर्-मुख एव पूर्व-पूर्व-पूर्वदेव-निर्वापण-भृत-निभृत-चिन्ता-कृत-मति-भ्रंशस्य कंसस्य स्वयम् अभ्यासं प्रलम्ब-नामा देव-ध्रुग् अभ्याजगाम । अभ्यागम्य च प्रणम्य व्यक्तम् एव तम् अनुयुक्तवान्-देव, तव केयं परिदेवना बलवद् आवर्तमाना दृश्यते?
[12] कंस उवाच-न जानासि? ममान्वग्-भूय स्थितं विशिष्टं किं वावशिष्टम्?
[13] प्रलम्ब उवाच-भवतु, माम् अपि यामम् एकं व्यापारय । कंसस् तु तुष्णीम्-भूय दूयमान-वदनः क्षणम् आसीत् ।
[14] प्रलम्ब उवाच-देव, कथम् इव ।
[15] कंसः स-वैरस्यं विहस्य तस्य तत्र पतङ्गतां विभावयन्न् उवाच-त्वम् अप्य् अतमसि प्रज्वलज्-ज्वलन-वर्त्मनि वर्तनीयः ।
[16] प्रलम्बः स-क्रोधम् उवाच-अहो, सर्वङ्कष-ज्वालस्य कालस्य महिमा हिमाचलम् अपि ज्वलयति, यदाश्रितांस् तडागांश् च ताडयति ।
[17] कंस उवाच-भवतु यथा भवद्-इच्छा ।
[18] इति निशम्य तम् आनम्य तद्-अवमानितश् च तदैव दैव-सन्दानिततया कृताविलम्बः प्रलम्बस् तादृश-क्रीडा-परेषु श्री-कृष्ण-वरेषु बाल-निकरेषु प्राप्त-दूर-भूर् विचारितवान्-
ताव् इमौ सुकुमारौ च सर्व-मारौ कुमारौ यौ ।
सहसा रहसा येन येन कंसाद् अगंसाताम्
[अनुष्टुभ्]
[19] सर्वोऽ प्य् असौ सर्व-चालेन कालेन घटित-कठिनताभ्याम् आभ्यां चर्वित-गर्वः संवृत्तः, तद् अद्य समस्त-वासर-विसृमर-विहार-विसरज-विश्वास-प्रपञ्चनया वञ्चयन् बन्धुवद् एव स्कन्ध-द्वये हस्त-द्वय-कृत-बन्धं द्वयम् अपि प्रक्षिप्य क्षिप्रम् एव भोजराज-परिसरं परिसमुपहरिष्यामि इति ।
[20] अथ स तु कल्की वल्कीकृत-कच्चरतादि-प्रच्छन्न-स्पर्श-वेशतया पूर्वं गोष्ठम् आगत्य परितो दृष्टिं वितत्य वेश्म-स्थित-गोप-बाल-विशेष-वेषं समूह्य तम् एव च व्यूह्य मिश्री-भवितुं शिश्रीषन् हसन्न् एव तत्र प्रविष्टः परिदृष्टश् च कृष्णेन ।
[21] दृष्ट्वा च तच्-छलम् एवास्वच्छ-स्वच्छलायावलम्ब्य-भद्र, कथं विलम्बम् आलम्बथास्, तथापि भद्रं दुद्यूषा-समय एव समयितस् त्वम् असि इति विहस्य तद्-अनुकृत-गोप-बाल-सम्बन्ध-विशेष-सम्बन्धं परिहस्य च बहु-परितोषितेन तेन सह सहचरत्वं बलस्य बल-निर्जयार्थम् एव कलयाञ्चक्रे । ऊचे च-अद्यारभ्य, सभ्य, मम परम-सुहृद् भवान् एव । त्वाम् अहम् अक्षि-गततया स्थापयिष्यामि । श्रीदामा रामम् एवान्वेतु, स किल ह्य् अन्तर्-वर्धन-स्पर्धः स्पर्धन-गणम् एवार्हति इति ।
[22] स तु क्रतुभुक्-शत्रुस् तत्र निर्विस्मयम् एव कुस्मयम् आनतया तथा स्थितः, यतः-
विश्वचिकीर् अपि स विधिः पिपठीर् यस्माद् भवेत् तस्मिन् ।
को वा चतुरं-मन्यः प्रथयतु निज-चातुरीं कृष्णे
[उपगीति]
[23] अथार्भक-समुदयं विभाग-द्वयम् अयं विधाय तं च प्रलम्बं स्व-बल-परिवृढतया दृढं निधाय तत्र च स-मत्सरम् इव बल-प्रलम्बौ श्रीदामात्मानौ मिथः प्रतिसङ्घट्टिनौ सङ्घटय्य परान् अपि सजूः-कुर्वाणतया तथा प्रघटया पराजितानां च शताय परिक्रीतानाम् अपि वाहकत्वं प्रकटय्य सङ्गराय कृत-सङ्गरः स माधवो विविध-क्रीडा-निविडमना बभूव । ततश् च-
अव्रीड-क्रीडतायां जयवद् इतरयोर् वाहयन्तो वहन्तस्
तस्मिन् वाहानुकर्तॄंस् तुरग-तुलनया हासयन्तो हसन्तः ।
मर्यादा-निर्णये तु प्रथित-कलि-कुलं वादयन्तो वदन्तः
प्रापुर् भाण्डीरम् एते वनवन-भुवि गाश् चालयन्तश् चलन्तः
[स्रग्धरा]
[24] तद् एवं कुतूहले तु प्रबले बलं प्रलम्ब-स्कन्धारूढं सन्धातुं जित-भुजग-भुजः श्री-बलानुजः पराभवम् अगणयन् दुर्बलम् अदुर्बलम् अविचित्य स्वीकृतं स्वगणम् एव पराभावयामास ।
[25] तस्यापाततस् तु वहनायमानानां मनो-ग्लानिः स्याद् इति स्वम् अपि तथा चकार, ततश् च-
ऊहे कृष्णः श्रीदामानं दैत्यः स श्री-रामाख्यानम् ।
अन्योऽ प्य् अन्यं शूरं-मन्यः सर्वः प्रोचे धन्यो धन्यः
[विद्युन्माला]
पूर्वं कृष्णः कौतुके येन दृष्टः
सौम्यः पश्चाद् रामकर्षे तु भीष्मः
इत्य् एवायं स प्रलम्बस् तु पर्यङ्-
मर्यादातः पर्यगात् तं प्रगृह्य
[शालिनी]
रामः क्रीडाविष्टताश्लिष्ट-बोधस्
तं नाज्ञासीद् दृष्ट-मात्रं च कृष्णः ।
पूर्वः प्रायेणार्जुता-भित्त-चित्तः
पश्चाद्-भावी चातुरी-सन्धुरीणः
[शालिनी]
[26] अथ तथापि गिरि-निवह-निभ-वहल-सारता-वह-दुर्वह-स्वभावता-भावित-सङ्कर्षण-वपुः-कर्षण-जात-धर्षण-वशान् निविड-पीडिततया व्रीडित-चित्ततया च स पुनः पुनर् ईडितं-मन्यः स्वम् अखर्वं पूर्व-सिद्धं पूर्वदेव-वपुर् आविर्भावयामास ।
यर्हि रामम् अवहद् दनोः सुतः
शुभ्र-धाम-वपुषं तमः-प्रभः ।
इन्दु-हारि तम इत्य् अमुं तदा
दिव्य-लोक-निकरस् त्व् अमन्यत
[रथोद्धता]
तस्मिन् किञ्चित् त्रासम् आपन्नवान् स
ज्येष्ठः पश्यन् द्राक् कनिष्ठस्य वक्त्रम् ।
तद् भ्राम्यद्-भ्रू-लीलया लब्ध-दृष्टिर्
दुष्टं मुष्ट्या ताडयत् सुष्ठु मूर्ध्नि
[शालिनी]
ततः प्रहत-मस्तकं रुधिर-रूषितं तद् वपुः
पतत् तुलितम् उज्जहत् प्रतिहरि द्रुतं पुप्लुवे ।
यथाञ्जन-मही-धरं दलितम् अक्त-रक्त-द्रवं
त्यजन् द्रवति वज्रकः सपदि वज्र-पाणिं प्रति
[पृथ्वी]
प्रलम्ब-पतनं दूरे प्रलम्बार्याप्तिर् अन्तिके ।
उभे ते युगपद् दृष्टे जज्ञाते स्मित-विस्मिती
[अनुष्टुभ्]
बाष्प-श्लिष्टतया तस्मिन्न् आश्लिष्टौ भ्रातरौ मिथः ।
या वाश्लिष्यार्द्रतां याता बन्धुता बहिर् अन्तरम्
[अनुष्टुभ्]
महा-रवं कृतवति च प्रलम्बके
तदा द्रुतं मृतवति च द्यवि स्थिताः ।
सुनिर्वृता ववृषुर् अलं कुलं
व्यतर्कयन्न् उपहसितिं हरेर् अपि
[रुचिरा]
वाहक-शिरसि प्रहरणम् अत्रादिष्टं सदा विहृतौ ।
मर्यादातिक्रान्ता प्रलम्ब भवता तथा तु नास्माभिः
[उद्गीति]
[27] तद् एवं प्रलम्बालम्भन-सम्भ्रमेऽ प्य् अनुद्भ्रान्त-चित्तास् ते शृङ्गिनी-वित्ताः कुणपताम् इतस्य प्रमीतस्य तस्य पितृ-वन-वेशं प्रदेश-लेशं परित्यज्य योजन-व्यज्य-विस्तार-प्रशस्त-भाण्डीर-तल-मण्डलम् एवाधिष्ठाय विहार-निष्ठाः क्रीडापणस्य स्पृहयाय्या जयाय्या गृहयाय्यास् तृणलोभाविष्ट-तया वृक्ष-षण्डाद् विप्रकृष्टाम् अपि यमुनाच्छानच्छ-मुञ्जाटवीं प्रविष्टानाम् अन्धी-भूतानां पाद-बन्धनानाम् अन्वेषणाद् विश्लेषम् आजग्मुः । ततः कथम् अप्य् अवधानतः प्रनष्ट-चित्ततया स्पष्ट-कष्ट-चित्ता रंहसा सङ्घशः सभयं ह्वयन्ते स्म । [28] नूनं देशाधिपति-निदेशतः सदेशम् आगता एव केचित् क्रूरा गा दूरगा विदधुर् इति च ध्यायन्ति स्म ।
[29] ततश् च गवां खुरादि-चिह्नैर् अह्नाय तासाम् अध्वानं लब्ध्वा समस्ता एव ता हरिर् अह्वास्त, यथा-
कृष्णे तटाग्रम् अधिरुह्य सुवर्ण-वर्ण-
वल्गूत्तरीयम् अनुघूर्ण्य वितीर्णहुतौ ।
गावः प्रतिस्वम् अभिनेदुर् उदीर्ण-तापा
गर्जत्-तडिद्-घन-घनाघन-तृष्णयेव
[वसन्ततिलका]
[30] तद् एवं यदालम्भि चास्तम्भि च नैचिकीनिचयस् तदानीम् एव च दृष्ट-निर्विलम्ब-प्रलम्ब-प्रलय-चराः कंस-चरा लब्धावसरा मुञ्जाटवीम् उद्भट-चेष्टतया वेष्टयित्वा निर्निवारण-कृपीट-कारण-वृष्टिं झटिति तादृश-दुष्ट-वौषट्-कारास्पद-तद्-विलक्षण-तेजसि तस्मिन् प्रतिपक्षता-कल्पनया निसृष्टवन्तः ।
[31] या खलु ज्वाल-कलयापि सर्वं रोषाद् ओषामास कल्पम् इति प्रज्वलति महा-ज्वलने पट-पटायमानायां च महा-मुञ्जाटव्यां भीततयास्त-व्यस्त-चालास् ते गोपालाः सखि-वलयारामतया कलित-केलि-जालाव् इह राम-गोपालाव् एव भूरि-दूरतः शरणतया समुपाजग्मुः । तत्र च-
दावाग्निं दृष्ट्वा ते यदपि हरिर् अक्षापरतया
समीयुर् वैयग्र्यं तदपि निज-रक्षाम् अवृणुत ।
प्रसक्तिस् तस्येत्थं किल भवति सा चेद् उयते
तदा शक्तिश् चास्य प्रभवति यथेच्छं मुहुर् इति
[शिखरिणी]
यथा-
कृष्ण कृष्ण महा-वीर्य हे रामामित-विक्रम ।
दावाग्निना दह्यमानान् प्रपन्नांस् त्रातुम् अर्हथः ॥[भ्प् 10.19.9] इत्यादि
[32] तद् एवं दूरागतानां कार्पण्य-पण्य-भणित-श्रवणम् आरभ्य तस्माद् अभ्यास-गतानाम् अपि भयम् उपलभ्य श्रीमान् कृष्णस् त्व् इदं ससंरम्भं भावयामास-
आत्मनोऽ प्य् अलम् अमी मम प्रिया
हा दवं प्रति दवं समिय्रति ।
गीर्णम् एव करवाण्य् अमुं ततः
को यमः क इह वा भवेद् हरः
[रथोद्धता]
[33] किन्तु मया वैश्वानर-निगरणं न सोढुं परिवृढा भवेयुर् एते इति विचिन्त्य प्रोवाच-मा भैष्ट नेत्र-पुटं त्व् अनुद्घटितं घटयत इति ।
[34] निमीलद्-विलोचनेषु च तेषु तद्-आवेश-वशया कृत-प्रवेशया योगमायया तत्-काल-कल्पित-महा-जलधर-कल्पापर-शरीरस् तत्रत्येनानल्पेनाननेन तम् अदुःखत एव सर्वं विभ्रक्षन्तं भक्षितवान् ।
[35] तथा तद्-इच्छया सुधा-चुलुकायमानम् इत्य् एके । तयैवं चान्यद् अपि चकार । यद् उक्तं-
ततश् च तेऽ क्षीण्य् उन्मील्य पुनर् भाण्डीरम् आपिताः ।
निशाम्य विस्मिता आसन्न् आत्मानं गाश् च मोचिताः ॥इति । [भ्प् 10.19.13]
अथ धेनु-ततिं विनिवर्त्य हरिर्
बल-युक्ततया मुरलीं कलयन् ।
सहचारि-गण-प्रथितात्म-यशा
व्रजम् आगतवान् अहनि ग्लपिते
[तोटक]
गवां धूलिर् नादः खुर-घटित-घट्ट-ध्वनि-घटा
हरेस् तासां हूतिः श्रवण-गण-भिद्-वेणु-रणितम् ।
अमीभिस् ते कृष्टास् तरतमतया गोकुल-जना
न पृष्ठ्यं नाग्रीयं न समम् अविदुर् न स्वम् अपि
[शिखरिणी]
यद्यपि बहु-सङ्घट्टन-धूलि-ध्वान्तं च सर्वत्र ।
तदपि हरेर् मुख-चन्द्रः प्रतिजनम् आनन्दितं चक्रे
[उपगीति]
[36] अथ पूर्ववन् मातर-पितरादि-रचित-सुख-वितरौ भ्रातरौ निज-निलयं प्रविविशतुः । [37] सखायश् च प्रलम्ब-दवानल-कथा-प्रथनया सर्वं विस्माययामासुः ।
[37] तद् एतत् प्रोच्य समापनम् आह स्म-
ईदृशस् तव गोपेन्द्र पुत्रः पुण्य-कृत-स्तवः ।
प्रेमार्द्रः सुहृदां यस् तु दावाग्निम् अपि पीतवान्
मूल पाठ: Gopālacampū, P1-33, U1-3, U5-6, U29 · Edition: Puridasa (1947). · Data entry Jan Brzezinski · GRETIL (Göttingen) · CC BY-NC-SA 4.0