गोपालचम्पू · अध्याय 1.15
[अनुष्टुभ्]
[30] कृष्णश् च सानन्दम् उवाच-तद् अद्य नक्तम् एवानवद्या सेयं विद्या निवेद्यताम् इति बाहु-युगं गृहीत्वा सखि-गोष्ठीम् अनु ताव् अमू नीत्वा बहल-कुतूहल-वेष्टितेन चेष्टितेन यावद् विरोचन-निम्लोचनावसरं वासरं गमयामास ।
इति श्री-श्री-गोपाल-चम्पूम् अनु
गर्दभासुर-मर्दनं नाम
चतुर्दशं पूरणम्
॥14॥
(15)
अथ पञ्चदशं पूरणम्
अपूर्वानुराग-चर्या-जागर्या
[1] अथ गोलोक-युव-राजः सखिभिः सह राजमानः, सायं प्रत्यवसाय, मातुर् आज्ञाम् आदाय, वलित-प्रभायां गोप-राज-सभायां प्रति-रजनी-जनित-सर्वायत-पर्वाकृताभिप्राये प्रहर-प्राये गुरून् अनुज्ञाप्य, तद् अन्यान् प्रस्थाप्य, महान्तः-पुरं प्राप्य, प्रसू-निदेशम् अवाप्य, सुबल-मधु-मङ्गलादिभिर् अन्तरङ्ग-सङ्गिभिः सङ्गतः सूताङ्ग-जाताभ्यां च ताभ्याम् अनुगतः प्राग्-वर्णित-गोकुल-कमल-पत्र-स्थितं परम-सुख-सत्रतया प्रमितं श्री-राधाराम-धाम जगाम ।
[2] अकस्माद् आगते च तस्मिन् सस्मित-क्रीडा-नर्म-जुषाम् अमूषां सम्भ्रम-भ्रम-विस्मय-स्मय-त्रपा-पत्रपादरादर-हर्ष-तर्षादयस् ते भावा युगपद् एव समुत्पन्नाश् चित्रीयमाणतां चित्रायमाणताम् अप्य् आचेरुः । अत्र च,
अकस्माद् आयान्तं हरिम् अनुभवन्ती किल ह्रिया
दशाम् अक्ष्णोर् नाना-द्रुतम् अपिदधे सा नत-मुखी ।
मुदा स्मेरा भुग्ना विकसितवती कुञ्चितवती
स-बाष्पा स्तब्धाभाभवद् इति समं या न घटते
[मन्दाक्रान्ता]
[3] अथ प्रगुण-गुणालङ्कृता किङ्करी-ततिर् वितस्ति-दघ्न-राङ्कवास् तरणेन तम् अतिविस्तीर्णं मणि-कीर्णम् अलिन्दम् आस्तीर्णं चक्रे । आस्तीर्णस्य च तस्य प्रतीची-प्रचित-सुललित-तुलिकायां प्राची-मुखतया स्वयं निविशमानः शुभ्रताराम-चामरादि-कराभिः किङ्करीभिः सेव्यमानः श्री-राधाया बहिर् अपि विराजमान-प्राणः पाणिना ताम् आदाय स्व-रस-मिलित-तदीय-रस-वेणी-समाप्लवन-जीवनानां श्रेणी-कृतानाम् एणीदृशां गणाग्र-देश-गततया वाम-देशे निवेशयामास ।
[4] दक्षिणतस् तु केवल-तदीय-नव-तरुणिमावतार-समुचित-सेवा-प्रकार-कामनाराम-प्रथम-वयसः सुबलादि-सवयसः । [5] यत्-पङ्क्ति-द्वयान्तिम-सीम-मध्य-गतौ तन्-मिथुनाभिमुखताभिरतौ तादृश-प्रणय-सुकुमारौ सूत-कुमारौ तस्थतुः, ययो राग-तालादि-साहायकाः सखाय एव केचन सचन्ते स्म ।
[6] यौ खलु द्वयोर् अपि तयोः सवयसाम् आवल्योर् अर्ध-मणिसर-वल्ल्योर् इवाग्रिम-सीम-मध्यम् अधिकृत्य मिथः शोभा-विनिमय-शीलतया नील-पीतता-विवेक-व्यतिरेक-मय-महा-नायकायमानं सर्वत्र प्रथित-दृष्टि-प्रसादम् अपि मिथः समर्पित-नेत्र-त्रिभाग-रागं तन्-मिथुनम् अवलोकयन्तौ द्वि-त्र-क्षणं चित्रवद् इवास्थिषाताम् ।
[7] ततश् च प्रहस्य नव-घन-श्यामेनादि-श्यमानतया सावधानतां दधानाव् आनन्दाद् उभाव् एव संहिताञ्जलि-करौ नान्दी-करौ बभूवतुः ।
[8] तत्र वस्तु-निर्देशः-
इमौ गौरी-श्यामौ मनसि विपरीतौ बहिर् अपि
स्फुरत् तत्-तद्-वस्त्राव् इति बुध-जनैर् निश्चितम् इदम् ।
स कोऽ प्य् अच्छ-प्रेमा विलसद्-उभय-स्फूर्तिकतया
दधन् मूर्ति-भावं पृथग् अपृथग् अप्य् आविरुदभूत्
[शिखरिणी]
[9] अथ नमस्क्रिया,
श्रीर् आसां न तुलां बिभर्ति नितराम् इत्य् उद्धवः कीर्तयन्
यासाम् अङ्घ्रि-रजो ननाम हरिणा यः स्वेन तुल्यो मतः ।
तासां तत्-प्रियता-सुधाकर-तनुं विष्वक् चकोरायिते-
नानेनानुगतां समस्त-महितां वन्दावहे राधिकाम्
[शार्दूलविक्रीडिता]
[10] अथाशीः,
प्रेमा योऽ सौ राधिका-कृष्ण-युग्मं
स्वानन्देन प्लावयित्वा सखीश् च ।
शश्वद् विश्वं प्लावयन् सुप्रसिद्धः
सोऽ यं बुद्धिं नः समिद्धां करोतु
[शालिणी]
इति परस्परं स-वैलक्ष्य-स्मितम् ईक्षित्वा स्थितयोस् तयोः स्निग्धकण्ठ एव सोत्कण्ठम् उवाच-
[11] अथ श्री-कृष्ण-जन्मादि-माधुर्यवद् एव श्री-राधिकायास् तत्-तन्-माधुरी वर्णनीयेति निर्णयेऽ प्य् अतिविस्तीर्णता-सङ्कोचनाय किञ्चिद् एव सूचयिष्यामः ।
[12] तत्र श्रीमद्--भागवते खल्व् एतद् उद्भावितम्-
तत आरभ्य नन्दस्य व्रजः सर्व-समृद्धिमान् ।
हरेर् निवासात्म-गुणै रमा-क्रीडम् अभून् नृप ॥इति॥ [भ्प् 10.5.18]
[13] तच् चैवं विशदयन्ति-
जन्मारभ्य हरेर् व्रज-स्थलम् अभूद् विश्व-र्द्धि-युक्तं पुनर्
लक्ष्मीणां रमणास्पदं च तद्-अधिष्ठानाद् विशिष्याजनि ।
राधा यासु ललास पूर्ण-शशभृन्-मूर्तीव तारासु सा
कान्तिः किन्त्व् इह चित्र-भाव-वलिता या कृष्ण-पक्षाधिका
[शार्दूल]
[14] बृहद्-गौतमीयेऽ प्य् एषा सर्वतो लब्ध-विशेषा प्रस्तूयते-
देवी कृष्णमयी प्रोक्ता राधिका पर-देवता ।
सर्व-लक्ष्मी-मयी सर्व-कान्तिः सम्मोहिनी परा ॥इति ।
[15] अलं-लक्ष्मीणाम् एतद्-आदीनां लक्ष्मीणां जन्म च श्रीमत्-पर्जन्यम् आरभ्य धन्यतया लभ्यस्य पुरुष-त्रयस्य परमातुल-स्तोत्राणां मातुल-गोत्राणां ये खल्व् आमुष्यायण-कुलता-निर्बन्धिनः सम्बन्धिनस् तेभ्य एवेति मागधानाम् अनुसन्धानं स-यत्नी-भूय यज्ञ-पत्नीस् त्यक्तवतस् तस्य तथाव्यक्त-मर्यादतान्यथा न पर्याप्तताम् आपद्यते ।
[16] तद् एवं स्थितेषु च श्री-राधिकायास् तु सर्वतोऽ प्य् आढ्य-कुलीनाश् छ्रीमद्-वृषभानुतया लब्ध-ख्यातिकान् महा-गोप-पयोनिधेर् जन्म सम्मतम् ।
[17] अत्र चोपगायन्ति-
सत्यं बहु-सुत-रत्ना- करतां न प्राप गोप-दुग्धाब्धिः ।
किन्त्व् अमृत-द्युति-राधा- लक्ष्मी-जननाद् अगात् पूर्तिम्
[आर्या]
[18] सा खलु श्री-कृष्ण-जन्म-वर्षानन्तर-वर्षे सर्व-सुख-सत्रे राधा-नाम्नि नक्षत्रे जातेति राधाभिधीयते ।
[19] जन्मानन्तरं तस्याः सन्-माधुरी चेयं कृतावलोकेन लोकेन कीदृग् इति पृच्छतः प्रति निरूपिता-
नवेन्दुर् मूर्तिर् वा कनक-कमलं वक्त्रम् अथवा
चकोरौ नेत्रे वा विसरद्-अमृतं दृष्टिर् अथवा ।
अपीत्थं राधायां यदि जित-तुलायां न वलते
विकल्पः किं तर्हि प्रसजतितरां तत्-तद्-उपमा
[शिखरिणी]
[20] आस्तां तावद् असौ व्रज-लक्ष्मीणां परम-लक्ष्मीर् अखिलाश् च तास् तथा वर्ण्यन्ते । यथा-
हरिम् अनु विन्दति शश्वल् लक्ष्मीर् इति या तु सर्वतः ख्याता ।
ताम् अपि किल गोपायितुं गोपी-संज्ञा जयन्ति ता लक्ष्म्यः
[आर्या*]
किं च-
कृष्णानुरूपम् अप्य् आसां वयो-वृद्धिः समृद्ध्यते ।
यथा चन्द्रमसः पुष्टिस् तथा तस्य रुचाम् अपि
[अनुष्टुभ्]
[21] तत्र कौमार-मध्यम् अध्यासीनायां श्री-राधिकायां तदानीतनानां केषाञ्चिन् नारी-जनानाम् उत्प्रेक्षा यथा-पश्य पश्य,
अरुणित-लघु-शाटी-खण्ड-कम्राधराङ्गी
श्रवण-गलव-रन्ध्र-प्रोत-सुस्पर्श-सूत्रा ।
रजसि निज-सखीभिः क्रीडया लोल-नेत्रा
मधुरि-पुरति-बीज-श्री-निभा भाति राधा
[मालिनी]
[22] तद् एवम् ईदृग्-वयसि पर्यवसिते तदादीनां तासां सौन्दर्य-सारस्य प्रचारः सर्वत एव प्रसर्पन् मातर-पितरादिभिर् नापसर्पयितुम् ईशाञ्चक्रे चिन्तयामासे च, न जानीमहे, दुर्जनः कंसः किं सम्प्रति सम्प्रतिपत्स्यते इति ।
[23] अथ प्रत्यहम् एव प्रत्येकम् अन्तः परस्पर-मिलिताः सन्तश् च ते सर्वे विचारितवन्तः, साम्प्रतम् एव पात्रसात्कर्तुम् एताः साम्प्रतं । तत्राप्य् आसां श्रीमन्-नन्द-नन्दनाद् अवरस् तु न वरताम् अर्हति । अवर एव हि सर्वः । तथा हि-
कन्या धन्यतमा रमाम् अपि जितां कुर्वन्त्य् अमूर् नन्दजः
स्वस्माद् ऊनदशां रमा-रमणम् अप्य् आसादयन् दृश्यते ।
तस्मात् तुल्यतया स एव वरताम् अर्हत्य् अमूषां तदप्य्
आस्तां धाम-सुहृत्-प्रियात्म-तनय-प्राणा हि नस् तत्कृते
[शार्दूल]
[24] अथ, यद्यप्य् अधुना यज्ञ-सूत्रम् अलब्धवतस् तस्य न विवाहावसरः सम्भवति, तथापि सज्जन-समाज्ञाम् आचार्य भाषा-बन्धश् च सन्धातव्य इति ।
[25] तद् एतद् विचार्य स्थितानां तेषां निश्चयावधारण-पूर्वकं तन् निवारणं प्रति पूर्ववद् एव वसुदेव-मन्त्रणया यन्त्रित-विचार-वर्गतयापि गर्गः सर्व-दर्शितया तद् इदं पराममर्श-
[26] तल्-लीला-क्रमः खल्व् अयं दुरत्ययतया मयासुगमस् तल्-लीला-शक्ति-प्रयुतानाम् अस्माकं च तत्र प्रत्यग्-वदाचरणेऽ पि नारदवन् न प्रत्यवायस्, तथापि तथा प्रथनीयम् यथा तासां न प्रत्यवायः स्याद्, आयत्याम् इष्टापत्तिः स्याद्, अखिलायत्यां पूर्न-तद्-आपत्तिश् च स्यात् इति ।
[27] तद् एवं विमृशन् स किल विलम्बम् अनवलम्बमानः श्री-व्रजम् आजगाम । आगम्य च निजम् उटज-तटं स-ध्यानम् अध्यासीनां पौर्णमासीं प्रति जगाम । गत्वा च सर्वम् एवेदं निवेद्य पुनर् निवेदयामास, मयेदं तावत् कर्तव्यम्, भवत्या तु तासां यथान्यत्र पत्यादि-व्यवहारः सत्याय न कल्पते, किन्तु लोक-प्रत्यायन-मात्राय तथा व्यवहर्तव्यम् इति ।
[28] तद् एवं तां सम्भाष्य श्रीमद्-व्रजराज-सम्भाषणं निर्वाह्य, बाह्यावरण-वासिनाम् आवासेषु बभ्राम । ते च तम् आगतम् अकस्मान् निशाम्य शाम्यच्-चिन्ता-तमसः स्व-स्व-मनोरथ-लब्धये लुब्ध-मनसः प्रणामादिभिः परिपूज्य कुशलम् अनुयुज्य प्रच्छन्नतया तम् एवार्थं पप्रच्छुः, इदं तावच् छङ्कितं; तत्र किं कर्तव्यम्? इति ।
[29] स तूवाच-वयम् इदं सर्वम् अपूर्वं पूर्वम् अपि जानीमहे । इदं च भवद्भिः सम्बद्ध्यम् अध्यवसितम्, किन्त्व् एका शङ्का शङ्कुर् इव मङ्क्षु हृदि परिवर्तते । यदा भवद्-अङ्ग-जाताङ्गनानां व्रज-राजाङ्गज-वर-कुमारेण सह सङ्गमः स्यात्, तदा नातिविलमबतः सर्वस्यापि व्रजस्य तदीय-चिर-विप्रलम्भ-लम्भनं भविता, किम् उतामूषाम्? किं च, प्रौढताम् ऊढवतीनां तु सहज-तद्-अनुराग-स्वाभाव्येनादर्शनेऽ प्य् उद्भवत्-तत्-स्फूर्तीनां न कोऽ पि तस्माद् विनिवर्तनं कर्तुं समर्थः स्याद् इत्य् अपि कदर्थनान्तरं भविष्यति । तस्मान् नन्द-कुलावतंसात् कंसाच् च वञ्चयितुं चञ्चलम् एवान्येभ्यः सम्प्रदातव्या नव्याः कन्यकाः ।
[30] तद् एवम् आदिश्य प्रस्थिते यदु-पुरोहिते तत्-कृतोपदेशोपजातादरो निज-निज-कन्या-गोपन-परो गोप-निकरोऽ पि तासां सम्प्रदानाय सम्प्रदानम् अन्वेष्टुं सुष्ठु चिन्ताम् अवाप, किन्तु सन्ततम् अस्य सा लालसा तु नालसा जाता ।
[31] तद् एवम् एतासां स्व-तनयेन परिणयनं प्रति व्रजपति-जम्पती च पूर्वम् अतीव तीव्र-स्पृहा-गृहीत-चित्ताव् आस्ताम् । विशेषतस् तु राधाया माधुर्य-विशेषावधारणतः । किन्तु गर्गेण तद्वद् एव निरस्ताव् इत्य् अस्तमित-प्रयत्नाव् अभूताम् ।
[32] अनुतापस् तु तयोर् नापजगाम, तद्-भ्रातृ-पर्यायाश् च तद् एकानुगति-मर्यादया पर्याकुलास् तासां कन्यानाम् स्व-पुत्राय न्यासम् अन्यायं मन्यमानास् ततः पराङ्-मुखा बभूवुः । किं बहुना? सर्व एव केवल-स्नेहतस् तत्र कृष्ण-वरतायाम् एव जातेहतां संहितवन्तः समदृश्यन्त । यतः-
योग्येन योग्यस्य तु नित्य-सङ्गमः
कस्मै न रोचेत भृशं स-चेतसे ।
रत्नेन हेम्नः शरदा सरोऽ म्भसः
सिताख्य-पक्षेण यथा सुधा-रुचेः
[उपजाति 12]
[33] वरता-सम्भावना-विषयाणां पितृ-वर्गश् च तादृग् अप्य् अनर्गल-कर्णे-जप-लब्ध-संसर्ग-गर्ग-वचन-सर्गत एव भिन्न-चित्तताम् आप । [34] पुत्रान् अप्य् अतिक्रम्य तत्र स्थितानां कृष्ण एव हि सुखसत्रायते ।
[35] तद् एवं ज्ञात-रहस्योऽ पि निर्णीत-नीति-प्रणीतये रहसि व्रज-राजम् उपव्रज्य स च तत्-पितृ-वर्गः प्रतिस्वम् एव तम् अर्थम् अर्थयामास, [36] आमुष्यकुलिका कलिता धन्याः खलु ताः कन्याः कृष्णन्यासत एव स-न्यायताम् अर्हन्ति । स यदि भवद्भिः स्वयम् अङ्गीक्रियते, तदा भङ्गीभिः प्रसङ्गम् अङ्गीक्रियताम् अस्माभिर् इति ।
[37] व्रजराजस् तु तद् आकर्ण्यम् आकर्ण्य स-निश्वासम् इदं विवर्णतया वर्णितवान्, अस्माभिः स्व-पुत्राय सर्वथा न ते सम्बन्धाः सन्धातव्याः, किन्तु यूयम् अपीदं विदांकुरुते । यत् खलु युष्माकम् अपत्यानि युष्माकम् इवास्माकं स्नेह-सातत्य-वहानि समुद्वाहयितव्यानि च, तस्माद् अस्माभिर् एव तत्र तत्र सत्रा-कुर्वद्भिः प्रयतनीयम् ।
[38] तद् एवं स्थगित-समुल्लासे निखिले च व्रजावासे व्रजपत्य्-अनुमत्य्-अनुसारतस् तासां पितरस् तद्-वितरम् आचरितुं रुचिं विनापि बहिर् उद्यमम् आचरितवन्तः । [39] तत् कुमार्यस् त्व् अतिबाल्य-चर्या-पर्याकुलतया न किञ्चिद् अपि चिद्-अमत्रतां निन्यिरे ।
[40] अथ या काचिद् वृन्दावन-गह्वरतः साक्षात् किल योगमायाया व्याजतस् तापस्यास् तत्र चाह्वयतः पौर्णमास्याः समभ्यर्णं अहर्-दिवं प्रायः किमपि मन्त्रायितुं आगन्त्री दृश्यते; या च मानुष्य् अपि देवीयमानेति वा देव्य् अपि मानुषीयमाणेति वा लक्षयितुं न शक्यते किन्तु सद्-आनुकूलतया तद्-वन-पालितासिषा-धयिषित-कृष्ण-लीलता राधादिषु च परम-स्नेह-लता यस्याम् अनुमीयते, सा वृन्दारिकेति निजाख्यां प्रख्यापयन्त्य् अपि जन-वृन्देन लाघवाद् वृन्देति स्वेनैव नाम्ना समाम्नायते । सा च सम्प्रति सर्व-शोच्यता-मय-तद्-वार्ता-श्रवणाद् अतीवार्ता तद्-अभ्यासम् एवाभ्यजगाम ।
[41] अभ्यागताम् अथ तां जपार्थम् आसीनापि, पौर्णमासी तूर्णम् उपव्रज्य नमस्कुर्वतीं परिष्वज्य शुभाशिषा च संयुज्य स्वच्छमनाः पप्रच्छुः, कथ्यतां कथम् असमयम् इदं तव समागमनम्? इति ।
[42] वृन्दाह-भगवति, परम् आपदां पदम् एकम् उत्पन्नम् अस्ति, कथं तव निश्चिन्तता दृश्यते?
[43] पौर्णमासी उवाच-किं तावच् चिन्ता-कारणं तत्-पदम्?
[44] वृन्दाह-हन्त, याः खलु नित्यतया कृष्णस्य प्रेयस्य इति श्रूयन्ते, तासाम् अप्य् अन्य-सम्बन्धः सनिर्बन्ध इव दृश्यते ।
[45] पौर्णमासी उवाच-कथम् इवायं परामृश्यते?
[46] वृन्दाह-तस्यानुबन्धश् चक्षुषा स्पृश्यते ।
[47] पौर्णमासी उवाच-न भविष्यति तासाम् अन्येनान्येन संयोग-सम्बन्धः, यतो मया हि मायया परा निर्माय निर्मास्यते तत्र प्रतिबन्धः ।
[48] वृन्दाह-अथ तथापि लोकतः कलङ्कः शङ्कनीयः ।
[49] पौर्णमासी उवाच-न स्याद् अपि तस्यापि स्थितिः, यतो मुनयः पुनर् इदं गास्यन्ति-
नासूयन् खलु कृष्णाय
मोहितास् तस्य मायया ।
मन्यमानाः स्व-पार्श्व-स्थान्
स्वान् स्वान् दारान् व्रजौकसः ॥[भ्प् 10.33.39] इति ।
[50] अतएव पुत्रोत्पत्त्य्-अभावात् पाययन्त्यः शिशून् पयः इत्य् अत्र शिशून् इत्य् एव पयः इत्य् एव च वक्ष्यन्ति, न तु सुतान् स्तनम् इति । एतद् अपेक्षयैव क्वचित् पुत्रत्व-व्यपदेशश् च श्री-कृष्ण-परिहास-निर्देशश् च सङ्गंस्यते ।
[51] वृन्दाह-यद्य् एवं तर्ह्य् अन्येन तासां पाणिपीडनं पुनर् अतीव पीडनम् । यत्र प्रायश्चित्तान्तरम् अपि न चिन्तयन्ति तन्त्र-विदः, तत् कथं साम्प्रतं स्व-व्रतम् उपेक्षसे?
[52] पौर्णमासी सस्मितम् उवाच-भाविन्य्, एतद् अपि न भावि, त्वया तु रम्याननतया गम्यताम् ।
[53] वृन्दा सानन्दं पदारविन्दयोः पतन्ती सानुमोदं रुरोद । सा तु तां निरवहित्थम् उत्थाप्य सान्त्वयित्वा गहनाय प्रस्थापयामास ।
[54] अथ वृन्दापि तथा विश्वसती निश्वसती च वित्रास-रहिता द्वित्राहो-रात्रान् गमयामास । दिनान्तरे तु तासाम् उद्वाह-निर्वाहम् आकर्ण्य विवर्ण-वदना पौर्णमास्य्-अभ्यर्णं पुनर् अपि तूर्णम् उपस्थाना मृतक-प्रतीका तस्थौ ।
[55] पौर्णमासी उवाच-किम् इव वृत्तं वृत्तम् यस्माद् भवत्य् उद्वृत्त-चित्ता दृश्यते?
[56] वृन्दाह-मम मुखतः काचिद् अप्य् उक्तिर् न व्यक्तीभवति, किम् इव वक्तव्यम्?
[57] पौर्णमासी उवाच-पङ्कजाक्षि, न काचिद् अपि शङ्का मनसि शङ्कनीया ।
[58] वृन्दा स-रूक्ष-हासम् आह-भगवति, कथम् इव?
[59] पौर्णमासी उवाच-यद् अद्याप्य् असिद्ध-निर्वाह एव तासां विवाहः ।
[60] वृन्दाह-विचक्षणे, तम् एतं चाक्षुषम् एव विधाय सर्वेऽ प्य् आचक्षते ।
[61] पौर्णमासी उवाच-सम्प्रति ता बालिकाः कुत्र?
[62] वृन्दाह-तद् इदम् अपि श्रुतम्, यद् अतिबालकतयावगताः पितृ-गेह एव ता निधाय ते गता इति ।
[63] पौर्णमासी स-प्रणय-रोषम् उवाच-अथ कथं मत्-कथनं न प्रत्येषि यत् किंवदन्तीम् एव मुहुर् वदन्ती वर्तसे?
[64] वृन्दा सानन्दम् उवाच-भगवति, तद् एतद् ऋतम् अनृतम् एव भवतु, किन्तु मया नायं सन्धिर् अनुसन्धीयते ।
[65] पौर्णमासी सहासम् उवाच-न लोकेनातथ्यं कथ्यते, न च ग्रथ्यते स्म तासाम् उद्वाह-बन्धह् ।
[66] वृन्दाह-नेदं च बुध्ये ।
[67] पौर्णमासी उवाच-युक्तम् एवेदम्, यतः-
त्वय्य् अपि लीला-शक्त्याम्, अवसर-नाम्नी भवेद् विभोः शक्तिः ।
त्वाम् अपि या भ्रमयन्ती, तस्मिंस् तस्मिन् प्रवर्तयति
[उद्गीति]
[68] वृन्दा स-काकु प्राह-तर्हि स्वयम् एवेदं रहस्यं प्रकाश्यताम्?
[69] पौर्णमासी क्षणं हसित्वा नीचैर् उवाच-युगपद् एव, देवि, सर्वेषु तादृग्-दुःस्वप्न एव केवलं जागर-कल्पतया मया कल्पितः ।
[70] वृन्दा विश्वस्य निश्वस्य च पुनर् उवाच-तथापि तासां तथा ख्यातिर् अपि न युक्ता ।
[71] पौर्णमासी उवाच-सापि न भविष्यति, यतो मुनय एव पुनः पुनर् इदं गास्यन्ति, तत्र तपन्यां ताः पृच्छतीः प्रति दुर्वासाः, स वो हि स्वामी [ग्तु 2.27] इति; रासप्रसङ्गे च भगवान् बादरायणिः, कृष्णवध्वः [भ्प् 10.33.7] इति; उद्धव-सन्देशे स्वयं श्री-कृष्ण एव च, बल्लव्यो मे मदात्मिकाः [भ्प् 10.46 ।3] इति । तद् इदं गच्छोद्धव व्रजं सौम्य पित्रोर् नः प्रीतिम् आवह इति वल्लभाभिमानिताम् आत्मनि व्यज्य श्री-कृष्णस्य वचनं ब्राह्मणादीनां मम ब्राह्मणीत्य् आदिवत् । तथा, माम् एव दयितं प्रेष्ठम् आत्मानं मनसा गताः [भ्प् 10.46 ।4] इति प्रचुरं प्रचुरतार्ध-पद्येन च ताभिर् अपि बहिर्-दृष्ट्या परं तत्र क्वचिद् उपपतित्वं प्रतीयते, शश्वद् अन्तर्-दृष्ट्या तु पतित्वम् एवानुभूयत इति सूच्यते, यथा च, अपि बत
मधु-पुर्यां आर्य-पुत्रोऽ धुनास्ते? इति ।
अथागमे च मन्त्र-द्रष्टारो गोपी-पदानन्तरं जनेत्य् अस्यान्ते वल्लभेति । [72] तद् इदं त्रिधा निरुक्तम् अप्य् आगमस्य रहस्य-रीतितया क्रमात् पूर्व-पूर्व-पक्षस्य तूत्तर-पक्षत्वं व्यञ्जितम् । यथा गौतमीय-तन्त्रे,
गोपीति प्रकृतिं विद्याज् जनस् तत्त्व-समूहकः ।
अनयोर् आश्रयो व्याप्त्या कारणत्वेन चेश्वरः ।
सान्द्रानन्दं परं ज्योतिर् वल्लभत्वेन कथ्यते ॥
अथवा गोपी प्रकृतिर् जनस् तद्-अंश-मण्डलम् ।
अनयोर् वल्लभः प्रोक्तः स्वामी कृष्णाख्य ईश्वरः ॥
कार्य-कारणयोर् ईशः श्रुतिभिस् तेन गीयते ॥
अनेक-जन्म-सिद्धानां गोपीनां पतिर् एव वा ।
नन्द-नन्दन इत्य् उक्तस् त्रैलोक्यानन्द-वर्धनः ॥इति ।
[73] अत्र प्रथमा प्रकृतिः प्रधानम्, द्वितीया स्वरूप-शक्तिः । तत्त्वानि महद्-आदीनि अंशाः,
ज्ञान-शक्ति-बलैश्वर्य-वीर्य-तेजांस्य् अशेषतः ।
भगवच्-छब्द-वाच्यानि विना हेयैर् गुणादिभिः ॥
इति विष्णु-पुराणोक्ताः [विप् 6.5.79] । अनेक-जन्म-सिद्धानां इति, बहूनि मे व्यतीतानि जन्मानि तव चार्जुन [गीता 4.5] इति श्री-भगवद्-गीता-वदनादित्वम् एव बोधयति, पतिर् एव इति कदाचिद् उपपतित्व-व्यवहारस् तु मायिक एवेत्य् अर्थः । वा-शब्दस् त्व् अस्यैवोत्तर-पक्षता-बोधनाय ।
[74] अतएवाप्रकट-लीलायां प्रकटम् एव ब्रह्म-संहिता तथानुसंहितवती यत्र ब्रह्मा प्राह-
आनन्द-चिन्-मय-रस-प्रतिभाविताभिस्
ताभिर् य एव निज-रूपतया कलाभिः ।
गोलोक एव निवसत्य् अखिलात्म-भूतो
गोविन्दम् आदि-पुरुषं तम् अहं भजामि ॥इति॥[5.48] ।
[75] अत्र कलात्वान् निज-रूपत्वे स्वतः-सिद्धेऽ पि निज-रूपतयेति पुनर् उपादानम्, न तु प्रकट-लीला-मध्यवत् परकीयाभासतयोपलक्षिताभिस् ताभिर् इत्य् अर्थ-ज्ञापनार्थम् ।
[76] तथा च तत्रैव श्रियः कान्ताः कान्तः परम-पुरुषः इत्य् अत्र युक्तिं च दर्शितवान् । श्री-परम-पुरुषयोर् औपपत्यं नास्तीति । काशी-खण्डे च धर्म-राजः, गोपी-पते यदु-पते वसुदेव-सूनो इति । सङ्गीत-शास्त्रे च, गोपी-पतिर् अनन्तोऽ पि वंश-ध्वनि-वशं गतः इति । भविष्यत्-काव्येषु श्री-गीत-गोविन्दे पत्युर् मनः कीलितम् इति ।
[77] एतद् अभिप्रायेणैव लक्ष्य-भेदेनोक्तम्-
त्वाम् अप्राप्य मयि स्वयं-वर-परां क्षीरोद-तीरोदरे
शङ्के सुन्दरि काल-कूटम् अपिबन् मूढो मृडानीपतिः ।
इत्थं पूर्व-कथाभिर् अन्य-मनसो विक्षिप्य वक्षोऽ ञ्चलं
राधायाः स्तन-कोरकोपरि मिलन्-नेत्रो हरिः पातु वः ॥इति ।
अन्यत्र च, गोपी-भर्तुः पद-कमलयोर् दास-दासानुदासः इति । भगवच्-छङ्कराचार्य-कृते यमुना-स्तोत्रे च, विधेहि तस्य राधिका-धवाङ्घ्रि-पङ्कजे रतिम् इति ।
[78] ललित-माधवे श्री-राधिकादीनां तथा-वर्णनं तु स्फुटम् एव निर्वर्णितम् । उज्ज्वल-नीलमणौ साक्षात्-कथनया कुमारिकाणां साक्षाद् अन्य-सम्बन्धाभाव-प्रथनया च परासाम् अपि यद् एव समृद्धिमद्-आख्य-सम्भोगे ललित-माधवानुसारेण स्फुटम् अङ्गीकृतम् अस्ति ।
भावार्थ-दीपिकायां च, ऋषभस्य जगुः कृत्यानि [भ्प् 10.33.21] इत्य् अत्र ऋषभस्य पत्युः इति कृष्णवध्वः इति स्वयम् उक्तम् इदम् एव पतित्वं श्री-परीक्षित्-प्रश्नोत्तरे पत्य्-अन्तराभ्युपगम-वादेनैव हि बहिर्-अङ्गानाम् बोधाय परमात्मतया श्री-बादरायणिना बोधितम्: गोपीनां तत्-पतीनां च सर्वेषाम् अपि च देहिनाम् । योऽ न्तश् चरति सोऽ ध्यक्षः एष क्रीडन-देह-भाक् ॥[भ्प् 10.33.35] इत्य् अत्रानतरङ्गान् प्रति त्व् अयम् अर्थः: गोपीनां काश्चिद् व्यूढाः काश्चिद् अव्यूढा इति द्विधात्र लोक-मात्र-प्रसिद्धानां वस्तुतस् तु नित्य-सिद्धानां सर्वतः श्रेयसीनां तत्-प्रेयसीनाम् अन्यासाम् अपि नाना-भाव-समृद्धानां कुमारीतरुणी-वृद्धानां, तथा यथा-सम्भवं तासां पतीनां तद्-उपलक्षिततया कुमार-ततीनां,
किं बहुना? सर्वेषाम् अपि तद्-एक-जीवानां व्रज-जीवानां यानि तत्-तद्-उपचितताचित-तदीय-क्रीडा-साधन-देहानि, तद्-आसक्तः सन्न् अन्तः-शब्दाभिहिते महिते जगन्-नेत्राद् अन्तर्-हिते सदाभवे स्व-वैभवे यश् चरति क्रीडति । स एष एवाध्यक्षः कदाचिज् जगत्-प्रत्यक्षः सन् क्रीडति । तस्मान् निज-प्रेयसीभिः समम् अनादित एव मिथुनतेति कथनाद् औपपत्यम् अस्य नोपपत्त्य्-अर्हम्, किन्तु परम-व्योमाधिप-लक्ष्मी-नारायणवद् दाम्पत्यम् एव तद्-अर्हं भवतीति ।
तद् इदं, जयति जननिवासः [भ्प् 10.90.48] इत्य् आदौ व्रज-पुर-वनितानां वर्धयन् काम-देवम् इति पुर-वनिताभिः सह तासां सह-पाठाद् द्रष्टव्यम् । श्रीमान् उद्धवस् तु, एताः परं तनु-भृतो भुवि गोप-वध्वः [भ्प् 10.47.58] इत्य् आदाव् आसाम् अनुगतिं मुमुक्षु-मुक्त-मद्-विध-भक्ता अपि वाञ्छन्ति इत्य् उक्त्वा कृष्णे परमात्मनि वृन्दावन-चर्य इमाः क्व, तद्-ईदृश-भाव-व्यभिचार-दृष्टास् त्व् अन्ये क्वेति वदन् कृष्णे परमात्मनि ह्य् एष रूढ-भाव इति प्रत्यक्षतो दर्शयन्न् आसु माहात्म्य-विशेषं दर्शयति, नायं श्रियोऽ ङ्गे [भ्प् 10.47.60] इत्य् आदौ श्री-प्रभृतिभ्यः पुनर् अपि विशेषयति च ।ऽ
[79] अथ सानन्दापि वृन्दा पुनः पप्रच्छ-कथम् ईदृशी प्रक्रिया नातिप्रिया, नान्यथा क्रियते स्म भवत्या? भवत्याः खलु नाशक्यं तर्क्यते ।
[80] पौर्णमासी उवाच-रस-विशेष-सम्पादयित्री लीलावश्यकतावसर-वैचित्रीयं सीताया रावण-गृह-गतिवन् नास्माभिर् अप्य् अन्यथा कर्तुं शक्यते । रस-विशेषश् चैवम् एव सङ्गच्छते । भ्रम-जनितत्वाद् अश्लीलता-विश्लिष्टे पर-सम्बन्धस्याभास-मात्रे दृष्टे सति तासां पर-निवारण-कुण्ठितानाम् उत्कण्ठा-वर्धनतः स्फुरद्-अखर्व-सुख-गत्यां सर्वायत्यां विश्रान्त-भ्रम-नितान्त-स्थिरता-निरत-कान्त-प्राप्तितस् तस्यातीव दीप्तता-प्राप्तिर् इति । तथा च भविष्यत्-काव्येषु श्रीमद्-उज्ज्वल-नीलमणौ प्रमाणी-कृतं प्राचां मतम् । तत्र मूलं यथा-
लघुत्वम् अत्र यत् प्रोक्तं तत् तु प्राकृतनायके ।
न कृष्णे रसनिर्यासस्वादार्थम् अवतारिणि ॥[1.21] इति ।
प्रमाणं यथा,
नेष्टा यद् अङ्गिनि रसे कविभिर् परोढा
तद् गोकुलाम्बुजदृशां कुलम् अन्तरेन ।
आशांसया रसविधेर् अवतारितानां
कंसारिणा रसिकमण्डलशेखरेण ॥[5.3] इति ।
[81] अत्र रसोत्कर्षस्य तर्षत एव कंसारिणावतारितानाम् इति तासां नित्यं तन्-निज-प्रेयसीतया विहारस्, तद्-अवतार-समय एव तु रस-मय-महोत्कर्षाय मायया परोढ-व्यवहार इत्य् अतो न दोषः, प्रत्युत परम-गुण एवेति भावः । इह चावतारितानाम् इति देवी-चरतां साधारण-लक्ष्मी-चरतां च न प्रचारयति, नायं श्रियोऽ ङ्ग उ नितान्त-रतेः प्रसादः स्वर्-योषितां नलिन-गन्ध-रुचां कुतोऽ न्याः? [भ्प् 10.47.60] इत्य् अनेन विरोधात् । तेनैवान्यतमतान्यथा-कारितया तदीय-परम-लक्ष्मीत्वम् एव तासां लक्ष्यत इति ।
तद् एवं च निरूप्य पुनर् अप्य् आह स्म-तादृशं परम-रहस्यम् आकाशाय च न प्रकाशनीयम् । किन्तु-
राधादीनां केवलानां केवलो नन्द-नन्दनः ।
वरः स्यात् केवलं तस्मात् के बलात् कुर्युर् अन्यथा?
[अनुष्टुभ्]
यतः,
व्रज-लक्ष्मी-जनताया हरिर् इह रमणः परं न परः ।
कथम् अथ चकोर-जातेर् वृत्तिश् चन्द्राद् भवेद् अन्यः?
[उपगीति]
[82] अथ वृन्दा तु, भवतु याथाकथाचं । यद् इदम् आचितम्, तद् आचितम् एव । किन्त्व् आयत्यां सर्व-सुख-समुत्थापनं भवद्-अभ्युत्थानम् एव गत्य्-अन्तराय भविता इति प्रार्थ्य नमस्कृत्य च चलिता ।
[83] पौर्णमासी तु प्राह-
अवचम् अवोचम् उवाच च, वच्मि हि वक्तास्मि वक्ष्यामि ।
उच्यासम् इदं वच्यां वचानि नो चेद् अवक्ष्यं न
[अनुष्टुभ्]
[84] तद् एवं तासां खेला-मात्र-विलासिनीनां स्व-वासिनीनां मातर-पितरादिभिर् अन्तः-पुर्याम् असूर्यम्पश्यतया धूताकर्णन-कृष्ण-वर्णनतया च परितः परीतं वारितानाम् अपि दीप्यमान-कैशोर-सामीप्य-समिद्धः स्व-भाव-सिद्धः कृष्ण-भावः स्वयम् उद्भूतवान् वारिदा-गमन-समयं समया कासाञ्चिद् वल्ली-जातीनां पल्लव इव । यतः-
हृदयम् अनङ्गस् तासाम् अविशद् वयसः क्रमाद् एव ।
श्यामाङ्गः स तु साङ्गं विवेश सहसा ततः पूर्वम्
[अनुष्टुभ्]
[85] दृष्टान्तयन्ति चेदम्-
आसीद् आसु हरेः स्फूर्तिर् दर्शन-श्रवणे विना ।
यथान्तःपुर-रुद्धासु कन्यासु मदनोद्गमः
[अनुष्टुभ्]
[86] अतएवोक्तम्-
नव्य-यौवनतः पूर्वं कृष्णे तासां तु या रतिः ।
तस्यां नातिशयोक्तिः सा स्व-भावोक्तिस् तु मन्यताम्
[अनुष्टुभ्]
[87] तदा च, यदा प्रसङ्ग-सङ्गत्या कृष्णेति वर्ण-द्वयं कर्णाभ्यर्णम् आपद्यते, वंशी-वाद्यं वा, तदा तम् एव पश्यन्त्य इव हृष्यन्त्यः पुनर् अप्य् अपश्यन्त्यस् तापम् आप्नुवन्ति स्म, किन्तु कञ्चित् प्रति न किञ्चित् प्रकाशयाम् आसुः । चेतसि तु भावयाम् बभूवुः, यथा-
यः कृष्ण-नामाक्षर-माधुरी-झरैर्
आस्वाद्यते वेणु-कली-रसैर् अपि ।
स एव एकाम्बुद-रोचिर् एष मे
कः स्वान्तम् उच्चैः कुरुते पुरु-व्यथाम्?
[उपजाति 12]
[88] तत्र च श्री-राधाया भावना, यथा-
याते कृष्णेति शब्दे श्रुति-पथम् अमृताद् अप्य् अतिस्वाद-युक्ते,
वंशी-वाद्ये च शश्वन् मनसि सपदि यः स्फूर्तिम् आप्नोति सोऽ यम् ।
आजन्माभ्यास-हीनोऽ प्य् अतिसुपरिचित-प्राय एवेति भाति
प्राप्ति-व्यावृत्तितस् तु प्रसभम् अचिरतो नेष्यति प्राणवर्गम्
[स्रग्धरा]
[89] पुनश् च सम्प्रति स्वयम् एव परस्परम् इवाह-राधे, किम् उदग्रं व्यग्रचित्तासि? राधिके, तद् एतन् नावदधासि चेद् अवधानं विधेहि ।
श्रव्याणां स्वाद-सारं श्रुतिर् अनुमनुते यत् तु यद् वा सुधाब्धेर्
मन्थाल् लब्धं, रसज्ञा सुख-हृदिज-सुखं चित्त-वृत्तिर् यद् एव ।
किं तत् कृष्णेति वर्ण-द्वयम् अयम् अथवा कृष्ण-वर्ण-द्युतीनाम्
आजीव्यः कोऽ पि शश्वत् स्फुरति नव-युवेत्य् ऊहया मोहितास्मि
[स्रग्धरा]
[90] एवं श्री-कृष्णस्य च तदीय-प्रचरिष्णु-तत्-तद्-गुण-भविष्णु-तृष्णस्य भाव-रम्यता गम्यताम्-
नाम्नि श्रोत्रं सदन-सरणौ नेत्रम् आमोद-पूरे
घ्राणं पृष्ठे वपुर् अपि गुणे सूक्तम् आसां मदीयम् ।
मां प्रोज्झ्यासीद् द्रुतम् इति हरिः स्वीय-दोषं विचारात्
प्रत्याख्याय स्फुटम् अनुसरं तत्र चित्रायते स्म
[मन्दाक्रान्ता]
राधाऋक्षे क्वचन गणके नान्तिकाद् वर्ण्यमाने
दृष्ट्वा राधां घटयति जने सञ्जनं स्वस्य दूरात् ।
राधा-गेहान् मृदुल-पवने वाति नास्मारि तत् तत्
कृष्णेनास्मिन् पुनर् अलम् असौ सस्मरे सैव राधा
[मन्दाक्रान्ता]
[91] तद् एवम् अपूर्व-कृष्ण-दर्शन-पर्वण्य् अजात-पूर्वे यदा तु कालिय-दन्दशूक-सन्दलनम् आसीत् तदा विध्वस्त-निरोधा राधादयोऽ पि व्रजवासि-साधारणतया तत्र गच्छन्ति स्म । [92] एतद् अर्थम् एव कालिय-दमनार्थे तावान् विलम्बारम्भ-सम्भारस् तेन लम्भितः ।
[93] तद् एवं तत्र गतवतीनाम् अपि बाल्याम् ओकतः शोकतश् च न लोकतस् तासां भावः स्वस्य विशेषं भावयामास, किन्तु प्रेमातिशय-मात्रम् । तथा हि-
यदा दूरे नृत्यं फणि-शिरसि चक्रे मुररिपुस्
तदा ताभिः साक्षाद् अरचि स इतीदं नहि मृषा ।
तथाप्य् आसां बाल्याद् बहुजन-समाजाद् अपि शुचा-
वृतेर् भावो नैव स्व-रस-मयताम् अण्व् अपि ययौ
[शिखरिणी]
यदा कालीयस्य ह्रद-वलयतः सोऽ यम् उदितस्
तदा राधा-मुख्याः प्रथम-कलनाद् एव पतिताः ।
बहिर्-ज्ञानं नासीद् यदपि तदपि स्फूर्ति-वलिता
न मूर्च्छां नामूर्च्छां ययुर् अहह रात्रिन्दिवम् अनु
[शिखरिणी]
यद्यपि कृष्णस् तासां कलनाद् अन्तर्-विकारमासन्नः ।
तदपि च समयान्तरजां चकार गम्भीरतां शरणम्
[आर्या]
[94] ततश् च, प्रभाते ताः शकट-समारोहिततया व्रजम् आनीताः कथम् अपि स्वस्थतां याताः, यथा-
मुहुर् बन्धु-स्तोमे तद्-उपचरणाद् उत्थित-मतौ
जन-द्वारा तासां हरिर् अपि विमूर्च्छां कलितवान् ।
अथ व्यग्रीभूयामृतम् इव मुरल्या मृदु-कलं
जगौ ताश् च प्रापुर् बहिर्-अवहितिं सत्वरतया
[शिखरिणी]
[95] किन्तु तस्य वंशी-शंसन-माधुर्यम् एव तास्व् अभिषज्यद् अवबुध्य तद्-अवधि तासां प्रतिबन्धाय बन्धवस् तेनातिनिर्बन्धं ययुर् इति कदाचिच् चिरतो दर्शनम् अपि तस्य तासु पर्यवस्यति स्म ।
[96] अथ श्री-कृष्णस्य षष्ठे वर्षे गते तासां च ततः किञ्चिद् ऊनतया मते समारब्ध-प्रपञ्चाद् भावाद् अक्षीणानां नव-कैशोर-लक्ष्मीणां मुद्-अञ्चनं तस्य च तासां च तथा जातं यथा परस्परं स्पर्धयेव सञ्चयम् अञ्चद् आसीत् ।
[97] तत्र तस्य श्री-कृष्णस्य, यथा-
वक्त्रं पूर्ण-कपोल-कान्ति-वलितं केशा भृश-श्यामला
नेत्रे लोल-विशाल-पाटल-तटे वक्षः स्फूरद्-विस्तृति ।
बाहु-द्वन्द्वम् अखर्व-पुष्ट-घटनं मध्यः कृशस् तत्-परः
स्फीतस् तद्वद् उरू पृथू भवितुम् उद्यातौ स्म तस्मिन् हरेः
[शार्दूल]
[98] तत्र च कस्यचिन् मर्मज्ञ-जनस्य नर्म-वचनम्-
तनौ श्यामा लक्ष्मीर् अभजद् अयम् अन्तर्-हृदि पुनः
सदा गौरीर् इत्थं कपटम् अभिपश्यन् मुररिपोः ।
स्फुरन्-नेत्र-द्वन्द्वं भजद् अरुणताम् ईषद् अभितो
मुहुः कर्णाभ्यर्णं व्रजति किल किञ्चित् कथयितुम्
[शिखरिणी]
[99] अथ तासां, यथा-
कटाक्षे कृष्णाभा स्फुटम् अधरयो राग-गरिमा
कपोल-द्वन्द्वान्तः शुचिर् उरसि चारून्नति-रुचिः ।
अमी चेतो-धर्मा बहिर् अहह यद्य् एवम् उदिता
भवेत् किंवा तर्हि व्रज-मृगदृशां गोपन-पदम्
[शिखरिणी]
[100] तत्र श्री-राधां प्रति कस्याश्चिद् उक्तिः-
भद्रा पद्मा धनिष्ठा शिवि-पशुप-सुता पालिका श्यामला सा
चन्द्रावल्य् अप्य् अभीक्ष्णं वयसि निज-निज-श्री-समुत्कर्षि दृष्टा ।
श्री-राधे त्वं पुनः स्वं जित-कनक-गुणं द्योतम् उद्योतयन्ती
तद् दिव्यं श्यामधाम प्रथयसि परितः केन वा तन् न वेद्मि
शार्दूल]
[101] तत्रान्यस्या वचनम्-
विलसति कृष्ण-नवाब्दः स्फुटम् अधि हृदयं प्रविश्य राधायाः ।
न भवति तद् यदि कथम् इव पुलकैः सह लोचने स्रवतः
[आर्या] इति ।
[102] तत्-प्रभृति तासां भावना चेयम्-
तद् एव यमुनारण्यं त एव च तमालकाः ।
तद् एव चित्तम् अस्माकं साम्प्रतं किम् इवान्यथा?
[अनुष्टुभ्]
ततश् च-
शारद-प्रथम-शुभ्र-पञ्चमी
भावि-रात्रि-निकराब्ज-सप्रभम् ।
सुभ्रुवां मुखम् उरोज-युग्मम् अप्य्
आयत प्रतिदिनं महोदयम्
[रथोद्धता]
यदा राधा तासु प्रथम-वयसाकीर्ण-किरणा
तदा ताः सर्वाश् च प्रतिहत-समज्ञाः समभवन् ।
परं नाना-पुष्पावलिषु लतिकासु प्रथमतः
प्रफुल्लन्ती ख्यातिं सदसि सुरवल्ली वलयते
[शिखरिणी]
[103] तत्र चेयं किंवदन्ती वदन्ती-बभूव-
इन्दुर् मन्दति खञ्जरीट-तरुणः खञ्जन्न् इवालोक्यते
दूनं भाति तिल-प्रसूनम् अरुणाद् बिम्बं गुणाल् लम्बते ।
स्वर्ण-श्री-जयि-वर्ण-जाल-विलसद्-वल्ली न लीनायते
राधाया मधुरिम्णि यद् विधुरताम् आप्नोति तन्-माधुरी
[शार्दूल]
[104] तद् एवं लब्ध-दर-स्फोरे कैशोरे तासां स एव कृष्ण-प्रेमा तृष्णा-विशेषम् आसादितवान् । [105] व्रतति-ततीनां कृत-व्रततित्वे लब्ध-सत्त्वे स्वाश्रयं प्रत्यभिमुख-प्रसारस् तद्-वलयन-लालसम् इव । तत्र तासां भावना, यथा-
जन्मन्य् एतद् अहो किम् अत्र भविता यत् तस्य वक्षः-स्थलं
विस्तीर्णातुल-नील-रत्न-मसृणं स्पृश्येत मद्-वक्षसा ।
ताम्बूलं बत चर्वितं च मुखतः कृष्येत किं मन्-मुखे-
नैवं केयम् अहो ममाद्य विमतिर् धर्म-ध्रुग् अभ्यागता
[शार्दूल]
[106] अथ प्रेमापि परम-वरिमाणमाससाद, यथा-
पूर्वं यत् परितो हरेर् अनुभवात् कैशोरम् अत्युद्गतं
तत् तासु स्फुरितं तम् एव विदधल् लीलाभिर् उच्चैः स्थितम् ।
अप्य् आकर्णनदर्शनादिरहितास् ता देवताविष्टवच्
चेष्टन्ते स्म यतः शशाक नहि यद् बोद्धुं जनश् चाण्व् अपि
[शार्दूल]
तत्र तु-
शून्यं पश्यति बाष्प-पूरम् अनिशं मोमुच्यते कम्पते
स्विद्यत्य् उद्गत-कण्टकत्वम् अयते स्तम्भं पुनः प्रार्च्छति ।
ग्लानिं गच्छति वाचितापि वचनं नाभाषते सेति तां
पश्यन्ती सुहृदां ततिर् मुहुर् अहो राधाम् अशोचन् मुहुः
[शार्दूल]
[107] तस्या भावना चेयम्-
रूपेणामृत-सिन्धुः कीर्तिभिर् अमृत-द्युतिर् यद् अपि ।
तद् अपि हरिर् मम हृदयं विदहति हा धिग् विधिर् वामः
[उपगीति]
तस्य च पूर्वं हृदयम् अलिप्तं
भावः कः पुनर् अलिप्त मे सहसा? ।
स्मरद् अपि यस्य तु विषयान्
स्वयम् अथ चित्तं स्वतोऽ पि जिह्रेति
[उद्गीति]
[108] पुनश् च कालिय-दमनम् अन्व् अनुभूतं तासां भावं विभावयन्न् आह-
पिता मे साधूनां कुल-तिलकता-विश्रुत-गतिस्
तथा माता साध्वी-समुदय-विवेकाग्रिम-लिपिः ।
कथं राधादीनां पर-मृगदृशां भावम् अभितो
भजत्य् अन्तः किंवा मम मृदुलता मां क्लमयति
[शिखरिणी]
किं च-
हन्त ज्ञानं मम विलुलितं क्वापि न स्यात् परन्तु
प्रेमार्द्रं तद् भवति सुतरां तासु तु प्रेयसीषु ।
यस्मात् तासु स्फुरति न धिया प्रेममय्या परा त्वं
नापि ख्यातिं बहिर् अनुगया तां पराकर्तुम् ईशे
[मन्दाक्रान्ता]
[109] तच्-चेष्टा च, यथा-
मौनार्हे प्रतिभाषते स्म वचनौचित्ये मुनित्वं दधे
शोच्यत्वे हसति स्म हास-कथने रूक्षत्वम् एवाददे ।
प्रस्तावे व्रज-सुभ्रुवां सखि-जनैर् निर्मीयमाणे हरेर्
यद्यप्य् एवम् अथापि-वर्ण-विकृतेर् व्यत्यस्तिर् आलक्ष्यते
[शार्दूलविक्रीडिता]
[110] तासां विवाह-श्रवणे तु-
बहिः सुरसतां व्यञ्जन्न् अपि तर्हि बलानुजः ।
अन्तस् तु विरसः प्रैक्षि मर्मज्ञैः पक्व-पीलुवत्
[अनुष्टुभ्]
[111] तद् एवं स्थिते तासां जन्यं-मन्य-जनेन निज-निज-वधूनां नयनाय याच्यमानं तत्-पितृ-कुलं तासु न तद्-वाच्यम् अकार्षीत्, केवलं तु कर्णे कर्णे मिथ एव वर्णयामास ।
[112] तासु गर्गादि-हित-वर्गाद् अपि क्रमाद् अधिगत-कृष्णैक-तृष्णासु प्राण-पर्यन्त-सङ्क्षयाशङ्कया तम् उद्वाहम् अपि न सहसा न च साक्षाद् उद्भावयामास, किम् उत तादृग्-अवस्थानां प्रस्थापनम्?
[113] अथ यथा दुर्वहश् च विवाह-निशमन-सङ्क्लमः प्रथम-लभ्य-बाल्यम् आरभ्य पूर्व-पूर्व-क्रम-लब्ध-विसरतया परम्परयावधारित इति क्रम-विषयतया विष-भक्षणवद् अभ्यासव्यासत एव सोढस् तथेदम् अपि बाढं सोढव्यम् इति तथैव श्रावयामास ।
[114] तास् तु तद्-वार्ता-मात्रतः परमार्ता जाताः । यत्र च कष्टम् भोः कष्टम्, जीवनम् अपि निष्ठीवनम् आपयितुं व्यवसितिम् आयाताः । [115] तथा हि प्रथमं तावत् प्रत्येकं पूर्वाह्नतः पूर्वम् एव गृहाद् आत्मानं निह्नुवानाः सम्भृत-गम्भीर-नीरम् उच्छलत्-तरङ्ग-सङ्घ-निह्राद-विलीयमान-कर्णं काल-वर्णं कालिय-ह्रदम् एव निर्व्यतिरेक-विवेकम् अन्तरेण भावान्तरेण भावयाम् बभूवुः ।
[116] अथ ताः समस्ता एवाबलाः केवलतया गता अपि समस्ता बभूवुः । परस्परम् अपरिचित-प्रायतया निचायन्ति स्म । पप्रच्छुश् च-का भवत्यः? इति । [117] प्रचिते च परिचये तत्राव्रजन-प्रयोजनम् अप्य् अन्वयुञ्जत ।
[118] ततश् च समान-वासनावासित-मानस-व्यसन-शंसक-दशन-वसनादि-रुचि-विलोकन-वलित-मिथः-स्नेहाद् आलिङ्गित-कण्ठा मुक्त-कण्ठम् उत्कण्ठया स्फुटम् एव रुरुदुर्, विविदुश् च परस्परं हृदयम् ।
[119] तद् एवं कुलाङ्गनानाम् अपि तासां स्वयम् एव निष्कुलाकृत-मनसाम् उत्कृष्ट-गुणतयाकृष्ट-सर्व-नयना श्री-राधा तु स्वत एव मध्यम् आधारताम् आपन्नातिकष्टतः प्रकटम् एव निज-निश्चयम् आविश्चकार, यथा-
यद्य् एतद्-वपुर् अन्य-सात्कृतम् अभूत् पित्रादिभिस् तर्ह्य् अदः
प्रेत-ग्रस्तम् इवापि जीवद् अधिकं धिक्-कार-योग्यं भवेत् ।
धिक् चात्मानम् अहो यद् एष सहतेऽ प्य् एतस्य सङ्गापदं
तत्-तीर्थाय बलाद् बलानुजकृते कर्तव्यम् अस्यार्पणम्
[शार्दूल]
[120] विस्तरम् अत्र चालं कृत्वा, यतः श्रेयांसि बहु-विघ्नानि इति नीति-निघ्नतया नातिविलम्बनम् आलम्बनीयम् इत्य् उत्थाय ताभिः सह मिथो बद्ध-पाणितया पानीय-समीपं प्रस्थाय यमुनां प्रत्य् अञ्जलिं वलयन्ती साश्रु-गद्गदम् अर्धोद्गत-वर्णम् उद्गदति स्म-
गोष्ठ-क्ष्मापति-दम्पती श्वशुरतां रामानुजः स्वामितां
वृन्दारण्यम् इदं सदापि भजताम् आरामतां नः परि ।
याः स्नेहाद् व्यतिबद्ध-हस्तम् अभितः कालिन्दि मग्ना भवत्-
पानीयान्तर् अमूर् भजन्तु सखितां त्वाम् आश्रितास् तद् वयम्
[शार्दूल]
[121] अथ सहायान्तराण्य् अपि ताभिस् तद् अन्तराप्तानि यथा ।
[122] तद् एवम् अमूम् अनु पुनर् अमूर् असाधारण-बाधानाम् आधारतया प्राण-धारणायां तु धुत-कारणा ह्रदम् अगाध-जलं वलमानाः प्रति प्रथिताकाश-वाणी प्रत्यावर्तयितुं प्रत्याशां वर्धयामास ।
अहह गोप-सुताः सह-साहसं
न सहसा कुरुतापुरु-बुद्धयः ।
शृणुत वः प्रतिकूल-कुसङ्गतिर्
न भविता न भवेन् न भविष्यति
[द्रुतविलम्बिता]
[123] तद् एवं-
विरहावग्रह-क्लिष्टा गोपी-भूमि-सरोजिनीः ।
कृत्वा गीः-सुधया सिक्ता देवाब्दास् त्रि-दिवं ययुः
[अनुष्टुभ्}
[124] ततश् च विस्मय-फुल्ल-विलोचनतया व्यतिविलोकमानासु तासु सूरजा-पूरतः काप्य् अदूरतः समेत्य श्री-राधाम् उपेत्य सर्वाश् चाहूय स्वयं विभूय तत्-तद्-गात्रं गृहीत्वा पात्रं मोचयितुम् ईहित्वा तीरं प्रतीरयामास । [125] सा हि फुल्लेन्दीवर-सुन्दरी स्वयम् एव कालिन्दी । तया च तीरम् आनीतासु तासु वृन्दया कथित-तत्-तद्-वृत्त-वृन्दया मधुमङ्गलेन च वाञ्छित-तद्-वृत्त-मङ्गलेन सहिता परम-हिता महिता पूर्णिमा च तूर्णम् एवागता ।
[126] ततः प्रतिस्वं तरु-मात्रावलम्बन-गात्रतया निश्चेतनवत् कृत-केतना व्रज-निकेतनाङ्गनाः सालिङ्गन-सम्बोधन-पूर्वं गीर्वाण-वर्णित-वाणीवद् एव वदमाना तत्रानुवदमानाभ्यां वृन्दा-कालिन्दीभ्यां सार्धं बोधयामास ।
[127] बोधयित्वा च पुनर् भणति स्म, परम-मसृण-मतीनां भवतीनां कथम् एतावती कर्कशता जाता? । [128] वस्तुतस् तु-
चन्द्रो न हत-कलङ्कः क्वचिद् अपि न कलङ्कि वक्त्रं वः ।
चन्द्रो मुहुर् अपि नश्यति नश्यति नहि वर्ष्म युष्मदीयं तु
[उपगीति]
[129] किं च, तिसृभिर् अप्य् अस्माभिर् अपरोक्षं परोक्षम् अपि तथा साहाय्यं कार्यम्, यथा कृष्ण-मात्र-पति-गतीनां भवतीनां नानभीप्सित-पुरुष-शय्या-योगः स्यात् ।
[130] अथवा तद्-विषयकस्य भाव-मात्रस्य स एष प्रभावः, किम् उत भवद्-विधानां महा-भावस्य? यं खलु गोप-वर्ग-नृपतिं प्रति गर्गः प्रतिज्ञातवान् ।
य एतस्मिन् महा-भागे प्रीतिं कुर्वन्ति मानवाः ।
नारयो भिभवन्त्य् एतान् विष्णु-पक्षान् इवासुराः ॥[भ्प् 10.8.18] इति ।
[131] तस्मात् परम-शुभवत्यः स्वयं भवत्यः पुनर् अत्र चिन्तां न कुर्वन्तु, किन्तु गुरु-वशंवदतया वदमानाः शम् आसीदन्तु इति ।
एवं तस्यां सान्त्वयन्त्यां तमालस्य्-
आधः स्थात्री हेम-गात्री-ततिः सा ।
न्यञ्चद्-वक्त्रा बाष्प-नेत्रा तदीयां
पत्र-श्रेणीं मार्जयन्त्य् एव तस्थौ
[शालिनी]
[132] तद् एवं सानुव्रजनम् आत्मानः परिरभ्य ताः कृत-प्रस्थितीर् उपलभ्य तद्-उपदेशं विश्रभ्य सद्यः समुद्यन्तीं कृष्णावलोक-तृष्णां प्रतिलभ्य हस्त-ग्रह-ग्रहिल-महिलाभिः साहचर्यम् आचर्य प्रच्छन्न-वर्त्मना निष्प्रत्यूह-निगूह-मानाङ्गं निज-निजाङ्गन-समीप-वनं श्री-राधादयः समाजग्मुः । तद्-दिनतश् च-
विशाखा-ललिता-मुख्याः श्री-राधा-सख्यम् ऐयरुः ।
पद्मा-शैव्यादयश् चन्द्रावलेर् इत्य् आदि गम्यताम्
[अनुष्टुभ्]
[133] तद् एतद्-अवधिका मुहुर् अधिका सहायतायाः सहायता तासु कृष्ण-तृष्णा-निरतासु नाश्चर्या । [134] यतः साधारणस्यापि-
साहायकं सुविधिर् इच्छति यस्य कर्तुं
तस्यानुकूल-निचितिं युगपच् चिनोति ।
नाना-ग्रहर्क्ष-शकुनामर-मानवास् तद्-
राज्यादि-लब्धि-समये ह्य् उदयन्ति भव्याः
[वसन्त] इति ।
[135] प्रस्तूयमानं च श्रूयताम् । अथ मधुमङ्गलं सङ्गिनं विधाय पूर्ण-मनाः पूर्णिमा वृन्दया सह सहसा हरि-समीपम् आससाद । [136] भानु-तनूजानुभावित-भावि-भाव-विशेष-श्लेषा समीपतः स्वागमनम् अपह्नुतवती । पथि पुनर् इदं प्रच्छन्नं पप्रच्छ-वृन्दे, व्रजेन्द्र-नन्दनस्य प्रेम किम् आसु वर्तते?
[137] वृन्दाह-अथ किं? किन्तु निगूढम् ।
[138] यमुनाह-एतासां तु स्पष्टम् अद्य दृष्टम् ।
[139] वृन्दाह-तच् च दशम-दशा-वशाद् एव ।
[140] यमुनाह-तर्हि किं पारस्परिकं तत् परस्परं न जानते?
[141] वृन्दाह-यदपि तथा निगूढम्, तथापि विक्रियां विना प्रेम कथं ध्रियताम्? सत्यां च विक्रियागत्यां परस्परं दुरपह्नव एव नव-नवानुरागः कथम् आव्रीयताम्? यतः-
तमाला वक्षोज-प्रभ-घुसृण-मुद्रा-निवलिता
नखाङ्क-श्रेणीभिः शवलित-दलाश् चम्पक-लताः ।
सरोजानि श्यामान्य् उत कनक-वर्णान्य् अधरज-
द्रव्याण्य् एवं वन्याप्य् उभय-रतिम् अत्र प्रथयति
[शिखरिणी]
[142] तद् एवं सम्पृच्छ्य प्रच्छन्नायां यमुनायां वृन्दा-मधुमङ्गल-पूर्ण-पार्श्वा पूर्णिमा हरेर् अभ्यर्णम् आजगाम । आगम्य च विरहताप-निर्वापणाय क्वचिद् एकान्ते नितान्त-कान्त-चन्द्रकान्त-शिला-मध्यम् अध्यासीनं परम-ध्यानवन्तं तम् अन्तर्-मनसं सन्तं निध्यातवती । तस्मात् प्रच्छन्ना चेदं स-गद्गदम् आकलितवती-
दोषाकरः स दोषा-
कर एव न चात्र सन्देहः ।
कमलं खल्व् अपि कमलं
राधा-वदनं तु शर्मणां सदनम्
[उद्गीति]
[143] तद् एवं मुहुर् मोहम् ऊहमाना शनैर् उपसृत्य तद् आदृत्य ताः कृत-कृत्यं-मन्या सास्रम् आशीः-सहस्रेणेदं श्रावितवती-
विद्यते दुर्लभं किं ते विन्ते तद् यद् भवान् अपि ।
अवश्य-वश्यतां यस्य पश्य लब्धास् तु मद्-विधाः
[अनुष्टुभ्}
[144] कृष्णस् तु प्रेम-पुषितेन घुषितेन तेन वाक्येन स्पष्टम् अपि तेषाम् अपि निज-भावम् अस्तरिष्ट । सज्-जातानां लज्जा केवलं बलाय सज्जतीति ।
[145] अथ कमल-लोचने सादर-दर-सङ्कोच-लोचन-निकोचतया कृत-रोचने सा स-प्ररोचनम् अवोचत-
[146] अयं मधुमङ्गल-नामा स्वयं स्व-सङ्गम-मङ्गल-सङ्घेन सङ्गमनीयः इति तत्-पाणी समानीय हरि-पाणी प्रति समर्पणीयतया प्रणीतवती ।
[147] हरिर् अपि, स्व-विहार-सुख-सार-समुपहार एवायम् इति तम् अनुसन्धाय प्रेम-बन्धाय स्फुरद्-इङ्गितम् आलिङ्गितवान् । [148] सोऽ पि तं किल विलक्षणम् आश्लिक्षद् यत्र चाश्लिषन् मिथः पुलक-कुलम् ।
[149] तद् एवम् उपतिष्ठमानतया द्वयोर् अप्य् एक-निष्ठतायां जातायां पुनर् वृन्दावन-चन्द्रमा वृन्दां निर्वर्ण्य पूर्णिमां प्रति वर्णयामास, केयं भवतीम् अनुवर्तमाना वर्तते?
[150] पौर्णमासी स-स्मितम् उवाच-किम् इयं न परिचीयते भवता?
[151] श्री-कृष्ण उवाच-नूनं यन्-नाम्ना वनम् इदं धाम्ना समाम्नातम् अस्ति, सैवेयम् अनुमेया ।
[152] पूर्णिमा तु स्मित-पूर्ण-वदनं ताम् अवादीत्, नाद्यावधिकम् अस्य विद्यमाना बभूविथ?
[153] श्री-कृष्ण स-स्मितम् उवाच-अपरिचिता न स्वयं मिलनाय समुचितायते ।
[154] पूर्णिमाथ वृन्दाम् ऊचे-भवतु चेतः परं भवती सचेतः सर्वदास्य दास्यम् इवाचरन्ती चरिष्यति ।
[155] अथ साश्रु-वृन्दां वृन्दां प्रणमन्तीम् एव रमा-रमणस् तु वनमालया पुरस्कुर्वन् वन-मालया पुरश्चकारेति गमयामास ।
[156] तद् अनु च व्यञ्जित-निज-सुखासञ्जनया पूर्णिमा-वृन्दयोः वाचा रञ्जनया चिराद् विराजमानः पुनर् गतयोस् तयोर् लब्ध-महा-सहायता-महसा बृंहित-मना महामनाः स तु पुरुष-सिंहः सह गच्छतस् तद् एव मधुमङ्गलतः कालिय-ह्रद-सङ्गतं प्रेयसी-प्रसङ्गं श्रवसि सङ्गमयन् सखि-सङ्घं सङ्घति स्म । स तु प्रसङ्गः सङ्गम्यते-
कस्माद् आगान् मुनीशा फणि-ह्रद-वलयात् तत्र किं राधिकाद्या
हेतौ कस्मिङ्स् तद् एतन् मम तु कथयतो रुध्यते हन्त कण्ठः ।
हा धिक् किं किं विधाता कुशलितम् अकरोद् एव किं यावद् एवं
सिध्येद् इत्थं स तेन व्यतिकथितया व्यश्वसीन् न्यश्वसीच् च
[स्रग्धरा]
[157] पुनश् च श्री-कृष्ण उवाच-भगवत्याः पुरतः किम् अपि ताभिर् उक्तम्?
[158] मदुमङ्गल उवाच-नहि नहि, किन्तु सा सुमुखी-ततिर् अधोमुखी-भवन्ती सन्तीव्र-लोचन-जल-स्खलनतः स्तनं सिञ्चन्ती तमालम् अपि तं म्लापयामास ।
[159] श्री-कृष्ण उवाच-अथ तासां मनोरथ-पथः किम् अवगतः?
[160] मदुमङ्गल उवाच-अथ किं ।
[161] श्री-कृष्ण उवाच-कथम् इव?
[162] मदुमङ्गल उवाच-ताभिर् मुहुर् अपि भवतः सवर्णस्य तमालस्यावलोचन-रचनेन ।
[163] श्रीकृष्ण उवाच-विशेषेण चेत् कथ्यताम् ।
[164] मदुमङ्गल उवाच-कालिन्दी-वचनेन च, यतस् तां प्रविशन्तीनां तासाम् इमां काकुम् आकुली-भवन्ती पश्चाद् अस्मासु सानुकृतवती । यथा-गोष्ठ-क्ष्मा-पति-दम्पती [ग्च्प् 15.120] इत्य् आदि ।
[165] श्री-कृष्ण स-गद्गदम् उवाच-आगच्छ गच्छाव तावत् सखि-सङ्घम् इति ।
[166] अथ मधुकण्ठः सोत्कण्ठं पप्रच्छ-ततस् तासां का मतिर् जाता?
[167] स्निग्धकण्ठ उवाच-ततश् च व्रज-सुन्दरीणाम् उन्मनस्तया धर्म-त्रस्ततया च महती मनः-कथा जाता । यथा-[168] ननु यद्य् एवम् उन्मनस्ता-ग्रस्ता धर्म-रक्षणार्थम् अक्षमासि, तर्हि प्रत्यासन्न एव धर्म-त्यागः? तत्राह-
धर्मस् त्याज्यः कथम् अतितरां लोक-युग्माभिनन्दी?
[169] तर्हि लोक एव त्याज्याः? तत्राह-
लोकस् त्याज्यः कथम् अतितुल-प्रार्थितार्थस्य धारी? ।
[170] ननु तर्हि तेन चार्थेन किम्? तत्राह-
अर्थस् त्याज्यः कथम् अयम् अथ प्राण-रक्षाधिकारी?
[171] नन्व् एतावति सङ्कटे प्रान-त्याग एव त्राणदः? तत्राह-
प्राणस् त्याज्यः कथम् इव न सा लालसा मां जहाति
[मन्दाक्रान्ता]
[172] क्षणं शून्यम् इव स्थित्वा प्रतिस्वं पुनः स्वगतम् ऊचुः-
हन्त तात-जननी-कुलं कुलं
चान्यद् आक्षिपतु मां यथा तथा ।
कृष्ण-राग-रुचिरा मतिः कथं
जातु यातु रुचिम् अन्यभाविताम्
[रथोद्धता]
[173] पुनश् चिन्तायाम् अपि सोद्वेगम् ऊचुः-
निद्रा मम सुखदालिर् या तस्य स्फूर्ति-विस्मृती दत्ते ।
ताम् अपि चिन्ता क्रव्याद्-वृद्धा शश्वद् बलाद् ग्रसते
[आर्या]
[174] तस्य च तथा वचनम्, यथा-
रे रे चित्त, प्रणय-मयतापारतन्त्र्यं किम् एषि
त्वं तत्रापि व्यसनि यदि वा धर्मतस् तत् प्रयाहि ।
हंहो किंवा पर-गृह-जुषां भाविनीनां च भावे
लग्नं मग्नं भवसि बहुधा प्रोज्झ्य तत्-तद्-विचारम्
[मन्दाक्रान्ता]
[175] तद् एवम् अभिध्याभ्रमाभिध्यानतः कथं कथम् अपि क्षपितेषु तेषु दिनेषु व्रज-वासिनां सम्भ्रमेण जात-व्युत्क्रमे धेनुक-वध-विक्रमेडित-वासरे प्रेयसा सह चमूरु-दृशाम् अमूषां परस्परम् अतिरम्यं सम्यग्-दर्शनम् आसीत् । तत्र तु-
तासां नित्य-प्रेयसीनां मुरारेर्
जन्मन्य् अस्मिन् विस्मृतात्म-स्थितीनाम् ।
शोभा तस्य स्मारयन्तीव तत्त्वं
धर्मत्रासं द्राङ् मुहुर् लुम्पति स्म
[शालिनी]
[176] तथा च वर्णितं श्री-बादरायणिना-
पीत्वा मुकुन्द-मुख-सारघम् अक्षि-भृङ्गैस्
तापं जुहुर् विरहजं व्रज-योषितोऽ ह्नि ।
तत्-सात्कृतिं समधिगम्य विवेश गोष्ठं
सव्रीड-हास-विनयं यद् अपाङ्ग-मोक्षम् ॥[भ्प् 10.15.43] इति । [वसन्ततिलका]
तथा हि-
पीतं हरेर् वदनम् अब्ज-रसं प्रसह्याप्य्
आसां दृशा रचित-भृङ्ग-चकोर-भङ्गि ।
तेनापि सत्कृतिम् अमन्यत स प्रशस्ताम्
आजीव्यतां गतवतीषु तद् आसु युक्तम्
[वसन्ततिलका]
तस्मिन्न् अपाङ्ग-शर-मोक्षम् अमूर् अकुर्वन्
व्रीडा-स्मिताञ्चि-नयनैर् अनुनिन्यिरे च ।
तेनापि सत्-कृतिम् अमन्यत स-प्रशस्ताम्
आजीवि लोक-चरितं किल तादृग् एव
[वसन्ततिलका]
किं च-
कृष्णं लक्ष्यं विधायामूर् अभ्यास्थन् नेत्र-पत्रिणः ।
तच् च भक्तिर् इतीवाहुः शराभ्यास उपासनम्
[177] तदा च, तास् तन्-मुख-सुधा-रुचि-रुचिपा-नाना-पूर्ण-रुचयोऽ पि वलतस् तत्-कुल-पालिकाभिर् निलयम् एव नीताश् चकोर-वध्व इव पञ्जर-मध्यम् । तद् अनु च-
आयाताः प्रतिबिम्बतां यदपि ताश् चित्त-ह्रदे श्री-हरेश्
चित्रं तत्र तथापि बिम्ब-पदवीं स्थित्या विकर्षेऽ प्य् अयुः ।
यत्र प्रस्फुट-तारका इव तदा सर्वा बभुः सर्वतः
श्री-राधा पुनर् अन्तरिन्दु-वलय-द्योत-श्रिया दिद्युते
[शार्दूलविक्रीडिता]
तत्र च-
पूर्वं तासां व्यवसितिर् अभूद् एवम् ईषत् कदाचित्
कृष्णं पश्यन्त्य् उपशमम् असौ लप्स्यते चित्त-वृत्तिः ।
दृष्टे दृष्टे पुनर् अथ मुहुस् तत्र चिन्तेयम् आसीत्
किं भूयश् च क्वचिद् अहह तद्-वक्त्र-लक्ष्मीं पिबामः
[मन्दाक्रान्ता]
[178] तत्र च सखीष्व् अपि गोपन-प्रक्रियेयम्-
नहि पर-पुरुषे वाञ्छा मम सखी काचित् कथञ्चिद् अप्य् अस्ति ।
प्रकृतिः सेयं यद् असित-वस्तुनि दृष्टे भवेत् कम्पः
[आर्या]
तत्र तु,
राधा बाधा-प्रतिहत-तनुः सर्वदा धारणाभिश्
चित्ते शान्तीर् अपि निदधती व्याकुलासीद् अतीव ।
हा हा तस्याः प्रिय-सवयसो प्य् आशु तद्-भाव-भावात्
ताम् एवापुः कटुतर-दशां हन्त केऽ मूम् अवन्तु
[मन्दाक्रान्ता]
[179] तद् एव पर-च्छन्दता-मन्दतायाम् अपि-
सङ्कल्पः क्वचनान्वजीगमद् इतः साक्षात्-कृतिं श्री-हरेः
स्वप्नः कुत्र च लोचनं क्व च वियोगार्तौ च राधादिषु ।
यैर् एतैः सुधया लतास्व् इव तया तास्व् इन्दु-बिम्बैर् जवाद्
उल्लासावलि-लम्भनात् तरुणिमारम्भोऽ पि सम्भावितः
[शार्दूलविक्रीडिता]
[180] अथ स्निग्धकण्ठः समापन-दिग्धम् आह-
स एष राधिके सर्व-दुर्लभस् तव वल्लभः ।
त्वद्-अर्थं पीडयाप्य् आर्तो दिनानि क्रीडयानयत्
[अनुष्टुभ्]
तद् एवं सूताङ्ग-प्रभव-शिशु-युग्मे कथयति
स्फुरत्-प्रेमावेशात् प्रतिपद-विविक्तेर् निघटनात् ।
कथा किं नाट्यं किं किम् उत निज-लीलेति विविधं
समज्यासौ सार्धं स्फुरणम् अजितेनाप्य् अनुययौ
मूल पाठ: Gopālacampū, P1-33, U1-3, U5-6, U29 · Edition: Puridasa (1947). · Data entry Jan Brzezinski · GRETIL (Göttingen) · CC BY-NC-SA 4.0