भाषा

ENहिગુ
ग्रंथ पाठ

गोपालचम्पू · अध्याय 1.14

1.14.1

[अनुष्टुभ्]
[67] तद् एवं, तरीयमाणेन हरिणा वरीयसा व्रज-परीवारेण सरिताव् इवातरीषातां ते आपदाव् इति सुखद-वृत्ते सभ्यानां तल्-लीला-समाधेर् अभ्यवकर्षणाय स्तवनामृत-वर्षणाय च साञ्जलि-स्थितयोस् तयोश् चिराद् बहिर् अवहित-तद्-उपसेवाः पूर्ववद् एव स-व्रज-देवाः सर्वे स्वं स्वं कार्यम् आसेदुः ।
इति श्री-श्री-गोपाल-चम्पूम् अनु
कालिय-दव-चण्डता-दण्डनं नाम
त्रयोदश-पूरणम्
॥13॥
(14)
श्री-श्री-गोपीजन-वल्लभाय नमः
अथ कैशोर-लीला
अथ चतुर्दशं पूरणम्
गदर्भासुर-मर्दनम्
श्री-कृष्ण कृष्ण-चैतन्य स-सनातन-रूपक ।
गोपाल रघुनाथाप्त-व्रज-वल्लभ पाहि माम्

1.14.2

[1] तद् एवं गोलोक-विलासे श्री-गोपाल-पाल्यमान-गोपालानां नित्य-लोकः श्री-गोलोकः कथितः । तत्र च श्री-गोपराज-सभायाम् अपूर्व-वीक्षित-कवि-क्षितिपति-कुमार-सुकुमार-कुमार-युगलावकलनम् उद्भावितम् ।[2] तद्-अनन्तरम् अपि बाल्य-विलासे तद्-युगलेन कृष्ण-बाल्य-चरित-वर्णनं कालिय-दलन-लीलावसानम् आचरितम् । सम्प्रति तु तत् प्रथितं कैशोरचरितम् आख्यायते । [3] तद् यथा-
अथ दिनान्तरे च पूर्ववद् एव व्रज-नरदेव-सभान्तरे तयोर् एकतरः समुत्कण्ठतया स्निग्धकण्ठः स्वगतम् इदम् उवाच-[4] अथ कैशोरं वर्णनीयम् । किन्तु रहस्य-रस-हारि-प्रसभायां सभायाम् अस्यां यथा लज्जा न सज्जा स्यात् तथा युज्यते । [5] यदि च जातु निज-माधुरी-बुभुक्षित-कुक्षिम्-भरिणा हरिणा स्वक-सुखावहम् इति रहस् तद् अनुयुज्येवहि, तदा तद् उचितम् एव तद्-उपचितम् आचरिष्यावः इति ।
[6] अथ स्पष्टं तु व्याचष्ट-ततश् च स्पष्टं कृत-गमायां षष्ठ-समायां समुल्लसित-सम्मति-मये जन्म-तिथि-समये हर्ष-समृद्धि-प्रद-वर्ष-वृद्धि-पर्वणि सर्व-निःश्रेयसम् आविस्तरां विस्तारयतः समस्तं विनिस्तारयतस् तस्य श्रीमद्-व्रजराज-सुतस्य विश्वेषाम् एव मनश् चोरं कैशोरम् उदयाञ्चक्रे । तथा हि-
राज्यं सम्यग् उपेत्य कृष्ण-वपुषि त्रैलोक्य-लक्ष्मी-मये
क्रीडाभिर् लघु निर्गमय्य समयान् औदार्य-पर्याकुलम् ।
पात्राय स्वयम् आगताय गुणितावासाय सद्-वेदिने
कैशोराय निजं प्रदाय विषयं पौगण्डम् अन्तर्दधे

1.14.3

[शार्दूलविक्रीडितम्]
ततश् च-
दृष्टि-प्रसाद-कृत-सामभिर् अंशुदानैः
शश्वन् मनोहरण-निर्मित-बुद्धि-भेदैः ।
अर्थान्तराभिविनिवेशज-भाव-दण्डैः
कैशोरकं वशयति स्म हरेः समस्तम्

1.14.4

[वसन्ततिलका]
तत्र च,
मुखे पूर्तिः कान्तिर् नयन-युगले दैर्घ्यम् अरुण-
प्रभा हृद्य् उच्छ्रायः प्रततिर् अपि मध्ये तु कृशता ।
इतीदं सौन्दर्यं यद्-अवधि मनाग् अप्य् अधिजगे
जगन्-नेत्र-श्रेणी तद्-अवधि हरौ तेन चकृषे

1.14.5

[शिखरिणी]
[7] तद् इत्थं तज्-ज्येष्ठश् च निर्दिष्टः ।
[8] तदा च ताल-फल-पाकावसरे वर्षा-प्रसरे कदाचिन् निखिल-सुख-वर्धनस्य गोवर्धनस्य गिरेर् आग्नेय्यां हरिति हरि-रामादयः सामोदा गाश् चारयन्तः सन्ति स्म । [9] ततश् च पूर्वानुभव-सम्पातातीतं पूर्व-वातानीतम् अतिदूरतः सजातीय-पूर-धरं पक्त्रिम-ताल-फल-जाल-सौरभ्य-भरम् उपलभ्य, पूर्वत एव तत्-कीर्ति-विवर्तित-चित्ता व्रज-वर्तिषु वित्तास् ते सर्वं-सहायाः स्पृहणीयाः सर्व एव तयोः सहाया हृदि स्पृहयाम्बभूवुः- राम-कृष्णाभ्यां वलिता वयम् इतश् चलिता रास-भासुर-राज-भवनं ताल-वनं तत्-पाल-गणम् अपि तथा-विधं निभालयितुं नूतन-कुतुकाः स्म । ततः स्व-बुभुक्षा-सुक्षामता-लक्ष्य-विनोदाद् इमौ विनुदाम इति ।
[10] ते च श्रीदाम-सुबल-स्तोककृष्ण-शवला बल-कृष्णयोः सम-बला लब्ध-मर्माणः सधर्माण इत्य् अतएव शश्वद् अखिलतया सखितया विराजन्ते । ययोर् एव समं वीर्यम् इत्य् आदिकम् ईर्यते इति । ततः सततम् एव क्रमते तत्-पराक्रमे तेषां बुद्धि-क्रम इत्य् अकृत-शङ्काशेषेण प्रणय-विशेषेण जिघत्सा-मिषेण च तद्-अर्थं भ्रातृ-बलं बलभद्रं प्रार्थयामासुः, यथा-
तालानां वनम् अत्र पक्त्रिम-फलं निर्हारि पूरं यतः
सौरभ्यं बत दूरम् एति तद् इदं भोगं विना निष्फलम् ।
श्रूयन्ते हि खरा नराशन-करास् तस्याधिपा इत्य् अदः
श्री-रामायत-दोर्-युगार्पय तथा श्री-कृष्ण दुष्टापह

1.14.6

[शार्दूलविक्रीडितम्]
[11] आयत-दोर्-युग इत्य् अनेन च ध्वनितम् इदम्-
महाबाहुतया राम तर्क्यसे त्वं च विक्रमी ।
न तथा लक्ष्यथाः क्वापि लक्षणीयस् तु सम्प्रति

1.14.7

[अनुष्टुभ्] इति ।
[12] श्री-रामस् तु स-स्मितम् उवाच-भो भवन्तो लोभवन्तो भवन्तोऽ प्य् अस्मत्तः प्रति प्रतीयध्वे, यतो मुग्धाः! नियुद्धाभिमुखैर् भ्रू-भङ्ग-सूचित-शौटीर्य-सुखैः प्रभवद्भिर् भवद्भिः कदाचिद् आवाम् अपि पराभवम् आसाद्यावहे । तत् कथम् आवाम् एव याच्यावहे ?
[13] ते च प्रोचुः-सर्वतोऽ प्य् अतिगुणवन्तौ भवन्तौ खल्व् अस्माकं सारौ राज-कुमारौ । राज-नीति-रीतिश् चैवम् एव यद् राज-कुलम् एव व्रियते पुरस्क्रियते च । मृगयायां मृग-ताडनवन् न पुनर् अन्येन स्वयम् अग्र-गण्येन भूयते । यदि तत् कुलं परम-वीर्याकुलं भवति, तदा तु किम् उत? तत्र चाग्रजतया भवतः सदापाग्र्यतो नाग्र्यायते । तस्माद् यद्य् अस्मद्-इच्छा-पूरणाय भवतोर् इच्छा सङ्गच्छते, तदा नान्यद् अनुमन्यताम् ।
[14] तद् एवं सह-प्रहसिते शुभ्रांशु-सिते कृष्णाग्रजे स्वयम् अग्रतो व्रजे सिंह-नादम् आददाना दामोदरादयः सामोदं तद्-अनुप्लवाः प्लवमानतया तद्-वनाय तद्-अवस्था एव प्रतस्थिरे । गास् तु स्व-स्थान एव स्थापयामासुः । प्रस्थाय च रामम्,
सोपालम्भम् इवावदंस् तम् अनु तद् बाहू च मित्राणि यत्
तेन द्राक् स च सेर्ष्या-चित्तम् इव तां गत्वा तु तालावलिम् ।
सर्वाम् एव भुजायुगेन युगपद् विक्षिप्य सङ्घट्टयन्
विभ्रष्टानि मिथः फलानि विदधे घृष्टानि दिग्दन्तिवत्

1.14.8

[शार्दूलविक्रीडितम्]
तज् ज्ञात्वास्र-परासभाश् च परितः साक्रन्दम् अभ्याययुर्
यान् दृष्ट्वा पशुपाः स-माधव-बलाः शश्वद्द् हसन्तः स्थिताः ।
हासावेश-वशात् कृतानवहितिं प्रत्यक् पदाभ्यां बलं
वज्राभ्याम् इव धेनुकस् तम् अनुदत् तच् चैष नाबुध्यत

1.14.9

[शार्दूलविक्रीडितम्]
न ज्ञातवान् अपि यतः स तु तं प्रहारं
तेनातिरोष-भर-नास्ति-विवेक-चर्यः ।
भूयः पराक्-स्थिति विनर्द्य विकीर्ण-लत्तस्
तेनाथ वत्सक इवारचि धेनुकाख्यः

1.14.10

[वसन्ततिलका]
[15] अथ ब्रह्माण्डम् अपि खण्डयितुं प्रचण्डता-मण्डिताच् चण्ड-चण्डीश-शूलाद् अप्य् उद्दण्ड-प्रहारेण बल-भुज-दण्डेन ताल-मण्डल-मण्डलेश्वर-शिरसि चक्रीवच्-छक्रारिर् विचकरे । तेन च ताल-परावर-परस्परासु यः खलु निहित आवेग-संस्कारः प्रलय-जात-दुर्वार-प्रभञ्जनाकारः, स तु हिन्दोलयंस् तत् तद् उपरिगम् अर्धम् अर्धम् अग्नि-यन्त्र-प्रक्षिप्तम् इव विक्षिप्तं विधाय प्रायः सर्वम् एवाखर्व-ताल-खर्व-मयं तद् वनं निमेष-मात्रेण वित्रोटयामास । यत्र स्वयं तु भवन्तु तृण-राजाः खल्व् इमे, तथापि तृणान्य् एव इति बलभद्रश् चिन्तयामास च ।
[16] अथ तद्-अनुगता देव-विस्पर्धिनः परेऽ प्य् अस्वरतया गर्दभा गर्दन्तः प्रतिघात् प्रतिघातम् आचरन्तः सहसा रुद्धाध्वानः सह युध्वानः पर्यागतास् तृणवन्-मताः परमानन्दाराम-राम-कृष्णाभ्यां हसद्भ्यां विलसद्भ्याम् एवाखव इव धृतासव एव तुच्छीकृत्य गृहीत-पुच्छ-चरणास् तेषां ताल-भक्षण-सौकर्यार्थम् इवाधिमध्याम् अध्यवस्थित-तृण-क्ष्मापत्य्-उपरि क्षिप्रम् एव परिक्षिप्ताः क्षपित-जीविताः क्षिति-निपतिताः सह निस्तल-ताल-फलैः केतव इव राहुभिर् दिनानि कानिचित् कंस-पक्षीयान् अभीषयन्त ।
रासभान् शमयितुः कियद् भवेत्
पौरुषं तद् इति नावमन्यताम् ।
यद् दिविष्ठ-पटली तदापि तौ
वाद्य-गीत-कुसुमैर् असेवत

1.14.11

[स्वागता]
[17] अथ हास-सहितम् उपजहास च, सा मघवत्-प्रधाना धेनुकम् अघजिद्-अभिप्रायम् अभिप्रयती । यथा,
अघासुरः कालिय-कद्रु-जन्माप्य्
असोढ वीर्यं यदि नास्मदीयम् ।
पुत्री-प्रमर्दिन्, बत गर्दभ त्वं
कर्तुं कथं धार्ष्ट्यम् इयज् जगन्थ?

1.14.12

[उपजाति 11]
[18] अथ सद्यः पितृ-वन-विलास-ताल-वन-वास-रासभ-शव-स्पृष्टानि तानि तालानि न तु तैः परामृष्टानि, न च तदीय-तृणानि गावस् तर्णाविताः, किन्तु तद्-विसृष्टानि तानि केचिद् इतर एव मानवा गावश् च विगत-साध्वसाध्वतया चिरं साध्व् आस्वादितवन्तः ।
[19] तद् एवं नृ-जग्धं तं स-गणं क्रोध-दग्ध-सूक्ष्म-देह-पर्यन्तम् आचर्य श्रीमान् कृष्णस् तु साग्रजः सह-सखि-व्रजः पुरस्कृत-धेनुर् वादित-वेणुर् व्रजन् व्रजम् आजगाम । यथा,
कमल-दल-विशाल-लोल-नेत्रः
सखि-जन-गीत-पवित्र-चित्र-कीर्तिः
सह-बलम् अविशद् व्रजं स-वेणुं
क्वणित-कलं कलयन् व्रजेश-सूनुः

1.14.13

[पुष्पिताग्रा]
तं गोरजश् छुरित-कुन्तल-बद्ध-माल्य-
सम्बद्ध-पिञ्छम् अमलेक्षण-चारु-हासम् ।
आनन्दित-वेणुम् अनुगेडित-पुण्य-कीर्तिं
गोप्यः स-तृष्ण-नयनाः परितः समीयुः ॥12अ॥ [वसन्ततिलका][*4]
[*4] चोम्परे भ्प् 10.15.42, wहिछ् इस् fओउन्द् इन् थिस् वेर्सेऽ स् प्लचे इन् सोमे एदितिओन्स्.
[20] तद् एतत् पर्यन्तम् उदन्तं समुदन्तः कथयित्वा तत्र च कृष्ण-मनश्-चोरीणां नव-किशोरीणां तन्-मुख-विधु-दर्शन-शात-जात-भ्रू-भङ्ग-तरङ्ग-सङ्गतानुराग-सागर-गरिमाणम् अनुस्मृत्य विस्मृत-सर्वेन्द्रिय-कृत्यः स-बाष्प-कण्ठः स्निग्धकण्ठस् तस्यां सभायां मुहूर्त-द्वयं मूर्त-भावम् एवाससाद । [21] श्रीमद्-व्रजराजादयस् तु तद्-अभिप्राय-जानानाः सदयतया तदीय-सान्त्व-विधये सावधाना नाना-विध-विधानम् आचरन्तः सर्व एव चिन्तातुरा बभूवुः ।
[22] तत्-तद्-विधानस्य चाकिञ्चित्-करतायाम् अविरतायां मधुकण्ठ एव तान् स्फुरद्-उत्कण्ठः सान्त्वितान् विधाय भ्रातुः सर्वेन्द्रिय-कुण्ठता-शान्तये तदानीन्तन-व्रज-राज्ञी-सन्तत-तल्-लालन-सङ्गानम् आततान । यथा-
हरिणा हलिना सह रिपु-दलिना ।
रजनी-मुखम् अनु जननी-लालनम् इति कलितं जित-कलिना ॥ध्रु॥
निर्मञ्छन-नीराजन-मार्जन-वदनालोकन-रचनम् ।
मर्दन-मज्जन-संवस्त्रणतः पश्चात् पुण्ड्रक-सचनम् ॥
रस-चय-योजन-भोजन-पूरण-सुरभित-नीरास्वदनम् ।
अगुरु-द्रव-युतिर् अथ ताम्बूल-स्वदनं सुख-संवदनम् ॥
सुकृति-जनं प्रति शय्या-संस्कृति-समनुज्ञाम् अनुशयनम् ।
प्रिय-सख-सङ्गतिम् अनु सेव्य्-अनुगतिम् अनु च मुदाम् अतिचयनम्

1.14.14

इति । [7 x 4]
[23] तद् एवम् अतिपरिचरितम् । हरि-चरित-वर्णनं मधुर-राग-नीरन्ध्रं कर्ण-रन्ध्रं प्रविशद् एव तं मूर्च्छाम् ऋच्छन्तम् अपि जागरयामास, नाम-धेयम् इव निद्रा-लब्ध-चिद्-राहित्यम् ।
[24] अथ स्वस्थावस्थतया कुण्ठता-रहितस् तादृश-गुण-महितः स्निग्धकण्ठः स-बाष्प-कण्ठम् उवाच-
सोऽ यं गोपाल-भूपाल तनयस् तव निर्दयः ।
मुग्धं च मद्-विधं मुग्धं करोति स्वैर-लीलया

1.14.15

[अनुष्टुभ्]
[25] तद् एवं वृत्ते निवृत्ते सर्वत्र च व्रज-जने गृह-वर्त्मानुवृत्ते नित्यवद् एव व्रज-महेन्द्र-तनूजस् तौ सूत-राज-तनूजौ सङ्गत एव निनाय । नीत्वा च तयोर् आत्मना तृतीयः सन् प्रसङ्गतः प्रच्छन्नतया पप्रच्छ-कथयतं, कथम् एतावान् कस्मान् मूर्च्छावेशः क्लेश इव परामृष्टः? इति ।
[26] उभौ तु स-गद्गदं जगदतुः-किं ब्रूवहे, भवन्त इव सर्वम् अनुभवन्ति इति ।
[27] कृष्णश् च स-तृष्णम् उवाच-जानीम एव केवलं न, किन्तु तदानीं स्वयम् अपि नितराम् आचरामस्, तथापि तद् वर्णनम् आकर्णयितुम् इच्छामः । तथा हि-
स्वयम् अपि यत् पुरु रचितं तद् यदि हृदयं तदा सदा श्राव्यम् ।
काव्यं निज-सचितं यत् तद् इदं युवकां परस्परं शृणुथः

1.14.16

[गीति]
[28] तस्मात् प्रथमं तावत् प्रेयसी-गणाधिकाया राधिकाया बिम्बोष्ठी-गोष्ठी-मध्यम् अध्यास्य व्यस्यताम् एषा पटीयसी रस-परिपाटी ।
[29] उभौ स-बाष्पतया परस्परं निरूपयन्ताव् ऊचतुः-
यद् अन्तर् यस्य सर्वं तत् तस्य जानात्य् अभीप्सितः ।
स एव चेद् वसत्य् अन्तस् तं तु जानीत कः परः

मूल पाठ: Gopālacampū, P1-33, U1-3, U5-6, U29 · Edition: Puridasa (1947). · Data entry Jan Brzezinski · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc