भाषा

ENहिગુ
ग्रंथ पाठ

गोपालचम्पू · अध्याय 1.13

1.13.1

[अनुष्टुभ्]
[56] अथ श्रीदामादि-चमत्कार-सार-प्रद-प्रथनस्य तद्-एतत्-कथनस्य श्रवणान्ते, सैवेयं लीलेति भ्रान्ते, तत एव बहिर् वृत्तित उपशान्ते गोलोक-धरित्री-कान्ते जने च श्रेणी-प्रान्ते, तौ सूत-सुतौ यथावद् बद्धाञ्जलितयावस्थितौ चिरत एव पूर्व-पूर्ववत् प्रीति-दानेन वासं प्रस्थापितौ विधाय ते सर्वे यथास्वम् आवासादिकम् आसादितवन्तः ।
इति श्री-श्री-गोपाल-चम्पूम् अनु
गोचारण-प्रचारणं नाम
द्वादशं पूरणम्
॥12॥
(13)
अथ त्रयोदशं पूरणम्
कालिय-दव-चण्डता-दण्डनम्
[1] अथ प्रतिप्रातर् इव श्रीमद्-व्रजराज-समाजे विराजमाने कथां कथयितुं समुत्कण्ठो मधुकण्ठो निजान्तश् चिन्तयामास-
[2] धेनु-चारणारम्भ-लम्भक-दिने धेनुकालम्भः खलु श्री-बादरायणिना तदीय-चारणावसर-साम्यानुसारिणा पूर्वम् एव वर्णितः । वस्तुतस् तु पौगण्ड-प्रान्त एव पण्डया निर्णीतः, तद्-दिवसावसाने वेश्म-प्रवेशे कैशोरांशावेश-वर्णनात् । अतः श्री-पराशरेणापि कालिय-दमनानन्तर्-आवसर एव सोऽ यं सावसरः कृतः । श्री-हरि-वंशे च स्पष्टम् एव, दमिते सर्पराजे तु कृष्णेन यमुना-ह्रदे [2.13.1] इत्य् उक्त्वा धेनुक-वधः समारब्धः । तद् एव युक्त्यापि व्यक्ती-भवति । कार्तिक-वर्तमान-शुक्लाष्टम्यां गोचारणारम्भ-सम्भव-दिनतया पाद्मे स्पष्टतयोक्तिर् दृष्टा । पक्व-ताल-फल-कालो भाद्र एव, तत्र च धेनुक-निर्धूनन-प्रसिद्धिः । तस्मात् कालिय-दमनम् एव प्रथमं प्रथयिष्यामः इति ।
[3] स्पष्टं त्व् इदम् अभ्याचष्ट-
कवयो ये भुवि ख्यातास् त एवाकवयो मताः ।
सुखम् आयास्यतीत्य् एवं सुदुःखं वर्णयन्त्य् अमी

1.13.2

[अनुष्टुभ्]
इति तूष्णीकाम् आसज्य पुनर् आह स्म: अथवा-
सुखं वा वीर्यं वा तद् इह परमं यत् प्रतिमुखं
प्रतीपं निर्जित्यानवरतम् अतुल्यं विजयते ।
कविश् च श्रेयान् स स्फुरति खलु यस् तद्-विधतया
सदा तत् तद् गायन्न् अपि न परितस् तृप्यतितराम्

1.13.3

[शिखरिणी]
[4] अतः कालिय-निर्यापन-फलं तद् इदं वृत्तम् आपाततः सुदुःसहम् अप्य् आयत्यां प्रत्याप्त-बहुल-सुख-सहचरतया वर्णनम् एवास्माभिर् आकर्णनीयम् एव च युष्माभिर् इति याचित्वा स-कम्पम् उवाच-
[5] तद् एवम् अर्जुनीषु पर्याग् एव चिराय चार्यमाणासु परि कालियालय-जलाशयाशयम् एव चलितुं खलु श्री-बलरामः समनुज्ञां कलयाञ्चक्रे, श्री-व्रजेश्वर्याः शिक्षित-चर्यानुगमात् । श्री-बलावरजस्य तु तस्य चिरत एवाविरतं तद् दिदृक्षा न क्षीणासीत् । [6] बहलेन कुतूहलेन, जन्मत एव दुर्जन-तेजसाम् असहनतायाम् अविकलेन तेजस्विता-बलेन च ।
[7] तद् एवं स्थिते सदावद् एव कदापि कृष्णाग्र-जन्मनः श्रवणाख्यं मासिकं
जन्मर्क्षम् अतिथिवत् प्रथितिं व्रज-सदसि समाससाद । तदा च सङ्कर्षणः स खलु हर्षण-मङ्गल-स्नपनाद्य्-आसङ्गतः स्व-गृह एव सङ्गत आसीत् । [8] तदा च कासाञ्चनाभिनवानां गवाम् अतिप्रत्यासन्न-प्रसवानाम् अवश्यम् एव स्वावनीयतया विनापि तं वनीम् अनुगत-सखः श्रीदाम-सखः प्रस्थितवान् । किन्तु सम्भोजन-समय-समयने समयं विधाय तदा च लब्धे विप्रलब्धेर् अवसरे तद्-इतरं प्रति यः काल-कूट-तुल्यः काल-कूटस् तन्-मय-कालिन्दीय-कालिय-ह्रद-हरितम् एव त्वरितं हरि-सुधा-वारिधिर् अवजगाहे ।
[9] तत्र गवाम् अग्रेसरा ये गोप-कुमार-वरास्, तेषु चानाशितङ्गवीन-नवीन-वन-विभागावकलन-कलित-बहल-कुतूहल-जात-रभसतः किञ्चिद् विलम्बम् आलम्बमानेषु निदाघ-द्राघीयस् तृष्णा-व्याकुलम् अग्रिम-गोकुलं कालिय-विषाकुलं कृष्णा-जलं पिबति स्म । पान-मात्राच् च विचेतनतया निपपात, क्षणतस् ते चाग्रे-सरास् तद्-अवलोक-शोक-धरा देह-जिहासया सहसा स्वयम् अपि धयन्तः पतन्ति स्म । [10] इयं पुनर् योगमायाया एवानपाया गतिः, या खलु खलानाम् उत्कलनायासम्भवम् अपि सम्भावयति ।
[11] अथ मुहूर्त-पूर्ताव् आगतोऽ यं तोयद-श्यामल-मूर्तिर् मूर्तान् एव तान् पश्यन्न् अन्यादृश-श्यामलताम् आजगाम, विललाप च-
या गावः खलु देवता व्रजसदाम् अस्माकम् उच्चैस्तरां
ये बालाश् च सदैव जीव-तुलितास् तेऽ मी विपन्नाः पुरः ।
हा हन्त स्वयम् अस्मि तत्-सहचरः किं भ्रातरं मातरं
तातं सर्व-जनं च वच्मि मम धिक् चापल्यतः साहसम्

1.13.4

[शार्दूलविक्रीडितम्]
[12] ततश् च विप्रतीसार-सारानुसाराद्रुत-विद्रुततर-चेतसः श्री-व्रज-कुल-चन्द्रमसः क्रमशः सर्वेषां मुखम् अभिदत्त-दृशः स्तिमिती-कृत-निजाधरा नेत्राम्भु-धारा निपेतुः, या एवाङ्कुरी-कृत-वसुधाः सुधायमाना यथा-क्रमं सर्वं चेतयामासुः । किन्तु मुर-शत्रुः पुरः पुरः-स्थ-गमनावेशाद् अपुरः-स्थ-देशाश्रितानां चेतनां तदा न चिचेत, चिराद् एव त्व् अचेतीत् ।
[13] ते च चेतिताः सर्वे चिराय विचार-प्रचारं नानुचरन्ति स्म, यस्माद् आत्मानम् अघ-नाम-धर-विषधर-विषम-विष-मोहाद् रक्षितवन्तम् अघ-द्विषम् एव तत्र तत्र भ्रमन्तम् अनुभूय, भूयः स एव चेतना-मूलम् इति निश्चितवन्तः ।
[14] कृष्णस् तु तान् विलुलितवेशान् लब्धोपवेशान् दृष्ट्वा युगपद् एव सर्वान् कृष्ट्वा पृथक् पृथग् एवाश्लिष्टवान् । [15] तद् उक्तम् एव यद् अस्य खल्व् औत्पत्तिक एवायम् उपपत्तिम् अतीतवान् गुणः, यद्-भाव-भावनः स्यात् तत्रानुरूप-रूपाविर्भावनम् असौ यौगपद्यम् उपसद्य, बहुत्रापि सद्य एवापद्यते इति ।
[16] तत्र बालैर् मिलनं, यथा,
दृष्टिर् बाष्पम् इता तनुः स्तिमितताम् अन्तर्मतिर् लीनताम्
इत्थं सङ्गति-साधने तु निखिलेऽ भीक्ष्णं गते व्यर्थताम् ।
किं सौख्यं किम् असौख्यम् एतद् इति च स्फूर्तिं विनावस्थितौ
कञ्चित् कोऽ पि न किञ्चिद् उज्झितुम् अभूच् छक्ति-प्रयुक्तश् चिरम्

1.13.5

[शार्दूलविक्रीडितम्]
[17] गोभिर् यथा-
गावो हुङ्कृति-घोषणा वलयिताः कृष्णं लिहन्त्यश् चिरात्
तद्-बाहु-द्वय-वेष्टनेन विलसत्-कण्ठ्यः समुत्कण्ठिताः ।
यत्नात् त्याजित-तद्-ग्रहाश् च पशुपैः क्षिप्ताश् च तस्थुश् चिरम्
तास् तद्-वक्त्र-सुधाकर-द्युति-सुधा-पीतावतृप्तेक्षणाः

1.13.6

[शार्दूलविक्रीडितम्]
[18] तद् एवं सति तस्य भाव-विशेषोद्भवः समुद्भाव्यते । पूर्वम् एवायं श्री-युत-कृष्णः पारावार-भविष्णु-स्थास्नु-चरिष्णु-दुःख-दान-धृष्णोः कृष्णाधिष्ण्यस्य कालियस्य निराकरिष्णु-तृष्णोऽ पि, तत्-पत्नीभ्योऽ पत्रपिष्णुतया चिराय तूष्णीं बभूव । सम्प्रति तु गो-गोपाल-काल-धर्मापात-जातासहिष्णुतया वर्धिष्णु-क्रोधः सुष्ठु जातः ।
[19] ततश् च सावहित्थम् इत्थम् उवाच-अहो, वयस्याः! पश्यथ अत्रोदक-स्तम्भ-विद्या-कृतावकाश-प्रकाशमान-ह्रदिनी-ह्रद-स्थित-स्व-सदने कालियाख्य-मन्द-दन्दशूकस् तिष्ठति । तेन च दुष्ट-निष्ठ्यूतया सर्व एवाखर्व-विष-ज्वालया ज्वलिताः पर्यग्-देशा दृश्यन्ते । उपर्य् अप्य् उत्पातिताः पतत्रिणश् चात्र पतिता इत्य् आत्म-नेत्राभ्यां प्रतीयताम्, येभ्यस् तु प्राणा जगत्-प्राणाशन-भयतः सद्य एव विप्रतिपद्येव स्वयम् उत्पतन्तः कदापि न न्यवर्तन्त । सोऽ यं पुनर् गरुत्मत्-कृतामृत-सेक एक एव काल-कुट-ज्वालयापि कृतालम्बः कदम्बः सुललित-दलादितया लालसीति । तस्माद् अस्योपरिग-कोटर-पिठरे स्फुटं तद् अनवद्यम् अमृतम् अद्यापि विद्यत इति प्रसह्याहम् आरुह्य पश्यानि । भवन्तस् तु गाः किञ्चिद् दूरचरतया चारयन्तश् चरन्तु ।
[20] तद् एतद् वदन् विगत-कदनः कञ्ज-वदनः कदम्बम् अधिरुह्य परिकरं समूह्य, स्वयं किरण-गणामृत-घनाघनः सान्निध्य-मात्र-निर्मित-साधर्म्ये तस्मिन् कालिय-हर्म्ये निर्मल-जल-क्रीडा-कुतुकाय पपात-
[21] यत्र च तत्र सर्प-ह्रद-गत-जलं धनुः-शतम् उदसर्पत् । तच् च श्री-व्रजराज-तपः-प्रताप-फलस्य सङ्ख्यातीत-बलस्य तस्य न चित्रम् इत्य् एव मन्तव्यम्, येन हि पौगण्डतया नातिप्रचण्डम् अपि तद् एव तद्-वपुश् चण्डांशु-कोटिवद् अतीवोद्दण्डतया तत्र कुण्डलीनां भाति स्म । ततश् च तस्यामर-वारण वारण-विक्रम-क्रमतया घूर्णद्-भुजापूर्ण-वार्-घोषण-सङ्घर्षणया घर्षितस् तद्-उत्कर्षासहन-समाजः सहसा तनूनपान्-महसाहि-राजः स्वीय-लीलान्तरीपान्तः स्वयं क्रीडा-हर्षतः स्मितं वर्षन्तं पीतांशुक-विद्युद्भरं कर-चरणाधर-रोहिताकरं वनमाला-शचीपति-चाप-धरं सुललित-नील-घन-वरं तम् एवाससाद ।
[22] सम्प्रति तु कृत-यव-क्षार-सार-सन्ध-गन्धकेन्धन-वह्नीयमानम् एतम् आत्मना चछाद ननाद च । केवल-बलि-मानितामयासहिष्णुतया धृष्णग् असौ नाग-जिष्णुर् आर्तोऽ पि न निवर्तते स्म ।
[23] अथ कालियस्य वरुण-पाशपाशीयमानाभोगाशय-नीयमानाशी-राशीभ्यां याहङ्कृतिस् तस्याश् चूर्णी-कृति-कौतुकाय योगमाया-मय-कङ्कट-सङ्घटिताङ्गताङ्गतस् तृणावर्त-वर्तन-समुद्वर्तनः स मुहूर्तं तथैव वर्तते स्म, यत्र हि तस्य सद्-अहितस्य भोगिनः शतम् एकातिरेकाभोगा मर्कटिका-जालवद् विघटित-शक्तयः सन्ति स्म । आशिषश् च तूल-वर्ति-तुलां कलयामासुः ।
[24] किन्तु यदा कदम्बाद् असौ कदम्ब-माली कालियालय-कालिन्दी-शम्बरम् अपप्तत् तदातितप्त-हृदयतया हाहा-कार-कृत-मिथः-क्रेङ्कारः स खिन्नः सखि-वारः स्खलच्-चरण-चारः सहसा तस्मिन्न् एव ससार । [25] गावश् च शाव-सहिताः सहितास् तम् एवानुद्रावकताम् अवापुः ।
[26] ततश् च स्वेषु विश्वेषु तम् एव ह्रदं सावेग-गदं प्राविशत्सु प्रतिदिशं गावश् च प्रविशन्तीत्य् एवं दृष्ट्वा परम-कष्टं स्पृष्ट्वानुपायाः पशुपाः नष्ट-प्राया भ्रष्ट-काया, यमुनायाः प्रह्वा इव कह्वासुर-जठराद् इव तत्-प्रत्यागत्य्-आशया परं प्राणन्ति स्म । तत्र च-
किं ज्ञप्तिः स्वपनं सुषुप्तिर् अथवा मूर्च्छा मृतिर् जीवनं
भात्य् एवं नहि निश्चिकाय निखिलः सोऽ यं सखीनां गणः ।
उस्राणां ततिर् अस्र-वृष्टि-कलितैः सा च प्रवाहैः पुनस्
तर्ह्य् एषां हृदयं ह्रदं च तम् अथ क्ष्वेडैर् इवापूपुरत्

1.13.7

[स्रग्धरा]
[27] तेषु च बहिर् ईदृग्-अवस्थेषु तथान्तर् अनवस्थेषु न कोऽ पि प्रकोपि तद्-वृत्तं व्रजे वृत्तं कुर्याद् इति विचार्य दिविषद्-वर्य-व्रजेन मुहुर् उत्पात-व्रातं प्रत्यापय्य तम् अनुसञ्चार्यते स्म ।
[28] तत्र व्रज-प्रजा-वचनं यथा-
दिवि भुवि खे चोत्पाताः कथम् इव तत्-कालम् उद्भूताः ।
आं नः सर्वेषां यः प्राणेष्व् अधि तत्-कृते त इमे

1.13.8

[उपगीति]
[29] इति व्यग्री-भूय समग्राः प्रजाः स-ग्रामण्यस् तं व्रजाग्र-गण्य-समाजं कृष्णाग्र-जन्म-जन्मर्क्ष-महसि सम्भोजनाय जनायतनताम् आप्तवत्यः, किं बहुना, व्रज-मही-पति-पत्नी च व्रज-महिलाभिर् अपत्रपाम् अपहाय तत्राजिघाय । सन्दिदेश दूर-देशतः-
दुर्निमित्तम् उदभूद् बलं विना
हा ययौ विष-दिशं बलानुजः ।
हन्त पूर्ण-समयः स नाययौ
गोष्ठ-राट् कथम् इहास्ति निर्वृतः?

1.13.9

[स्वागता] इति ।
ततश् च-
देहं गेहं तत् तद् अर्थं च सर्वं
धिक्-कुर्वन्तस् त्यक्त-तत्-पर्व-भोगाः ।
ते गच्छन्तः कालियानच्छ-कच्छं
वात-व्रात-क्षिप्त-चित्ता इवास्थुः

1.13.10

[शालिनी]
[30] भ्रातृ-प्रभाव-ज्ञानारामः श्री-रामस् तु तेषां शङ्कायाम् अनिशाम् अयन्न् अपि न तदानीं तद्-भावम् अवाप, किन्तु रिरक्षिषाम् एव । अन्यथा ह्य् अन्यथापत्तिर् एव स्याद् इति समुचित एव भावः स्वयम् एव योगमाययाचितः ।
[31] अथ स्व-मनस्य् एवं स विविवेच, वयम् इदं मुहुर् उन्नीय नियमत एव जानीमः, यत् खलु तस्य खल-वंशदवहुत-वहस्य निरस्यमानता न केनाप्य् अकेनापि कर्तुं शक्यते । तथाप्य् एते केवल-स्नेह-बल-देहा विद्युत्-पातायमान-दुर्निमित्त-लब्ध-जीवन-सन्देहा निज-जीवन-मूलं पीत-दुकूलं प्रति गमनाय दुर्मदेहा वर्तन्ते । तस्माद् अरण्यारण्यङ्गज-दहन-सन्दहन-सहनतामन्द-समुद्दिष्ट-हिम-द्रव-सन्द्रव-समुत्कटता-गलत्-कट-वारण-दुर्गण-गणवद् आपाततस् तु मम वारणम् अपि न मंस्यते । यत् खल्व् एतेषां तद्-विश्लेषातिशय-शङ्किता-दुःखम् अनु मय्य् अपि दुःखं दुःखनन-मूलं जातम् अस्ति, तद् अपि न व्यञ्जनाय प्राञ्जलताम् अर्हति, प्रज्वलित-ज्वलन-वनम् अनु ज्वलनान्तर-सन्ताननवत् । तस्मात्
केवल-मङ्गल-व्यङ्ग-व्यङ्ग-सङ्गमि-सद्-इङ्गित-विशेष-सङ्गितया त एते सम्भावित-तद्-भव्या भावनीया, न तु निराकरिष्णुतया । आवयोर् आवयो ह्य् एक-प्राणतां खल्व् एते मन्यन्ते इति ।
[32] अथ स एवं विविच्य सहसा जहास । तद् अनु किञ्चिल्-लब्धाश्वासतया चलन्तश् च ते-
दुःखाघ्रात-प्राध्वता-मन्द-नेत्राः
कृष्णाङ्घ्रि-श्री-लक्ष्म-लब्धावलोकाः ।
वर्त्मन्य् अस्मिन् पिच्छिलेऽ प्य् अश्रुभिस् ते
राम-प्राप्त-न्यस्त-हस्ता विचेलुः

1.13.11

[शालिनी]
यथा यथा विदधुर् अतीव शीघ्रतां
तथा तथाप्य् अदधुर् अलं विलम्बिताम् ।
कथं कथञ्चन बत तं ह्रदं गता
दशां तु कां समधुर् अमी न वेद्मि ताम्

1.13.12

[रुचिरा]
तत्र तु-
दृष्ट्वा कालिय-भोग-सङ्घ-वलितं गोपालकं गोपका
नन्दाद्या बत गोपिकाश् च विदलच्-चित्ता यशोदा-मुखाः ।
हा शुष्काङ्ग-दशां महा-मलिनताम् अप्य् ऊहुर् इत्थं यथा
तेषाम् आन्तर-वह्निनैषि बहिर् अप्य् उद्यातुम् इत्य् ऊह्यते

1.13.13

[शार्दूल]
मानुषान् बुद्धि-राहित्यात् पशून् इव निरीक्ष्य ते ।
पशूंश् च क्रन्दनान् मानुषान् इव क्लेशम् ऐयरुः

1.13.14

[अनुष्टुभ्]
ततश् च-
तेषां सदा स्नेहमयात्मनां तदा
त्रासात् तु शुष्की-भवतां हिमाद् इव ।
मिथः-समीक्षा-भवतापसङ्गमाद्
भूयो बभूव द्रवता रवेर् इव

1.13.15

[उपजाति 11]
स्नेहात् प्रवाहावलि-तुल्यतां यतां
व्रजौकसां द्राग् विशतां विष-ह्रदम् ।
बालोऽ प्य् अथावेश-वलद्-बलो बलो
द्रुतं महा-सेतु-दशां ससाद सः

1.13.16

[उपजाति 12]
[33] उवाच च-
प्रीतिः किं न्व् अनुजे न मे? व्रज-पते तात व्रजाधीश्वरि
श्री-रोहिण्य् अपि मातर्, अस्य तु सदा तत्त्वं परं वेद्म्य् अहम् ।
सत्यं वः पद-पङ्कजाश्रय-रुचां कुर्याम् अमुष्य क्वचिन्
नैकस्मिन्न् अपि मूर्धजे क्षति-लवो भावी यथा गर्ग-गीः

1.13.17

[शार्दूल]
[34] तद् एवं प्रशस्तेन स्व-हस्तेन श्री-रामेण हस्त-वारणे कृते-
विष-ह्रदान्ताद् विनिवर्तिताश् च ते
प्रतीयुर् एवाधि तद्-आत्मनः स्थितिम् ।
यत् काल-कूट-ज्वलनान्तरङ्गतं
स्वं मेनिरे वीक्ष्य तद्-अन्तरे हरिम्

1.13.18

[उपजाति 12]
कालिय-ह्रदम् इते बक-शत्रौ
गोकुलस्य रुदतः प्रतिशब्दात् ।
रोदसी च रुदती स्व-निरुक्तिं
बाढम् अज्ञपयतां रुदसिज्भ्याम्

1.13.19

[स्वागता]
गोप्यो मिथः कण्ठ-विलग्न-कण्ठास्
ता रोरुदामासुर् अलं विलप्य ।
स्मृतिं नयत् पूतनिकादि-नाशं
यन् मातृ-सन्त्वाय मुहुर् बभूव

1.13.20

[इन्द्रवज्रा]
एवं स्व-गोष्ठम् अहिवेष्ट-विविक्षु वीक्ष्य
सस्त्री-कुमारम् अतिदुःखितम् आत्म-हेतोः ।
कृष्णः सरोष-वितताङ्गतया तद् अङ्गं
छिन्दन् श्लथं विदधद् आशु बलाद् उदस्थात्

1.13.21

[वसन्ततिलक]
[35] तद् एवं कृष्णस्योत्थानम् एव कालियस्य व्युत्थानं जातम् इति सर्वोऽ पि जहर्ष । यथा-
तदा मुदा कलकल-गर्जितैर् जितं
व्रजौकसां शिशु-सवयो-जरा-जुषाम् ।
दिवौकसां कुसुमज-वृष्टि-सृष्टि-युग्-
जय-ध्वनि-ध्वनि-युत-तूर्य-लङ्घिभिः

1.13.22

[रुचिरा]
[36] ततश् च समुत्तेजित-तत्-तेजोभिर् उद्वेजित-चित्तः कुण्ठतावगुण्ठितोत्कण्ठतया दूरत एवोत्कण्ठतयातिष्ठन् मूढ-धीर् असौ गूढ-पात् प्ररूढ-क्रोधः स्वबोध-रोधतस् तं प्रतिद्रोग्धुम् उद्यतः सन्न्, उद्धत-बुद्धिस् थूत्कार-फुत्कार-दृष्टि-वार-कृत-कूटं कालकूटं प्रकटी-कुर्वन् गिरिकूटायमानः कर्तव्य-विह्वलतया जिह्वा-द्वय-समुदयेन मुहुः क्ष्वेड-बाडव-पक्वं सृक्वणी-द्वय-समुदय-लेहनाद् द्विजिह्व-लेलिहानाद्य्-आह्वयोऽ स्मीत्य् उट्टङ्कनेन घटयितु-कामः सर्वतो दृष्ट-वपुर् बभूव ।
[37] ततश् चाखण्डाहि-तुण्डिक-विद्या-पण्डितवद् उच्चण्डतया सकण्ठ-तुण्डावगुण्ठनाय स-दर्पम् अभितः सर्पति सर्पाशन-वाहने, सर्पोऽ यम् अपि शिरोभिः कृत-परिसर्पः सर्पवद् एवापसर्पन्न् उपसर्पंश् च जिह्मगवद् एव जिह्मं गच्छंश् च परितो बभ्राम शश्राम च ।
[38] तद् एवम् अहीनम् अहिनं प्रति सांयुगीनतारतोऽ पि चिरतो लब्ध-च्छिद्रतयाभिद्रवन्न् एव तदीय-समग्र-ग्रीवाग्र-गण्य-मूल-नालम् एव बलानुजन्मा बलाद् अवजग्राह निजग्राह च ।
[39] ततश् च विवशाङ्ग-सङ्घे तस्मिन्न् उरङ्गमे तु,
उद्यद्-रत्न-चितेषु पुष्ट-निटिल-प्रस्थेषु रङ्ग-श्रिया
शस्तेषु स्फुट-नृत्य-कृत्य-कलना-लोभेन शोभेक्षणः ।
द्यो-विद्योतन-वाद्य-गीत-कलया संहाय साहायकं
श्री-कृष्णस् तद् उपर्य् उदप्लुत मुदाम् उच्चैर् उदार-च्छविः

1.13.23

[शार्दूलविक्रीडितम्]
ततश् च-
पुनर् व्रजः स्फुट-सुख-विस्मयारव-
प्लव-श्रियास्पृशद् अमर-व्रजं दिवि ।
असौ च तं भुवि बत यत्र चोभयोः
प्रतिध्वनि-ध्वनि-विभिदा न तर्किता

1.13.24

[रुचिरा]
ततश् च-
शश्वद् गर्वद-पर्व-शर्व-डमरु-स्वर्-वाद्य-सर्वाद्यतां
विन्दन् कुण्डलि-दण्डनाय रभसाद् उद्दण्ड-सत्-ताण्डवः ।
आराद् ऊर्ध्वितम् ऊर्ध्वितं भुजग-राड्-मूर्धानम् उन्मर्दयन्
क्रोधाद् रोध-कुतुहलाद् धरिर् इहानर्ते ननर्त स्फुटम्

1.13.25

[शार्दूलविक्रीडितम्]
अथ-
जयज्-जय-जयारवाः कुसुम-वृष्टि-सृष्टि-प्रथाः
स्फुरत्-पुलक-पालयः प्रथित-शर्म-घर्माश्रवः ।
भुजङ्ग-शिरसी-शितुस् तद्-अनुकृत्य-नृत्यं सुरा
भवाम्बुज-भवादयः प्रमद-गर्जम् आर्जन् मुहुः

1.13.26

[पृथ्वी]
सर्पस्यानन-जाल-कूट-घटनाद् उत्थानम् आत्मायुषा,
निर्मञ्छ्याग्र-नखस्य तस्य नटनं तन्-मूर्ध्नि चात्यद्भुतम् ।
दृष्ट्वा श्री-व्रज-राज-तत्-प्रणयिनी-मुख्या व्रज-प्राणिनो
नेत्रं गात्रम् अपि प्रफुल्लम् अभजन् मन्ये जगद्-व्याप्तये

1.13.27

[शार्दूलविक्रीडितम्]
मूर्ध-श्रेण्यां तस्य शून्ये च कृष्णे
नृत्यं कुर्वाणे तु चित्रं तदासीत् ।
तेन क्रोधान् मस्तकं यद्य् उदस्तं
तत्रानेन प्रापिता ताल-लत्ता

1.13.28

[शालिनी]
मुखै रुदिरम् उद्वमन् गरलम् उद्गिरन्न् अक्षिभिः
स्खलन्-मणिक-मस्तक-स्थित-तद्-अङ्घ्रि-चिह्न-व्रणः ।
श्लथाङ्गकतयाजहद् अनुज-सङ्घजिद्-रङ्गतां
व्यालोक्यत निजाङ्गनावलिभिर् एष कालीयकः

1.13.29

[पृथ्वी]
[40] ततश् चासाव् उपस्कीर्ण-विकीर्ण-मूर्त्या स्व-पौरुषापूर्त्यानन्य-गतितास्फूर्त्या तत्-कारण-ककारणा-निवारणाय तं नारायणम् एव मत्वा शरणम् अमन्यत ।
[41] तद्-अङ्गनानां च-
न तावद् आर्द्रत्वम् अभूद् अमूषां
बहिर्मुखत्वं यद् अबोध्य् अमुष्य ।
दृष्टे तु भक्त्य्-अङ्कुर-जन्मनि स्फुटं
कृष्णं गतिं जग्मुर् अमूस् तद्-अर्थम्

1.13.30

[उपजाति 11]
काश्चित् कुमारान् अत्यर्थ-बालान् काश्चन ताश् तदा ।
काश्चिद् अण्डानि पुरतस् तस्य न्यस्य व्यनंसिषुः

1.13.31

[अनुष्टुभ्]
[42] हसति च भक्त-सान्त्वन-तृष्णे कृष्णे, तास् तु बहुधा स्तव-बुधा मृदाकुलाः पृदाकु-पत्न्यः सकाकु विज्ञापयामास । तत्र सङ्क्षेप-निक्षेपश् चायम्-
अस्त्य् एष स्फुरद-मतिः सदर्प-सर्पस्
त्वं विष्वग्-विद् असि तथा कृपाम्बुराशिः ।
अस्मासु त्वद्-अनुगतास्व् अमुष्य पत्नी-
भावश् चेद् अजनि यथा-यथं विधेहि

1.13.32

[प्रहर्षिणी]
दण्डं ते विदधतु ये स्व-सङ्ग-मात्राद्
दुष्टत्वं प्रशमयितुं न शक्नुवन्ति ।
त्वत्-स्पर्शाज् झटिति ह्रदोऽ पि सोऽ यम् औज्झत्
क्ष्वेडत्वं बलवद् अतीह नः समक्षम्

1.13.33

[प्रहर्षिणी]
मूर्खत्वं न इदम् अनुग्रहेऽ पि यस्मात्
त्वत्-स्पृष्टे स्फुटम् इह भाति दण्ड-बुद्धिः ।
दण्डश् चेद् अमुम् अपरैर् अदण्डयिष्यस्
तं कर्तुं कथम् अदधाः पदारविन्दम्?

1.13.34

[प्रहर्षिणी]
सत्-पुण्यैर् इह खलु कैस् त्वद्-अङ्घ्रि-पद्म-
स्पर्शोऽ यं परिवलते भुजङ्ग-राजे ।
दुष्पापैर् अपि बत कैर् अमुष्य देहस्
तद्-भावं द्रुत-मृति-लम्भाय वेत्ति

1.13.35

[प्रहर्षिणी]
तस्मात्-
शीर्ष-च्छेद्यस्य यः कृष्णः शीर्ष्णि कालिय-भोगिनः ।
अन्वगृह्णात् पद-न्यासाच् चिह्न-श्रेण्या गतिः स नः

1.13.36

[अनुष्टुभ्]
[43] अथ हीने तस्मिन् अहीने सदयं तद्-अनुमोद-मानः क्रोधं विनयमानः कृत-यशोदा-यशो-दानः स्वाङ्घ्रि-सङ्घट्टन-त्रुटितात् कालिय-निटिलाद् अवतीर्य नातिप्रकटित-वीर्यस् तस्यावग्-वक्त्रतया स्थितस्याग्रे क्षण-कतिपयं करुणा-व्यग्रेक्षणतयावतस्थे । अथ वनमाली कालिन्दीय-ह्रदम् इव कालिय-ह्रदं दायति स्म ।
[44] तदा सोऽ पि लीयमान-दोषतया तदीय-रोषं प्रोषितम् अकरोत्, वलिताञ्जलि-करो दर्वीकरो विज्ञापयामास च-
[45] यद्यपि वृजिन-गामिनो मम वृजिनम् एव स्वभावस् तथापि तु,
गुणो वा दोषो वा भवति मयि यः कृष्ण स भवद्-
वशस्थायी नित्यं मम तु कृति-साध्यं किम् अपरम्? ।
त्वद्-अङ्घ्रि-द्वन्द्वस्याश्रयणम् इति चेत् तच् च शिरसि
त्वया मे विन्यस्तं मम तु कृति-साध्यं किम् अपरम्?

1.13.37

[शिखरिणी]
[46] तस्मात् काम् अपि दिशं स्वयं एव माम् आदिश ।
[47] अथ स च सदेश-रूपम् इदम् आदिदेश, अहिपते, त्यक्त-दौर्जन्यतया धन्यस्यापि तव यस्माद् अहिता स्वयं जगद्-अहिता, तस्मात्-
नात्र स्थेयं त्वया सर्प समुद्रं याहि मा चिरम् ।
त्वं ज्ञात्य्-अपत्य-दाराढ्यो गो-नृभिर् भुज्यते नदी ॥[भ्प् 10.16.61]
द्वीपं रमणकं हित्वा ह्रदम् एतम् उपाश्रितः ।
यद्-भयात् स सुपर्णस् त्वां नाद्यान् मत्-पाद-लाञ्छितम् ॥[भ्प् 10.16 ।64]
रेफं विसृष्टं निर्मायाद् अवसाने पदान्तगम् ।
इति शासन-विज्ञानां मतम् एव मतं मम

1.13.38

[अनुष्टुभ्]
अधुना कालिय यस्मान् मत्-पद-कृत-लक्षणस् त्वम् असि ।
तद् अमुत्र च सम्भविता मत्-पद-कृत-लक्षणः स भवान्

1.13.39

[उपगीति]
[48] अथ दण्डवद् एव पतितः कुण्डलि-पतिस् तेन नखर-सुधाकराकर-कर-सरसिरुहं शिरसि निधाय सुधा-सिक्त-तनुतया नीरुग् निरमायि ।
[49] एतद्-अनन्तर-लीला तं पूजयामास [भ्प् 10.16.65] इत्य् आदिकं श्री-शुक-वचनम् अनूद्य, महत्त्वं च इत्य् आदिना विशद्यते ।
तं पूजयामास मुदा नागः पत्न्यश् च सादरम् ।
दिव्याम्बर-स्रङ्-मणिभिः परार्ध्यैर् अपि भूषणैः ।
दिव्य-गन्धानुलेपैश् च महत्योत्पल-मालया ॥
पूजयित्वा जगन्नाथं प्रसाद्य गरुड-ध्वजम् ।
ततः प्रीतोऽ भ्यनुज्ञातः परिक्रम्याभिवन्द्य तम् ॥
सकलत्र-सुहृत्-पुत्रो द्वीपम् अब्धेर् जगाम ह ।
तदैव सामृत-जला यमुना निर्विषाभवत् ॥[भ्प् 10.16.65-68]
कृष्णं ह्रदाद् विनिष्क्रान्तं दिव्य-स्रग्-गन्ध-वाससम् ।
महा-मणि-गणाकीर्णं जाम्बूनद-परिष्कृतम् ।
उपलभ्योत्थिताः सर्वे लब्ध-प्राणा इवासवः ॥[भ्प् 10.17.13-4] इति ।
महत्त्वं च परार्ध्यत्वं चात्र दिव्यत्वम् उच्यते ।
दिव्यत्वं तेषु कृष्णस्याप्य् अङ्गे देदीप्यमानता

1.13.40

[अनुष्टुभ्]
अतोऽ स्यामूनि नित्यानि स्थितान्य् अरुणजा-ह्रदे ।
तेषु कौस्तुभ-नामा तु मणिः कृष्णे विराजते ।
नक्षत्रेषु सदा पूर्ण-चन्द्रवत् पूर्व-पर्वते

1.13.41

[अनुष्टुभ्]
जगन्नाथं च यत् प्राह तथा तं गरुड-ध्वजम् ।
तत्राश्चर्यं न चाचर्यं द्वारकायां हि विश्रुतम्

1.13.42

[अनुष्टुभ्]
काद्रवेयस्य देवाभ-नाना-शक्ति-विधारिणः ।
वर्त्मास्य सुर-वर्त्म स्याद् इति युक्त्यावगम्यते ।
अन्यत् तु जीव-पीडाय तत् कथं कृष्ण-संमतम्?

1.13.43

[अनुष्टुभ्]
वारि-लीला-परामर्शः स्पर्शश् चाघरिपोर् यदा ।
तदैषामृत-तुल्यासीद् यमुनेत्य् अवगम्यते

1.13.44

[अनुष्टुभ्]
कृष्णस्याक्लिन्न-वेशत्वं कालियेनोपवाहतः ।
अकस्माद् दर्शनं यत् तन् नागालि-परिवारितः ।
तस्मात् कृष्णं ह्रदाद् इत्य् आद्य् उक्तं युक्तं प्रकाशते

1.13.45

इति । [अनुष्टुभ्]
[50] तन्-निर्वऋनने विशेषस् तु वर्ण्यते,
कोलाहलस् त्वरितता विवशाङ्ग-चर्या
कम्पः स्खलद्-वचनता स्रवद्-अस्रता च ।
वीक्ष्यादि-तृप्ति-परिहानिर् इति व्रजस्थाः
सौख्येऽ पि दुःखम् अगमन् प्रतिलभ्य कृष्णम्

1.13.46

[वसन्ततिलका]
आगतोऽ यम् इति केवलं मुदा
स्फूर्ति-पूर्तिर् अभवद् व्रजौकसाम् ।
हन्त येन न वपुर् न वा मनः
किञ्चिद् अञ्चितुम् अवाप शक्तताम्

1.13.47

[रथोद्धता]
ततश् च-
स्तम्भः सन्धिषु बन्धनं पुलकितासान्द्र-व्रणाभ-स्थितिर्
बाष्पः स्रस्त-विलोकनः स्वर-भिदा कण्ठान्तर-स्तम्भिनी ।
कम्पः पातवद्-अन्त-दन्त-वलयः स्वेदस् तनु-द्रावणः
स्याद् एवं कृत-वीक्षणं स्व-सुहृदां व्यग्री-बभूव प्रभुः

1.13.48

[शार्दूल]
[51] अथ प्रथमत एव प्रथमतः स्थिताः समान-वयसः सवयसस् तस्मात् तम् उत्तीर्णं निर्वर्ण्य विस्तीर्ण-तद्-वर्णामृत-भृत-नयनतया स्थिताः क्रमतस् तद्-अङ्ग-सङ्ग-रङ्ग-भूमिताम् इतास् तद्-आलिङ्गन-रिङ्गत्-सुख-तरङ्गतां गता न तावत् प्रतिस्वम् अयम् अहम् अस्मीति तस्मिन् न्यवेदिषुः ।
[52] यद्वद् एतांस् तद्वद् एव श्रीमन्-नन्द-जन्मा क्रम-भजन-सम्माननया जननीं जनकं सुहृज्-जनताम् अपि जनितानन्दान् जनयामास, यतस् तत एव ते सर्वे स्तब्ध-देहा लब्ध-सुख-देहा बभूवुः । [53] अहो, यदि सत्य-वचसस् ते नावदिष्यंस् तदा तद् इदं वा कः प्रतीयात्? यत् खलु गावश् च मृगाश् च तद्-आगमनं मृगयमाणा व्रज-जने चाभेदम् आययुः, यच् च नगा अपि तद्-दुःखतः शुष्क-चराः सम्प्रति पुष्कल-सुखास् तत्-काल-कलित-पल्लवादिभिः प्रफुल्ला बभूवुर् इति । तत्र च-
सुहृल्-लोका ये ये सुर-रिपु-जिता यर्हि मिलितास्
तदा सत्यं सर्वे समयुर् अभितः प्रीतिम् अतुलाम् ।
यदा तु श्रीमाता सपदि मिलिता प्रेम-विवशा
तद् आस्तां तद्-वार्ता, सकल-जनतागाद् द्रव-दशाम्

1.13.49

[शिखरिणी]
[54] अथ रामं स्वीय-प्रभाव-भावनारामतायाम् अप्य् अन्तर् व्रज-जन-दुःखतः शुष्कं, तादृशतायाम् अपि बहिर् लम्भित-गम्भीरता-भृद्-उपालम्भ-सम्भवद्-विकाश-हासं हसन्न् एव नमस्कुर्वन्न्, आत्मन्य् आलिङ्गनं लम्भयंश् च चिरं तद्-उत्सङ्ग-सङ्गी बभूव ।
[55] अथ तत्र जनानां विमर्शः,
हरेर् एषा प्राप्तिर् यदि भवति निद्रावकलिता
तदा शोकोऽ प्य् एष स्वयम् अयति तत्रैव तुलनाम् ।
असौ जाग्रद्-भूता स्फुरति यदि वा तर्हि नितराम्
अभीष्टं सम्पन्नं कथम् अपि न शर्म-प्रतिहतिः

1.13.50

[शिखरिणी]
[56] अथ सर्वत एव निध्यानाय नष्ट-निध्य्-आप्तिवत् कृष्णं मध्ये निधाय परितश् चरित-निवेशेषु परिधि-वेशेषु खर्वित-व्रीडेषु व्योम-चारिणां लोचन-क्रीडेषु सर्वेषु स्त्री-पुंसानां खर्वेषु प्रथम-प्रथित-भावि-भविका ब्रह्म-विदः सम्प्रत्य् अपि तं प्रत्य् आशिषां कृत-दाना व्रज-पतिं प्रत्य् उपालम्भमानाः प्रत्याययामासुः । यथा-
श्री-नन्द-राज तनयस् तव सर्व-शत्रु-
मर्दीत्य् अभासि मुहुर् अप्य् अलम् अस्मकाभिः ।
प्रेम्णा तथापि निखिलं बत हन्तुम् ऐच्छः
पुण्येन केवलम् असौ द्रुतम् आजगाम

1.13.51

[वसन्ततिलका] इति ।
[57] तद् एवं शोकेन हर्षेण कालम् अजानति व्रज-लोके रजनिर् अजनीति तत्रैव क्षुत्-तृष्णाति-क्रमि-कृष्णातिक्रम-खेदेन कृशतां गताः प्रत्यूषं यावद् ऊषुः । तत्र च सर्वाम् एव शर्वरीं व्रजोर्वीश-पत्नी सपत्न-शङ्कया सुतम् अङ्कत एव निवेशयन्ती परमावेशेन मुहुर् अपि तन्-मुख-निरीक्षण-सुख-सक्षणापि तद्-वृत्त-स्मरणेन तस्माद् विलक्षणा प्रभातम् आससाद । हन्त हन्त क्षुद्वन्तं तम् अपि गवां दुग्धम् अपि दुग्धं विधाय न पाययामास, सत्यं सर्वम् अत्रत्यं विष-सकलङ्कम् इति शङ्कया ।
[58] रात्रौ पुनर् अन्यद् अपि चरित्रं धन्यं जातम् । यदा कालियस्य कालिन्दी-जलान् निष्कलनम्, तत्-कालत एव गूढ-पुरुष-मुखात् परुषतया कलितवांस् तदा स दुर्जन-वतंसः कंसश् चिन्ता-सन्तत-स्वान्तया निरीह इवासीत् । [59] चिन्ता यथा, हन्त, हन्त! सन्ततम् अस्माकम् एव वीरास् तस्माद् उन्मन्थम् आगच्छन्तः सन्तीति दुष्कीर्ति-वह्नि-मुख-पिशाचि-मूर्तिर् अतीव हसन्ती हसन्तीव मदीयान् ज्वलयन्ती त्रिभुवनम् अयन्ती च नरीनर्ति । [60] हंहो बलीयान् अपि कालियः सपदि विलीयमान-बलतां वलते स्म । तस्य तद् इदं निर्वासनं निर्वासनम् एव च मन्यामहे, यतो वयम् अपि निर्वासनतां गताः । तस्माद् अधुना तथा विधेयं, यथास्मदीयानां नापचारस् तस्य चापकारः स्यात् इति ।
[61] तदानीम् एव चान्यतः स व्रज-राजात्मज-व्रज-वासिनां तरणिजा-तीर एव वासम् आकर्णयन्न् अभ्यर्ण-गतान् आज्ञापयामास, भवन्तस् तत्र प्रविशन्तः समन्ततः प्रवलतया ज्वलनं प्रज्वलनम् आचरन्तः स्वयम् अन्तर्धानम् आचरन्तु ।
[62] ततश् च तेषु तथा-कृत-चरितेषु विपोलति तु दवानले शीघ्रं पलायितेषु तेषु च सर्व एव व्रज-भवनाः स्नेह-वृत्त-लब्ध-सम्भावनाः साग्रजं व्रज-राज-तनूजम् एवाव्रज्य विज्ञापयामासुः-
शङ्कामहे न मृत्योश् च न च कृच्छ्र-प्रवाहतः ।
किन्तु त्वन्-मुख-चन्द्रांशु-दर्शनाभाव-वैशसात्

1.13.52

[अनुष्टुभ्]
ततश् च-
हरेः फुत्कार-मात्रेण निर्ववौ दव-दीपकः ।
उत्प्रेक्षन्ते तु मुनयस् तस्य तत्-पान-कर्तृताम्

1.13.53

[अनुष्टुभ्]
[63] तद् एवम् अहितेन य उपाहित उपाहितस् तस्मिन्न् अपवाहिते सर्व एव त्राण-प्राणाः प्रभाते च प्रभाते, तत्-प्रभावत एव यथावस्थितं व्रजं व्रज-वासिनः सानन्दं तम् अन्व् अविन्दन्त । किन्तु तस्मिन्न् एव मधुरता-कलिले कालिन्दी-ह्रद-सलिले सङ्कर्षणेन कृत-कृष्णाकर्षणेन विहरता सखिभिर्, अखिलं सह-धवला-व्रजं व्रजम् अपि समाहरता यदा बहलं कुतूहलं जातम्, तदा तेन गृहाय गमनम् अनुज्ञातम् ।
[64] तथा च गमनं यथा-
वाद्यैर् नृत्यैः प्रगीतैः श्रुति-शिव-पठनैर् दिव्य-भौम-प्रसून-
प्रवृट्-कल्पाभिवर्षैर् जय-जय-निनदैः शर्म-कोलाहलैश् च ।
कृष्णं मध्ये विधाय प्रकटतर-महानन्द-निर्व्रीड-भावान्
नृत्यन्तस् ते व्रज-स्था व्रजम् अभिविविशुः खं यथा ज्योतिरोघाः

1.13.54

[स्रग्धरा]
[65] तद्-अनन्तरं च धवलाः परतश् चालयित्वा तत्-पूर्व-काल-पालकासद्भावेऽ पि श्रीमतां तत्र-भवताम् एषां प्रभावेण तत्रोदपात्र-मात्रं न विकल्पम् आगाद् इति स्वल्प-परिभवायाप्य् अकल्पमाने समस्त-व्रजे यातयामम् अपि यातयामतां नागतं तद्-घृत-पक्व-प्रचुरान्नम् इति सद्यस्तनम् इव राम-पर्वणि पूर्वाह्नेतनं गृहान्तः-सङ्गृहीत-जेमन-सामग्री-समुदयं सर्व एव ताव् अग्रजानुजाव् अग्रतो विधायाव्यग्रं सम्यग् रसयामासुः ।
[66] तद् एवम् उद्घटित-गीः-कण्ठः स मधुकण्ठः समापयामास-
ईदृशस् तनयो जातस् तव व्रज-नराधिप ।
कंसादीन् दमयामास कालिय-दमनेन यः

मूल पाठ: Gopālacampū, P1-33, U1-3, U5-6, U29 · Edition: Puridasa (1947). · Data entry Jan Brzezinski · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc