भाषा

ENहिગુ
ग्रंथ पाठ

गोपालचम्पू · अध्याय 1.12

1.12.1

[अनुष्टुभ्]
[57] तद् एवं कथकयोः कथां प्रथयित्वा सभ्येषु साक्षाद् इव कलित-तत्-तत्-केलि-सन्धयोः कृताञ्जलि-बन्धयोस् तद्-दिनेऽ पि पूर्ववद् एव सर्वे गृह-वर्त्मनि वर्तमाना निज-निज-स्पृहणीयं कर्म निर्मिमाणा अपि ताम् एव लीलां बृंहितां हृदि जगृहिरे ।
इति श्री-श्री-गोपाल-चम्पूम् अन्व्
अघ-ब्रह्माघ-मोचनम् नाम
एकादशं पूरणम्
॥11॥
(12)
अथ द्वादशं पूरणम्
गोचारण-प्रचारणं
[1] अथ परेद्यवि च कथा प्रथते स्म, [2] यथा स्निग्धकण्ठ उवाच-यद्यपि कालेनाल्पेन [भ्प् 10.8.26] इत्यादि-रीत्या वर्ष-त्रय-त्रय-पर्यायेण तयोर् वयो-गणना निर्णीता, तथापि कौमारं तु वर्षम् एकम् अधिकम् अधिरूढम्, बाल-वत्सानां श्रीवत्स-वत्सस्य च मिथो वत्सर-विरह-मयानुल्लासेन व्यतीत-क्षण-मय-संवत्सर-काल-बाल-वत्सानुरोधेन वा तस्य स्तब्धीभावात् । [3] ततस् तद्-भावानुगामितया रामस्य च तथा वृत्तं सुतराम् एव वृत्तम् । तद्-अनन्तरम् अखण्डं पौगण्डं तु वर्ष-द्वयेनैवापूर्यत, चिराल् लब्ध-बन्धु-संवासेन सम्यग् उल्लासेन झटिति कैशोर-घटनात् । तथा च प्रथां करवाम धेनुक-वधावम-धाम-गमनान्ते । तद् एवम् एव सङ्गच्छते कालेनाल्पेन इत्यादि ।
तावद् एवात्मभूर् आत्म-मानेन त्रुट्य्-अनेहसा ।
पुरोवद् आब्दं क्रीडन्तं ददृशे सकलं हरिम् ॥[भ्प् 10.13.40] इति ।
ततश् च पौगण्ड-वयः-श्रितौ [भ्प् 10.15.1] इत्यादि च ।
[4] अथ प्रकृतम् अनुसरामः । तद् एवं विहरतोः सर्वेषां मनो हरतोर् अनयोः पञ्चमं वर्षम् अञ्चत् कौमारतः पार-भूतं वयः समयाञ्चक्रे । यथा-
ऐषमोऽ भवद् असौ परुत् परार्य्
एवम् आदि निखिलैर् यदागणि ।
हन्त तर्हि सहसा बकान्तकः
प्राप्त-कान्ति विजहौ कुमारताम्

1.12.2

[रथोद्धता]
उद्गच्छद्-बुद्धि-शक्ति-प्रथम-रुचि-जयि-श्यामता-शुभ्रता-युक्
किञ्चिद्-विस्तीर्ण-वक्षः-प्रभृति वलयितायाम-नेत्रादि-गात्रम् ।
केशं वेशं च पूर्वाद् अधिक-मितिम् अयत् केलि-शिक्षा-प्रवीणं
पौगण्डं प्राग् अचण्डं स्फुरद् अलम् अनयोर् मां दिदृक्षुं करोति

1.12.3

[स्रग्धरा]
[5] तदा च कदाचिच् छ्री-व्रज-राज्ञी सभान्तः प्रातर् आयाता श्रीमद्-अभिनन्द-पत्नी सयत्नी-भवन्ती तां पप्रच्छ-यातः कृष्ण-मातर्, अद्य सद्यः प्रातर् एव कुत्र वा भवज्-जातः प्रयातः?
[6] व्रज-राज्ञी तु स-हासम् आह स्म-हन्त, तद् एतद् वर्तमान-समय-पर्यन्तं तस्योद्वर्तन-स्नान-परिधान-मयानि कर्माणि मया निर्मीयन्ते स्म । सम्प्रति मद् अपि लज्जाम् आसज्जन् स्वक-सवयः-सेवक-प्रियः पृथग् एव कृत-तत्-क्रियः स मा समया समायाति । आगत्य च प्रत्यहं मां पितरं यथा-यथम् इतरं च गुरु-जनं पुरु-गौरवेण नमस्कारेण पुरस्करोति । [7] किं च, तद्-अवधि यदा सन्ध्यायां मया ध्यायमानागमनं सह-वत्सः समागच्छति, तदा तद्-उपरि वारि वार-त्रयं भ्रमयित्वा पिबन्ती भवामि स्म । सम्प्रति तु, स-शपथम् एधमान-यत्नवता तत्-प्रतिषेधता तेन मम हस्तौ विहस्तौ क्रियेते । एवम् एव रौहिणेयश् च इति । तद् एतद् अर्वाचीनं तद्-वर्णनम् अपूर्वतयाकर्ण्य तन्-मुखं निर्वर्ण्य सर्वा हसन्ति स्म । [8] सा पुनर् उवाच-तद् एतद् अबाल्यम्
इव च तस्यासमय-मयत्वाद् बाल्यम् एव मत्वा सुखम् उपलभामहे, अनेन तु दुःखाक्रियामहे ।
[9] सर्वाः साशङ्कम् ऊचुः-हन्त, किं तत्?
[10] सा प्राह-स्वयम् अचिराद् एव गवां विचारम् अन्तरा चिचारयिषितं यत् ।
[11] सर्वा ऊचुः-नात्राप्य् अन्यथा मन्यस्व । गोप-कुल-तिलकायमान-बालकानां स एष एव स्वभावः सर्वत्र नाभावम् आसीदति । किम् उत तेष्व् अपि परम-चित्र-चरित्रस्य तस्य इति ।
[12] अथ व्रज-राजस्य सदस्य् अपि तस्य वृत्तम् इदं वृत्तम् आसीत् । यथाह स्म स-स्मितं समासन्नौ सन्नन्द-नन्दनौ नन्दित-समाजः श्रीमन्-नन्द-राजः-भोः आयुष्मन्ताव्, अद्य-जात इव युष्मद्-भ्रातृ-जातः स यथा सम्प्रति युवां प्रति वर्तते, न तथा माम् इति लक्ष्यते । यतः किञ्चित् सङ्कुचित-विलोचनेन माम् अवलोचयन्न् आलोच्यते । युवाभ्यां सह तु मधुर-वार्तां वर्तयन्न् एव दृश्यते ।
[13] सन्नन्द उवाच-साम्प्रतम् एवेदं, यतः साम्प्रतं तत्र-भवता तत्र शिक्षा-मय-वीक्षा गाम्भीर्यम् आचर्यते । आवाभ्यां तु कौमार-कालीनेऽ पि तस्मिन्न् अतिशालीने विधेयतया पर्यालोचितुं न पार्यते । [14] पाश्य पश्य
प्रथमं नमम् इह मातरम् अथ पितरं त्वां तथैवास्मान् ।
प्रत्यूषः प्रतिसुहृदं सत्-कुरुतेऽ साव् अतीव बाल्येऽ पि

1.12.4

[उद्गीति]
[15] अथ क्रमागतेषु वत्सलतया समान-मतेषु तद्-आकर्णनार्थम् अकिञ्चिद्वादिषु श्रीमद्-उपनन्दाभिनन्दादिषु तद्-वर्ण्यमानम् अन्य-मुखाद् आकर्ण्य सानन्द-विकसित-मन्द-हसित-भ्राजिषु पुनः सन्नन्द-नन्दनौ प्रति श्री-व्रज-राज उवाच-भवन्ताव् एकान्तम् अनुभवन्ताव् अनुगम्य तौ रम्य-कातराक्षि-प्रान्ताव् असकृत् प्रातर् आरभ्य प्रार्थितवन्ताव् इव ह्यः पूर्वेऽ ह्नि समन्ताद् भ्रातराव् अतिदूराद् अदृक्षाताम् । तत् किम् उच्यताम्?
[16] नन्दन उवाच-तदानीम् एवेति किं वक्तव्यम्? किन्तु चिराद् एव तयोस् तद् अभिरुचितम् उपचितम् अस्ति । सङ्कुचित-भावाभ्याम् आवाभ्यां तु भवत्सु न श्रावितम् ।
[17] व्रजराज उवाच-किं तत्?
[18] सन्नन्दः सस्मितम् उवाच-स्वयम् एव गवां सेवनम् इति यत् ।
[19] उपनन्द उवाच-किम् ऊचतुस् तौ?
[20] सन्नन्द उवाच-आवयोः प्रथम-वयोऽ तीतयोस् तात-चरणानां स्वयं गोचारणम् अनाचारताम् आचरति इति ।
[21] तद् एतद् वर्ण्यमानम् आकर्ण्य तयोर् मुखं निर्वर्ण्य स-विस्मयं तूष्णीम्भूष्णुतया विराजमाने व्रजेशाने सर्वेऽ पि तम् ऊचुः-यद्यप्य् अद्य-जाताव् इव सुजाताव् अमू, तथापि क्रमं विना बुद्धि-निष्क्रमस्य बल-संवलनस्य च सद्-भावाद् अस्माकं विस्मायकाव् एव भवतः । इतस् तु न विस्मायकौ भवतस् तपः-प्रभाव एव खल्व् एवं भावम् आवहतीति । न खलु तत्-तत्-खलानां यत् परिमलनं जातम्, तत्र सहायतानां सहायता काचिद् अपि परिचिता । तस्मान् मङ्गलम् एव सङ्गतं भविष्यति इति ।
[22] अथ तदा कदाचिन् निज-गृहिण्यापि सह रहसि श्री-व्रज-राजस्य स एष प्रस्ताव-विशेष आसीत्-यत्र च तौ पुत्र-प्रेम-यन्त्रिततया तद् एतन् मन्त्रितवन्तौ, पश्यामः समय-विशेषम् इति ।
[23] तदा च दिन-कतिपयानन्तरं सभायां भासमानायां श्री-व्रज-राजस्य वैलक्ष्यम् आलक्ष्य सर्वेऽ नर्वाचीन-गोपा मिथो निरीक्ष्य हसन्ति स्म । [24] तत्र च श्री-व्रज-राजे कथं कथम्? इति स-स्मितम् उक्तवति वदन्ति स्म, यद् अस्माभिर् अकस्माद् विस्मायनम् अनुभूतम्, तद् एव भवद्भिर् अपीति सम्भाव्यते ।
[25] व्रज-राज उवाच-कथ्यतां तावत् तथ्यं भवद्भिः ।
[26] सर्व ऊचुः-यद्यपि चिरत एवेदं चरितम्, तथापि भवतापि गोचरितेन गोचरितेनातीव रचितम्, यत् खलु सर्वं गो-जातम् न तु भवज्-जातम् अन्तरा पदम् अपि पदः प्रददाति । कथञ्चित् तेनैवाग्रावस्थितेनाद्य ताः प्रस्थापिताः सन्ति ।
[27] व्रजराज उवाच-तद् इदम् अकस्मात् कथं जातम्?
[28] सर्व ऊचुः-भवत्-पुत्रः कुत्रचिद् यत्र स्नेहं व्यञ्जयति, तत्र सर्वत्र चैवं दृश्यते ।
[29] व्रज-राज उवाच-तर्हि किम् अगर्हितम् अर्हितं स्यात्?
[30] सर्व ऊचुः-यत्र गत्य्-अन्तरं नास्ति, तत् खल्व् अनन्तरम् एव विधातुं युक्तम् । यत् तु तत्र-भवन्तस् तत्र भीतायन्ते, तत् पुनर् वत्स-पालनेऽ पि न तुच्छायते । किन्तु भवत्-तप एव प्रतपति प्रतीपान् इति प्रतीयते । तस्माद् भवताद् भवताम् अनुज्ञा, या परम्परयापि परं परम् अप्य् अमङ्गलं तार-यिष्यति ।
[31] अथेदम् आकर्ण्य निर्वर्णनत एव ज्ञापितानुज्ञा-निज-समाजे श्रीमन्-नन्द-राजे सर्वानुमति-लब्धानन्दः श्रीमान् उपनन्दः प्रथित-समज्ञान् समय-ज्ञान् जिज्ञासयामास । तैर् अपि बुध-श्रवण-सुख-प्रद-मङ्गल-श्रवण-सङ्गत-बुध-श्रवण-विशिष्ठायाम् अबहुल-बाहुलाष्टम्यां बहुला-पालनं बहुलम् एतद् इष्टम् इत्य् आदिष्टम् । [32] श्रीमन्-नन्दादयश् च सर्वे दुन्दुभि-निर्घोषेण घोषे तस्मिन् निर्विशेषम् अहस्-त्रितयम् अहमहमिकया महः प्रचारयन्तस्, तद्-वत्स-चारण-बृहद्-उत्सवम् अप्य् अतिचरन्तस् तत् समाचरन्ति स्म ।
एकस्यैकस्य चेद् वक्तुर् वक्त्राणि स्युः सदायुतम् ।
तदा तद् वक्तुम् इच्छन्तु यद्य् आयुः सर्वदायुतम्

1.12.5

[अनुष्टुभ्]
[33] दिग्-दर्शनं तु यथा,
गोपालोचित-नव्य-वेष-वलनै रक्षा-विधानैर् द्विजाद्य्-
आशीभिः सुदिनाह-लभ्य-रचनैर् व्रज्यार्ह-नीराजनैः ।
सङ्गानान्वित-वाद्य-नृत्य-निकरैः शश्वज्-जयाद्य्-आरवैः
श्रीमान् गोप-महेन्द्र-सूनुर् अगमद् रामेण धेनूर् अनु

1.12.6

[शार्दूलविक्रीडित]
[34] तद् अनु गति-रीतिर् इतीव च गन्तव्या-वाद्य-गीत-मङ्गल-परीतं पुरोधसः पुरोधाय धेनूः सन्निधाय ताश् च पाद्यादिभिर् अर्चिता विधाय मधुर-ग्रासैस् तासां समग्राणां तृप्तिम् आधाय तासु नति-प्रभृतिभिर् मानम् उपधाय पुनश् च प्रदान-दक्षिणाभिः पुरोहितादीन् अक्षीणानन्दान् सन्धाय, श्रीमत्-पितृ-चरणादीन् मञ्जुलाञ्जलि-वलितम् अग्रतो निधाय स्थितवति साग्रजे तस्मिन्न् अवरजे, श्रीमांस् तत्-पिता व्रजराजस् तावन् मणि-मय-लकुटिं तत्-करे घटयामास । श्रीमती तन्-माता च व्रज-राज्ञी भाले तिलकं निदधे, निधाय च सा-
राम प्राग् अस्य पश्चाद् भव सुबल युवां श्रील दामन् सुदामन्
दोः पार्श्व-स्थौ भवेतं दिशि विदिशि परे सन्तु चात्मीय-बन्धोः ।
इत्थं हस्ते विधृत्य प्रतिशिशु दिशती तत्र कृष्णस्य माता
तत्-तत्-कर्माधिकार-श्रियम् अपि ददती नेत्र-नीरैर् असिक्त

1.12.7

[स्रग्धरा]
[35] अथ रोहिणी-बृंहित-शुचि-सम्पद्-उपनन्द-गृहिणी-संहित-महित-महिलाभिः सहितं यथायथं सङ्गमिते नाना-मङ्गले, भुवि दिवि च महा-मह-बहल-कुशल-कुतूहलम् अनु, मातरं पितरं कांश्चिद् अन्यांश् च नमस्कृत्य, कृत-कृत्यतया जिहि-जिहि-कारेणेरिताश् च गावः स्वाभिमुखम् एव स्थिता न प्रस्थितवत्य इत्य् अनुपपत्त्या प्रत्यासन्नान् गुरून् परावर्त्य, तासाम् पुरत एव स-बल-सखः स प्रस्थितवान् । प्रस्थितवति च तत्र श्याम-वर्णे तर्णकाग्रिमता-निर्वर्णनेनेव मन्दं मन्दं गच्छन्तं गावस् तम् अन्वगच्छन् ।
[36] तद् एवं श्री-कृष्ण-रामाव् एताव् अथ स्वानुगमन-कमन-मनस्कान् जनान् कथं कथम् अपि ततः पथः श्लथयित्वा, स्वात्मानम् अपि तल्-लोचन-शृङ्खला-मोचनान् मोचयित्वा, सखिभिर् अप्य् अखिल-विलम्बि-ललितैर् नव-गोप-महसोपवलितैः सह सहसा हसन्तौ लसन्तौ चाराय मध्ये मध्ये स्तब्ध-निखिल-गवीकौ लब्ध-मनो-गवीकौ सुवलित-चलितं गोवर्धन-दिशम् उद्दिश्य चलतः स्म ।
[37] यत्र गावः सङ्केतित-स्वरादि-विशेषेणैव मिथः सङ्कीर्णा विकीर्णाश् च भवन्ति स्म, न तु दण्डेनोपघातं विशीर्णाः क्रियन्ते स्म । यत्र च सखिषु ताभ्यां सह परस्परं मण्डयन्तेषु नन्दयन्तेषु क्रीडा-जनयन्तेषु च परम-कौतुकम् आविर्भवति स्म ।
[38] तद् एतन् निर्वर्ण्य देवैर् वर्णितं यथा-
प्रत्येकं गाव एता बहिर् अपि च हरेः प्राण-रूपा यद् आसां
शश्वत् तृप्तौ च तृप्तिं क्षुधि च कलयति क्षुद्-विकारं स एषः ।
आनीयानीय चैता निजहृदि विदधद् घ्राण-सौख्यं दधानः
श्लिष्यन्न् उच्चैर् विचिन्वन्न् अशनम् उपददत् पालयन् स्वेन भाति

1.12.8

[स्रग्धरा]
उस्राणां प्राण-साम्यं वहति हरिर् अमूस् तं विना रिक्त-चित्ताश्
चित्र-प्रायाः समन्ताद् यद् इह वन-तति-श्री-निभा विस्फुरन्ति ।
तल्-लाभाद् घ्राण-दृष्टि-श्रवण-सरसन-स्पर्श-योगाद् वलन्ते
किन्तु स्याच् चित्रम् एतद् बहिर् उपवलितं तेषु तं स्वादयन्ति

1.12.9

[स्रग्धरा]
आहूतं कुरुते हरिः सखि-जनं, सोऽ प्य् एनम् एवं तथा
वक्ति श्लिष्यति जिघ्रति प्रहसति स्कन्धं स्पृशन् कर्षति ।
आस्तां तच् च महाद्भुतं शृणुत भो यद्य् अन्तरं तर्क्यते
नैवात्मा पृथग् अस्य तस्य च भवेद् इत्य् एव विज्ञायते

1.12.10

[शार्दूलविक्रीडितम्]
वदति सखि-समूहः कृष्ण-रामाव् इतीदं
क्वचिद् अपि विनिमाय प्राह तत् तच् च युक्तम् ।
कलयत यद् इमाव् अप्य् आत्मनः स्थान एव
स्फुटम् इह विदधाते यन् मिथस् तत्र तत्र

1.12.11

[मालिनी]
[39] अथ तद् एवं च स्थिते, पूर्वत एव तदीय-विमल-परिमल-माधुरी-धारा-नन्दित-विदूरग-वृन्दावन-स्थिर-चर-जीवावलीभिर् जीवातुतयाजीव्यमानौ, सम्प्रति तु सर्वा एव ता देवता-पूर्वाः परमापूर्व-दर्शन-स्पर्शनादिभिर् लब्ध-पर्वणः कुर्वाते स्म । [40] याः खलु सर्वातियायि-सुख-दायितयान्येषाम् अपि पुण्याय पुण्य-फलाय नैपुण्यम् आसेदुः । [41] तत्रैव च सर्व-सुख-शंसिनी वंशी सर्वम् आत्मानं च कृतार्थतां प्रापितवती । यतः-
न तद् वनं यन् न विहार-मङ्गलं
नायं विहारः शुभ-गीत-भृन् न यः ।
गीतं न तद् यन् न हि वंशीकाकृतं
वंशी न सा कृष्ण-मुखानुगा न या

1.12.12

[उपजाति 12]
[42] तद्-दिने तु कान्तः सोऽ यं वृत्तान्तः कर्णान्तः क्रियताम्-
उदीर्ण-मुरलीकलः स्व-गुण-गातृ-गोपावृतिर्
बलेन सहितः स्फुरद्-विविध-माधुरी-विस्तृतिः ।
रसार्द्रम् अनिश-स्मितं तद्-अतिहार्द-भाजां गवां
हितं स्वजन-चित्तवद् वनम् अथाविशन् माधवः

1.12.13

[पृथ्वी]
[43] स च नितान्त-प्रिय-जन-भानः काननान्तः-सार-सरस-गन्ध-सरस-सुगन्ध-गन्ध-वाह-वाहित-नव-पल्लव-पाणिभिः स्फुरन्-मधुर-सखि-ततिं मधुपतिम् आलिङ्गन्न् उतसङ्ग-सङ्गिनं विधाय, स्वानुव्रत-मधुव्रत-खग-मृग-मञ्जु-गुञ्जितादि-व्यञ्जनया खेलितुम् इव प्रोत्साहयामास ।
[44] ततश् च कौतुक-विशेष-लम्भनाय व्रज-राज-तनूजः स-स्मितम् ईक्षमाणः स-विस्मयवद् उत्प्रेक्षमाणश् च निजाग्रजं प्रति सादर-नर्म-गन्ध-प्रबन्धि-वन-वर्णनं निर्ममे, यथा-
नूनं भवान् विश्व-पतिर् नमन्ति यद्
बलिं गृहीत्वा तरवः पदं तव ।
पश्य प्रसूनादि-शतेन तन् नत-
प्रवाल-शाखा-शिखया स्पृशन्ति ते

1.12.14

[उपजाति 12]
त्वं राजसे देव वनेऽ त्र साम्प्रतं
वयं न पश्याम तथापि तामसाः ।
इतीव चक्षुष्मति जन्म-लम्भनं
वृक्षा वृणानाश् चरणं तवाश्रिताः

1.12.15

[उपजाति 12]
गायन्ति त्वां षट्पदाश् चानुयान्तः
श्री-रोहिण्याः पुत्रम् अन्तर्हितं च ।
इत्थं मित्राण्य् आहुर् ऊहेऽ हम् एवं
सर्वेशस् त्वं न त्व् अमी सन्-मुनीशाः

1.12.16

[शालिनी]
सुरम्यं नृत्यन्ति प्रमद-शिखिनः स्नेह-वलितं
हरिण्यः पश्यन्ति स्फुट-मृदु-कलं बिभ्रति पिकाः ।
नटा रामाः सूक्त-प्रपठन-विदः कानन-सदाम्
अमी धन्या यस्माद् विदधति तवाराद् अतिथिताम्

1.12.17

[शिखरिणी]
अङ्घ्रिस्पर्शैर् धरित्रीगिरितृणसरितस् ते नखश्रेणिलेख-
श्रीमच्-चित्रैर् विचित्र-द्रुम-समुदयग-द्योत-वीरुद्-विभेदाः ।
स्निग्धेक्षाभिश् च धन्या मृग-विहग-गणा वक्षसः सङ्ग-लाभाद्
एषा तत्रापि गोपी-व्रततिर् अतितरां यत्-स्पृहा सापि लक्ष्मीः

1.12.18

[स्रग्धरा]
पितृव्यान् मे क्षत्राद् अवतरणम् आप्तः स तु भवान्
पितुर् गोपेशस्यात्मज-पदम् अगाद् धर्म-विधिना ।
अतस् त्वं गोपीनां परिणयनम् आप्तासि तद् इयं
लता गोपी-नाम्नी तव हृदय-लग्ना प्रथयति

1.12.19

[शिखरिणी]
[45] अथाग्रजश् चानुज-वाचम् अमृतम् इवाचम्य स्मितम् आचरन्न् उवाच-भवादृश एव तादृश-गुण-गण-भाग् ईश्वरः कथम् अन्यं तत्र गण्यं करोति? इति ।
[46] तद् एवम् अखिल-सखिभिः सह हसन् नर्मणा तेषां शर्म स्फुटम् उत्तम्भयन्, श्रीमद्-वृन्दावन-वन-शोभाम् अपि स्वम् इव तान् उपलम्भयन्, पशून् अपि मानस-गङ्गा-रोधांसि लम्भयन् स्वयम् अप्य् अयम् अतितरां रेमे । तच् च प्रात्यहिक-प्रायम् एवं प्रथयिष्यामः । यथा-
रमते रामं परितः कृष्णः । सखि-गण-गीत-गुणेषु स-तृष्णः ॥
अनुगायति पिक-षट्पद-गानम् । परिजल्पति शुक-हंस-समानम् ॥
एवं चक्र-चकोर-बकादि । अनुरौति स्फुट-हास-विवादि ॥
द्वीपि-मुखार्पित-भीति पशूनाम् । रुतिम् इव सृजति भयाय शिशूनाम् ॥
पक्षि-मृगादिकम् अहरहर् अचलम् । विरचित-नामभिर् आह च सकलम् ॥
भ्रमति सखा यदि तस्मिन् कोऽ पि । कर्षति विहसन् पणम् अमुतोऽ पि ॥
दूरग-पशुम् आह्वयति च नाम्ना । कृत-गो-गोप-मनोरम-साम्ना ॥
गव्याहूतौ शिखिनां हूतिः । जाता यद् असौ घन-रुति-भूतिः ॥
व्यतियुञ्जानो भ्रात्रा स्व-करम् । शंसति हसति सखी-हित-निकरम् ॥
सखिभिर् विश्रमयन्न् अयम् आर्यम् । प्रणयति तत्-पद-लालन-कार्यम् ॥
सुललित-पल्लव-तल्प-विधानः । सुहृद्-ऊरु-स्थिर-मूर्ध-निधानः ॥
केलि-श्रमम् अनु कृत-शयनेहः । पुण्यतमैर् उपवीजित-देःअः ॥
अत्र च कैर् अपि लालित-चरणः । अस्मत्-तृण्-मात्रद-परिचरणः ॥
यः स्निग्धानां गान-विनोदैः । निद्राम् इतवान् स्वर-कृत-मोदैः ॥
स्मरतां तन् नः किम् अपि मनः-स्थम् । समयं सहते नान्यावस्थम् ॥
वयम् इह के वा लुब्धं-मन्याः । लुब्धा यस्मिन् शुक-मुख-धन्याः

1.12.20

[मात्रा-समक]
[47] तद् एवम् एव वल्गु वलयिते लीला-वलये पूर्ववन् निलयाद् आकलितम् इष्ट-मिष्टान्नादिकं रसनया श्लिष्टं विधाय, गवां जालं चालयन् पालयन् साग्रज-व्रज-राज-तनूजः सवयोभिर् आयतीगवम् अवसरम् अवगत्य गोत्रा-मात्राणां ततिं शनैर् उपव्रजम् अनैषीत् । नीत्वा च तार्णक-वात्सक-भेदानां तथा स्त्री-गवीनां तास्व् अप्य् उपसार्यासन्धिनी-प्रष्ठौही-धेनु-बष्कयिणी-गृष्टि-समांसमीना-नैचिकी-कपिला-वशा-गोपति-प्रभृतीनां तत्र च गङ्गादि-नाम्नां तथा पुङ्गवानां तेषु चार्षभ्य-दम्य-जात-ककुत्पूर्ण-ककुज्-जातोक्ष-महोक्ष-वृद्धोक्ष-युग्य-प्रासङ्ग्य-शाकट-प्रष्ठवाट्-प्रमुखानां तत्र च हंसादि-नाम्नां परः-कोटीनां कूटान् पृथक् पृथग् अवीवसत् । तत्र तत्र
च नस्तितान् अपि शिवक-बद्धान् अचीकरत् ।
[48] ततश् च पूर्व-पूर्वस्माद् अप्य् अपूर्वतया मङ्गल-वस्तु-निकर-करैः पुरस्कृत-क्षिति-देव-नर-देव-पुरःसरैर् व्रजवासि-वरैर् उपव्रज्य नीराज्य च सपशु-पाल-बलः स गोपालः सदनं सादरम् आसादयामासे । प्रसादयामासे च सुललित-लालनया जनित-सुख-जननी-मुख-पुरन्ध्री-जनेन ।
[49] अथ क्षण-मात्रं तत्र विश्रम्य गो-दोहनाय निर्गम्य रम्य-दोह-पात्र-सन्दोहं किङ्कर-निकर-कराहृतं विधाय, गवास्-थानीम् अभिनिधाय, महा-महिम-गोप-समूहम् अनुकृतोपवेशं श्री-व्रज-नरेशम् अनुज्ञाप्य वत्स-मोचनम् आज्ञाप्य धेनुक-मध्य-स्थितः स्वस्ति-वाचनादि-प्रशस्तं समस्त-चित्त-मोहनं गो-दोहनं नाम कर्म प्रथमं निर्ममे ।
[50] तत्र च गृहान् निर्गमनं यथा,
हाटक-लकुटि-पाणिर् मणि-चित-निर्योग-राजद्-उष्णीषः ।
जित-गजराज-विलासः सबलः कृष्णो ययौ गोष्ठम्

1.12.21

[आर्या]
[51] दोहनं यथा,
श्रीमत्-पट्ट-वटान्त-मौक्तिक-लसन्-निर्योग-राजत्-कचौ
गाढा-नद्ध-वरान्तरीय-रुचिभिश् चित्राधराङ्ग-श्रियौ ।
ऊर्ध्वज्ञू क्षिति-संहिताग्र-चरणौ जानु-द्वयान्तः-स्थित-
स्वर्णामत्र-धरौ सितासित-तनू धेनूर् दुहाते स्म तौ

1.12.22

[शार्दूलविक्रीडित]
[52] ततश् च घटोध्नीनां तासां नातिदुग्धानाम् अपि दुग्धानि तु प्रचुरं दुग्धानि विधाय गवादि-सम्भालनम् अनु गोपान् संविधाय तानि च पितुः पुरस्तान् निधाय कराभ्याम् अञ्जलिं सन्धाय स्थितवन्तौ सन्तौ, तेन दूरतस् तदीय-तुरीय-कक्षा-पूरित-चातुरी-निरीक्षण-सुख-स्थगितेन भूयो भूयश् चाहूय सव्यापसव्ययोर् उपवेशितौ । यत्र च-
अक्ष्णा तस्यापसव्येन सव्यं तच् चकृषे बलात् ।
अपि सव्येनापसव्यं रामं कृष्णं दिदृक्षुणा

1.12.23

[अनुष्टुभ्]
किं च-
एक-हेतु-मयम् एव लोचने द्वे च बाष्पम् अपरत्र विन्दतः ।
राम-कृष्ण-युगपद्-विलोकने ते तु गोप-नृपतेर् यथायथम्

1.12.24

[रथोद्धता]
तथा हि-
सव्यम् अक्षि तनुजाद् व्रजेशितुर्
भ्रातृजात् पुनर् असव्यम् अस्रवत् ।
यत्र मानसम् अपि स्वयं द्विधा-
भिद्यताश्रु-मिषम् इत्य् अबुध्यत

1.12.25

[रथोद्धता]
ततश् च-
अग्रिमान् अग्रिमान् कुर्वन्न् अन्त्यान् अन्त्यान् समैः समम् ।
सोऽ भितो राम-कृष्णाभ्यां शोभितो गृहम् आययौ

1.12.26

[अनुष्टुभ्]
[53] तौर्यात्रिक-चर्य-पर्याकुलतयेति शेषः ।
गृहम् आगत्य च सर्वाम् आत्म-गोष्ठीं मिष्टान्नादिभिः सुष्ठु तुष्टाम् अकार्षीत् । [54] ततश् चानन्द-विशिष्टेषु विसृष्टेषु शिष्टेषु राम-कृष्णौ निज-निज-धाम समागम्य रम्यतम-शय्याम् अधिशय्य मातृभ्याम् उपचर्यमाणौ परिचारकैः परिचर्यमाणौ सुखं निदद्रतुः ।
[55] अथ स्निग्धकण्ठः समापन-दिग्धं तद् इदं वाक्यं साञ्जलि व्यानञ्ज-
ईदृशस् तनयो जातस् तव गोप-धरा-पते ।
आत्मारामाश् च यत्-कीर्त्या यान्ति द्राग् आत्म-विस्मृतिम्

मूल पाठ: Gopālacampū, P1-33, U1-3, U5-6, U29 · Edition: Puridasa (1947). · Data entry Jan Brzezinski · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc