गोपालचम्पू · अध्याय 1.11
[अनुष्टुभ्]
[68] तद् एवम् अमी साक्षाद् इव व्योम-वधम् अनुभूय भूयसा सुखेन विलसन्-मुखेन ललिता गृहाय चलिता बभूवुः ।
इति श्री-श्री-गोपाल-चम्पूम् अनु
वत्सासुराद्य्-उत्सादनं नाम
दशमं पूरणम्
॥10॥
(11)
अथैकादशं पूरणम्
अघ-ब्रह्माघ-मोचनम्
[1] अथ पूर्ववत् प्रभाततः प्रभातायां सभायां मधुकण्ठः सोत्कण्ठम् उवाच-
[2] तद् एवं पूर्ववद् एव देवन-कुतुकतः पूर्वदेव-मारयोः कुमारयोर् अनयोः कौमारम् अतिवृत्त-कल्पम् आसीत् । [3] यौ खलु,
शुभ्र-श्याम-रुची रुचीम् अकुरुतां पौगण्ड-लक्ष्मी-कृते
चापल्येन मुनेर् अपि स्म कुरुतश् चित्तं मिलच्-चापलम् ।
नाना-क्रीडित-माधुरी-वर-कला शिक्षा-कलापं गतौ
वेणूद्गान-सुधां सुधांशु-वदनाव् आतत्य चिक्रीडतुः
[शार्दूल]
[4] अथ कदाचिद् अतिप्रातर् अग्रतो जाग्रतो निज-विहारतो जगद् एव पातुः श्री-राम-भ्रातुर् यादृच्छिकीयम् इच्छा जाता । प्रातर्-भोजनम् अप्य् अद्य निर्जन-वन एव योजनीयम् इति । ततश् च कृत-प्रातः-क्रियस् तत्-प्रार्थनाय रचित-मातृ-प्रियस् तद्-अनुज्ञया गच्छन् शृङ्ग-रव-सञ्ज्ञया साग्रजं सखि-व्रजं जागरयामास । झटिति चाटित्वा शृङ्गाटक-मध्यम् अध्यास्य क्षण-कतिपयं तत् प्रतीक्षणं प्रतीक्षणं व्यापारयामास । [5] शय्योत्थायां विद्रुत्य मिलितेषु सवयः-सम-वायेषु रामम् आगमयितुम् ऊर्ध्वं वर्तमानस् तन्-मानवेन वार्तानुवर्तयामासे ।
[6] यथा च प्रोवाच तद् वाचिकम् असौ-हन्त भोः, कृष्ण, त्वया सह क्रीडा-तृष्णग् अप्य् अहं विरुद्ध-विधिना निरुद्ध एवास्मि, यद् अकस्मात् कस्माद् अपि पुरु-कुलजन्मा मन्-मातुलः परमातुल-निर्बन्धान् माम् अवलोकयितुम् आगम्य हर्म्य एव स्थावर-साधर्म्यम् आसादितवान् अस्ति । अद्य च तवातीव प्रातर् आत्त-जागरतया समीहित-विशेषम् ऊहितवान् अस्मि । तस्माद् भवता या लीला भावयितुं भाविता, सावश्यं भावयितव्या । नव्यारम्भे विष्कम्भः खल्व् अप्रतिबद्ध-सिद्धि-सम्भावनां स्तम्भयति इति ।
[7] अथ वर्ण्यमाणं तद् आकर्ण्य स च कमल-सवर्णता-विलसद्-आकर्ण-लोचनः प्रतिपन्न-क्रीडा-रोचनः सखीन् उवाच-भवतु । भवन्त एव स्व-स्व-भवनाद् विहङ्गिकायां काचम् आयोज्य भोज्य-भक्त-भक्त-नियोज्यजनं प्रयोज्य तत् तद् उपयोज्यम् आनाय्य वनाय गमनाय त्वरयन्तु । अस्मज्-जननी च भव्यानां भाजन-भृत-भोजन-द्रव्याणां द्रुतम् एव सज्जन-वर्गेणास्मभ्यं विसर्जनम् अर्जयिष्यति इति निजेहिते तथा विहिते, हितेप्सु-बालक-समुदाय-मुदाम् उदार-चेष्टः पुरस्कृत-वत्स-चयेष्टः काननं प्रविष्टवान् । यत्र च वत्स-पाल-बालकाः प्रतिघस्रं सहस्रश एव तेन मिश्रतया विश्रूयन्ते । तेषां वत्साश् चायुत-प्रयुत-नियुतादि-सङ्ख्या-युता वर्ण्यन्ते । कृष्ण-वत्सानां सङ्ख्या पुनर् असङ्ख्य-सञ्ज्ञा सङ्गीयते । ततश् च-
आपूर्ण-शृङ्ग-मुरली-नियुतं सवत्स-
यूथायुतारवम् उदीरित-हूति-मिश्रम् ।
कृष्णश् चलन्न् अथ वनाय बलस्य चित्तं
लोलं चकार जगता सह कौतुकाय
[वसन्ततिलक]
[8] अथ गहनं गाहमाना मणि-जात-रूपाभ्यां सुष्ठु जात-रूपा अपि बालाः फल-प्रवालादिभिर् अलङ्कृतम् आत्मानं कृतवन्तः, यथा निकाय्ये दुर्याच-काच-गुञ्जा-पुञ्जम् अप्य् उपयुञ्जते स्म । नहि विलास-बहुलताकुलानाम् इदं न तत् तुलम् इति विचारः सञ्चरति । कार्पण्यम् एव खलु पण्यं गण्यतां नयति, विलासिता पुनर् दृश्यताम् एव परामृश्य हृष्यतीति ।
[9] अथ ते शिक्यितान्न-पात्राणि वृक्ष-शाखास्व् अवलम्बित-गात्राणि विधाय कृष्ण-भ्रू-भङ्ग-तरङ्ग-सङ्गत-रङ्गतया चापल्य-विशेषं श्लेषयामासुः ।
मुष्णन्तोऽ न्योऽ न्य-शिक्यादीन् ज्ञातान् आराच् च चिक्षिपुः ।
तत्रत्याश् च पुनर् दूराद् हसन्तश् च पुनर् ददुः ॥[भ्प् 10.12 ।5] इति ।
[10] तत्र चौर्यादिकं, यथा:
यष्ट्य्-आदेर् नर्मणासन्न् अपहरण-करा ये हृत-स्वास् तथा ये
दूरे ये क्षेपका ये प्रतिहरण-कृतस् ते च ते चाशु सर्वे ।
श्री-कृष्ण-भ्रू-विधूति-प्रतिलव-लघुता-शालि-तत्-तद्-विलासैः
प्रत्येकं स्वीय-योग्यं निगमनम् अविदुस् तत्र नैवान्यद् अन्यत्
[स्रग्धरा]
[11] तद् एवम् एव संयोगाद् यथा तद्-एक-सुख-योग एव तेषां भोगस् तथा वियोगाद् अपि, यथा:
यदि दूरं गतः कृष्णो वन-शोभेक्षणाय तम् ।
अहं पूर्वम् अहं पूर्वम् इति संस्पृश्य रेमिरे ॥[भ्प् 10.12 ।6] इति ।
[12] अस्य चार्थः समस्य दर्श्यते । तत्र स्पर्शनं, यथा-
वत्सेभ्यः प्रेष्य सर्वां सखिततिम् अघजिद् वीक्षितुं वन्य-लक्ष्मीं
दूरेऽ गाद् कृष्ट-दृष्टिः क्रमश इह तदा सा निवृत्ता विदूरात् ।
सौरभ्याघ्राण-नेत्रा मधुप-कुल-तुला सङ्घशस् तं द्रवन्ती
स्पृष्ट्वाहम्-पूर्विकायाम् अहम्-अहमिकया पृच्छती चाननन्द
[स्रग्धरा]
[13] रमणं यथा-
मिथोऽ पि स्निग्ध-भावानां कृष्ण-कौतुक-दत्तये ।
आहोपुरुषिका तेषाम् आलोकि स्पर्धनाम् इव
[अनुष्टुभ्]
जगुर् एके वेणुना तत्-प्रच्छादन-पराः परे ।
वादयन्तो विषाणानि हासयामासुर् अच्युतम्
[अनुष्टुभ्]
व्यञ्जयन्तस् तत्र केचित् पूर्वेषां ग्राम्य-रीतिताम् ।
तान् निवार्य स्वयं भृङ्गैर् जगुस् तद्वत् पिकैः परे
[अनुष्टुभ्]
गोपालानां जवः श्लाघ्यो गानाद्यं भिक्षुता-परम् ।
इत्थं केचिद् व्यञ्जयन्तः पक्षि-च्छायेन दुद्रुवुः
[अनुष्टुभ्]
केऽ पि सर्वानुकर्तृत्व-स्व-गुणाधिक्य-सूचकाः ।
हंस-कह्व-मयूराणां गोष्ठी-मध्यं प्रपेदिरे
[अनुष्टुभ्]
केचिद् वांश-नटीं विद्याम् आत्मनो व्यञ्जितुं मुदा ।
विडम्बितैः कीश-डिम्बैः सह शाखासु बभ्रमुः
[अनुष्टुभ्]
तत्र सर्व-कनिष्ठास् तु स्व-निष्ठा-मात्र-तत्-पराः ।
साकं भेकैर् विलङ्घन्तः सरितः स्रव-सम्प्लुताः
[अनुष्टुभ्]
विहसन्तः प्रतिच्छायां शपन्तश् च प्रतिस्वनान् । [भ्प् 10.12 ।10]
हसन्तः कृष्ण-सन्तोषं लसन्तः सन्ततं ददुः
[अनुष्टुभ्]
कर्तुं प्रतिध्वनौ शापं प्रतिबिम्बे विडम्बनम् ।
नुदन् बालान् मुदं लेभे प्रतिशापादितो हरिः
[अनुष्टुभ्]
एषा गतिर् मायिक-दृग्-विमोहनी
ज्ञातात्मनां भक्तिमतां च दूरगा ।
यासादितो कृष्णम् अनुव्रजार्भकैर्
इति स्फुटं श्री-शुक-देव-निश्चितिः
[उपजाति 12]
[14] तद् एवं लीलाम् अन्याम् अपि तितंसति कंस-द्विषि दीव्यत्सु च सर्व-कला-विद्वत्सु विसरज्-जालेषु वत्स-पालेषु बकी-बकयोर् अनुजः कश्चिद् अघ-नामा दनुजस् तद्-वर्त्मनि वर्तते स्म, ज्योतिर्-मण्डलेषु प्रचण्ड-काल-जलद इव । यं खलु कंसः शशंस-अये, मदीय-महा-सहाय! विस्मयम् अपहाय श्रूयताम् । त्वम् अजगर-भावेन सदा जागर-रहित एव शाशय्यमानता-निष्ठं तिष्ठन् न जानासीति हि त्वं जागरयामासिषे ।
[15] अघ उवाच-जगदीश, कामम् आदिश्यताम् ।
[16] अथ देवकी-विवाह-गताह-नभः-सभ्य-वाणीम् आरभ्य सर्व-कथा-शंसन-पूर्वकं कंस उवाच-तद् एवं प्रत्येकं नूतन-नूतनारब्ध-मिष-विष-मय-पूतनादिषु धूत-फल-प्रयासालिषु सर्वङ्गिल-लीलतया भवान् अद्यानवद्य-गतिः । इह च रावणस्य कुम्भ इत्य् अर्धोक्तम् अशकुन-भियाच्छाद्य, पूर्वेषां पूर्व-देवानां वृत्र इव इत्य् अपि प्रत्याख्यायेदम् आख्यत्-ध्रुवं ध्रुवस्येव तव चात्र भ्रात्र-मित्र-निर्यातनम् अवश्य-वश्यताम् अर्हति इति ।
[17] तद् एवं भव्य-प्रसव्यम् अप्य् उपलभ्य स्फुटम् असभ्यतया शीघ्रम् असौ बक-भ्रातृकः कृष्ण-भ्रातृकाणां तेषां पुरतः प्रचरन् प्रचुर-तराङ्गम् उरङ्गम् अरूपम् आस्थाय स्थितः । किन्त्व् अथासौ तथासीद् यथात्म-पथाधिकृत-प्रथा-चलतया प्रथयामासे । नर्मणा नाग-धर्मताम् उपदिशद्भिर् अमीभिर् ऊचे च-
उद्यद्-गरतया जाग्रद् वर्त्मन्य् अजगरः पुरः ।
समग्रं ग्रसिता तस्माद् अस्मान् यदि बकिष्यति
[अनुष्टुभ्]
[18] तद् एतद् अभिधाय श्री-कृष्ण-मुख-कमलं निध्याय, बाढं कर-ताडनाल् लसन्तो हसन्तो महा-गिरि-गुहान्तर्वत् तद्-वक्त्रान्तरं प्रविविशुर्, ज्योतिर्-वलयः पश्चिमाचलम् इव, यतो मयूखवत् समग्रा वत्साश् च तद्-वर्त्मायच्छन्ति स्म; यत्र निषिषित्सन्न् अपि श्रीवत्स-लक्ष्मा नावसरम् अवाप, किन्तु भावि-निज-लीला-निश्चलतया विस्मयम् आप, पश्चात्-तापम् आपद् अप्य् असौ येन हि तेषां वर्त्माप्य् अनुवर्तमानस् तत्र प्रविवेश, नीहार-कुज्झटिका-घटित-तमश्-चक्रवाले प्रचण्ड-मर्तण्ड-मण्डलम् इव; [19] यत्र मुरारि-प्रभावाचतुराः सुराः सुरारयश् च मुहुर् आराद् आराद् अपि हन्त-हन्त-कारं चक्रुः; यत्र च तेषाम् उभयेषां तत्-तद्-वर्णतः समानम् आनन-कुल-युगलं तत्-तद्-वर्णतः क्रमाद् भयं विजयम् उद्भावयामास ।
[20] बक-चेष्टाम् अनुतिष्ठतस् तस्य तु पापिष्ठस्य कण्ठे सोऽ यम् अकुण्ठ-धामा कृष्ण-नामा व्रज-नृप-तपः-प्रताप-मय-योगमाया-सहायतया केशि-प्रवेशि-स्व-भुज-दिव्य-भुजङ्गमवद् ववृधे । [21] स तु जात-श्वास-रोधः परित्यक्त-बोधश् च क्षण-कतिपयम् आसीत् । तद्-ऊर्ध्वं पाटित-मूर्धानं प्राणम् अपहाय पूतना-शमयितुः सङ्गतः पूतः पूतना-भ्रातुर् आत्मा नित्य-नूतनां सद्-गतिम् अवाप्तुम् अस्य बहिर् आगमनं प्रतीक्षते स्म ।
[22] स श्रीवत्स-वत्सस् तु तम् अन्तर् हत्य वत्स-वत्सपान् मूर्च्छितान् अमृत-वृष्टि-मय-दृष्टि-प्रचारेण सञ्चरित-चेतनान् आचरन्न् अमीभिः समं गमन-वर्त्मना तस्मान् निर्जगाम स्वर्-भानु-मुखाद् अमृत-भानुर् इव ।
[23] ततश् च हिमाचलाद् गाङ्ग-प्रवाहानाम् इव तेषां प्रवहे जाते तस्यात्म-ज्योतिर् अजितस्याङ्ग-सङ्घान् निःसज्जद् एव जगज्-जनेन दृदशे चण्ड-ज्योतिर्-ज्योतिषि ज्योतिर् इव ।
[24] यत्र ब्रह्म-पुरःसराः सुराः सुर-वर्त्मनि पुरतः स्थिताः सुर-तरु-पुष्प-स्तवक-वृष्टिभिः स्तव-कृत-संस्तव-तौर्यत्रिकादि-प्रस्ताव-सृष्टिभिः स्तव-नीयं व्रजराज-तनूजं पूजयामासुर्, उपजहसुर् अप्य् अघासुरम् ।
मम स्पर्श-मात्राद् भवज्-ज्ञाति-मात्रं
विनश्यत्य् अकस्मात् तमस् तेजसो वा ।
इदं ज्ञातवान् अप्य् अघाख्यासुर त्वं
कथं माम् अयासीर् इतीवाह कृष्णः
[भुजङ्गप्रयाता]
अथवा,
सर्वांस् त्वं खर्व-कोटीः पशु-पशुप-शिशून् ग्रस्तवान् माम् तथापि
ग्रस्तं निर्मातुम् ऐषीर् इति सुखदतया प्रापम् अन्तस् त्वदीयम् ।
सङ्कोचाद् गन्तुम् इच्छन् बहिर् अथ भुजग प्राण-वर्गस् तवाद्धा
मन्-निर्बन्धोऽ पि मूर्ध्नः स्फुटन-कृतितया धिग् गतः किं विदध्याम्?
[स्रग्धरा] इत्य् एवम् ।
[25] ततश् च तस्मात् कलित-गणतया तरुनि-चयाद् आचित-काचित-दिव्य-दीदिवितया चातिचपलं चलितस्य तस्य काचनातिदूरा भूर् आयत-वन-कलाप-विमलापसरो-वरान्तरतया वराप्य् अवरताम् आससाद । [26] याम् उपसाद्य च सद्यः सुख-विकसित-मुख-पङ्कजः पद्म-लोचनः स्वं रोचनं वचन-गोचरम् आचचार । यथा-
भास्वन्-महो योग-विकास-हृद्-गत-
प्रभाम्बुजातं मधुसूदन-प्रभम् ।
पश्यन्तु मित्राणि सुजीवनालयं
महन्-मनस्-तुल्यतरं सरोवरम्
[उपजाति 12]
एषा वनाली सरसी तथा मिथो
गुणेन पुष्टा गुणितेन सर्वदा ।
आद्या रसेन द्वय-पूरणी यतः
प्रसून-सौरभ्य-शतेन पुष्पते
[उपजाति 12]
स्फुरति पुलिनम् अच्छं कोमलं बालुकाभिः
कुसुम-फल-वन-क्ष्मा-प्रावृतं सूक्ष्म-दूर्वम् ।
यद् इह मृग-जनानां वृक्ष-लक्षालयानाम्
उप विमल-जलान्तं भाति शय्यायमानम्
[मालिनी]
अत्र भोक्तव्यम् अस्माभिर् दिवारूढं क्षुधार्दिताः ।
वत्साः समीपेऽ पः पीत्वा चरन्तु शनकैस् तृणम् ॥[भ्प् 10.13 ।6]
[27] अथ समं भूमिस्थितं संयुज्य भोजन-जननार्थं रचित-मज्जनेषु कृत-मिथः-सज्जनेषु तेषु सुहृज्-जनेषु प्रथमतस् तावद् एवं जातम् ।
कृष्णं मध्ये लब्धवन्तः सखायः
सर्वं तत् तद् विस्मरन्तः स्व-दुःखम् ।
तत्-कान्तीनां सन्ततं पातु-कामास्
तस्थुर् यद्वत् पूर्ण-चन्द्रं चकोराः
[शालिनी]
[28] ततश् च तत्-पालन-तृष्णेन कृष्णेन यत्नेन योजितभोजनेषु सवयोजनेषु काचिद् अन्या शोभा धन्यां तां वन्यां शोभयामास, यथा:
अन्तरान्तर-मिलद्-वलयानां
वल्गु बाल्य-वयसाम् अधिमध्यम् ।
सर्वतोऽ भिमुखतां हरिर् आगाल्
लीलयाभ्रमद् अपूर्व-नटाभः
[स्वागता]
विभ्रद्-वेणुं जठर-पटयोः शृङ्ग-वेत्रे च कक्षे
वामे पाणौ मसृण-कवलं व्यञ्जनान्य् अङ्गलीषु ।
तिष्ठन् मध्ये प्रिय-सवयसां हासयन् हासितस् तैर्
दिव्ये लोके कलयति मुदा भुक्तवान् बाल-कृष्णः
[मन्दाक्रान्ता]
[29] तद् एवं परमोत्स्व-रतेषु तेषु वत्साः कच्छ-देशाद् अनच्छ-तार्ण-प्रदेशं प्रविश्य प्रच्छन्ना बभूवुः । [30] प्रच्छन्नेषु च तेषु विच्छिन्न-भोजन-रतीर् मित्र-ततीः स्वस्थयन् तद्-अवस्थ एव स्वयं नीरन्ध्र-वनावनीध्र-मध्यम् अध्यासितान् अवीध्र-दुर्ग-मार्गान् विचित्य कृतकृत्यता-राहित्यं प्रतीत्य च निवृत्य तत्र च मित्र-वर्गान् अपरिचित्य वैचित्त्य-वशाद् उभयान् अपि सभयान् मत्वा विचिकित्सन् विचिकाय । काय-क्लेशतः केशवः सोऽ यं किन्तया चिन्तयामास च,
अहो, मातॄणां यच् छिशु-कुलम् असुभ्योऽ पि दयितं
स्थितिं वत्सत्वेन प्रसजति तथा वत्सपतया ।
तद् एतन् मत्-प्राण-प्रतिकृति-शरीरं क्व नु गतं
यद् अर्थं दुष्टाहेर् जठरम् अविशं हा विषमयम्
[शिखरिणी]
[31] तद् एतद् अगुण-गुण-गुणगण-निधानस्य तस्य निरवधानम् अपि न चित्रम् अध्यस्यति । [32] एष हि प्रेम-मय-लीलावेश-वश्यताम् आपन्नः कदाचिद् अवश्यं पश्यन्न् अपश्यन्न् इव भवति । तदा हि सद्य एवेदं प्रत्यपद्यत । आं ब्रह्मणः खल्व् इदं कर्म । मम पुनर् एतावन्तं कालं सञ्जङ्घन्य-मान-सखि-सङ्घ-प्रणयासङ्ग-वशाल् लङ्घित-ज्ञानतया न तद्-अनुसन्धानं जातम् । न च तेन विरोधितयेदम् आचरितम्, किन्तु मयि प्रेम-स्थेम-संहितस्य तस्य व्रज-हितस्य सम्प्रति मद्-वैभवं प्रति विशेष-वीक्षा-प्रतीक्षा जातेत्य् एवम् एवाचरितम् । यत एव खलु माया-वैभवतस् तद् अनन्य-स्थान-स्थितं-मन्यम् एवान्यत्र वन्य-भूमाव् आकृष्य पुनस् तत्रैव पुलिने प्रतिकृष्य तत्-तद्-वृन्दम् अनेनागोपायि, ततो न विरोधि-बुद्धिर् असौ । विरोधिषु मद्-बुद्धि-वीर्ययोर्
निद्रागमेऽ पि जागरुकता कलिता । ततो वयं भक्ते तस्मिन् नर्म-कर्मठताम् एव घटयिष्यामः । तत्र च प्रायः श्रीमत्-पितृ-चरणाभिप्राय-मयतया या मम योगमाया साहायकम् आयाति । यदि ताम् एव सम्प्रति चावलम्बेय, तदा स्वयम् एव तत्-तद्-रूपतां लभेय । नान्यद् धि मद्-धितानां तेषां साम्यं भजेद् इति-[33] येन च शतानन्दस्य व्रजानन्दस्य च मन्दता-मन्दतां विन्देत, तद् एवं चिन्तयन्न् एव, सह-सुहृल्-लोक-शोकं चिन्तयामास, हन्त, हन्त, कथं तान् मां विना तान्तान् विना समयं गमयिष्यामि? इति । ततश् च,
यस्य यस्य च शुचा गुण-रूपं
चिन्तयन्न् अभजत स्वतयाथ ।
तस्य सुष्ठु धुत-भेदतयाऽसौ
जज्ञिवान् प्रयतनं व्यतिरिच्य
[स्वागता]
[34] इति तथानुसन्धाय स्वतस् तत्-तद्-बालवत्सादि-रूपाणि सन्धाय सर्व-समाधान-निर्बन्धाय दिनान्तरवद् एव व्रजागमन-देवनेन गेहं गेहं प्रवेशम् आसीनस् तां सन्ध्याम् अबन्ध्यां चकार । [35] तन्-मातरस् तु दिनान्तराद् अप्य् अन्तरङ्गतरम् आनन्दं विन्दन्ति स्म । तथा हि,
सुते गोपेश्वर्या निज-निज-सुत-प्रत्यय-मुदा
तथा तन्-मित्रत्व-स्फुरण-सुख-लक्ष्म्या द्वि-गुणितम् ।
पुरावद् वात्सल्यं व्रज-पुर-पुरन्ध्रीर् विदधतीस्
तदीया संसिद्धिर् यद् अधिनुत तद् भाति तद् इव
[शिखरिणी]
यद्यप्य् एक-स्वरूपा व्रज-नृपति-सुतस्यापरे बाल-वत्सा
जातास् तर्ह्य् अप्य् अमी तत्-प्रतिम-पदम् अधुस् तत्र नेत्य् एव युक्तम् ।
तद्-रूपं तद्-गुणालिस् तद्-अमित-विहृतिश् चाश्रयः खल्व् अमीषां
तस्यापि स्वस्य चित्र-स्थिति-कृद् इति यतस् तत्र तत्राभ्यधायि
[स्रग्धरा]
[36] तद् एवं हान-प्रायस्य तस्य हायनस्य पूरणाय पञ्चषाण्य् अहानि यदा हीनानि, तदा तु कृष्ण-विषयक-स्नेह-जातीय-स्नेहम् अनु स्व-पर-तत्-परतायास् तेषु बालादिषु सम्यग् अवगम्यमानतया रामोऽ पि विस्मित्य तेन सह प्रश्नोत्तरे विनिमित्य विनिश्चित्य च स्थितवान्, किन्तु तेषां सखीनाम् अखिलानां विप्रलम्भ-लम्भित-कष्टेन निजानुजे रुष्टतया पञ्चषाण्य् अहानि तेन सह वनं नाजिघाय ।
ब्रह्मा तु तत्र गुप्तम् आगतः श्री-कृष्णेन तर्क्यते स्म, यथा-
यस्माद् एति परैति पश्यति पुरः पश्चात् तथा पार्श्वतः
स्वात्मानं परितः स्तृणोत्य् अनुपदं सम्भ्राम्यति भ्राम्यति ।
लोप्त्रा लोप्त्रस-वत्स-वत्सप-गणं सन्दिग्धम् आलोकते
तस्मान् मे प्रतिभात्य् असाव् अनुदिशं वक्त्रं दधत् स्तेनकः
[शार्दूल]
[37] अथ ब्रह्मा तेषाम् अर्वाचीनानां प्राचीनानां च बालादीनां रूपादिभिः परस्परम् अभेदम् आकलय्य चेतसाश्चर्यम् आचर्य चार्वाचः परिविन्दन्, सर्वतोऽ प्य् अतिदृष्ट-महिष्ठता-भूयिष्ठान् दृष्टवान् । [38] ब्रह्माणं पश्यति श्रीदामादि-मित्रे तु स्व-मित्राणाम् एवानयनेच्छा जातेति यदृच्छया तद्-अन्वेषणावस्था प्रादुर्भूता, साम्प्रतिकाश् चान्तर्भूताः ।
[39] तद् एवं नाना-वैभवम् अनुभवतः कमल-भवस्य त्रप्ततयानुतप्ततया च या रचितावाचीनता, सा स्वयं प्रणामाय परिणमति स्म । तत्र च,
एकम् एकम् अधः कृत्वा मुखं तत्र चतुर्मुखः ।
नमन्न् अन्य-मुखस्योर्ध्वी-भावात् पूर्तिं जगाम न
[अनुष्टुभ्]
यद्यपि न नमन् मुमुदे विधिर् एकास्यानवाग्-भावात् ।
तदपि हरेर् मुखचन्द्रा-लोकालोपान् मुदं लेभे
[उपगीति]
[40] अथापकृष्टं-मन्यः सन्न् अनन्य-गतितया सुमेधा वेधाः स्तवकेनेव स्तवकेनेष्टवांश् च कृष्णम् । यत्र च चतुर्भिर् वक्त्रैर् आनुवान इव नुवन्न् असौ सर्व-महान् अपि यत् किञ्चिद् गोकुलानुगतानुगतिम् एव प्रति निजानुमतिम् आततान । यथा चाह स्म-
तद् भूरि भाग्यम् इह जन्म किमप्य् अटव्यां
यद् गोकुलेऽ पि कतमाङ्घ्रि-रजोऽ भिषेकम् ।
यज्-जीवितं तु निखिलं भगवान् मुकुन्दस्
त्व् अद्यापि यत्-पद-रजः श्रुति-मृग्यम् एव ॥[भ्प् 10.14.34] इति ।
[41] तद् एवं व्रज-महि-महिम-कर-कर-निकर-जडी-भूता वयं नोपपत्ति-प्रत्यासत्तिं लभामह इत्य् अलम् अतिविस्तरेण ।
[42] अथ स्निग्धकण्ठ उवाच-श्रीमद्-व्रज-युवराजेन तत्र किम् उक्तम्?
[43] मधुकण्ठः स-स्मितम् उवाच-न किम् अपि, किन्तु तत्र स्तुति-समये तावत् ।
गोविन्दः स्मितम् अतनोत् स्तुवानम् एनम्
दृष्ट्वा यत् किम् अपि ददर्श तत्र चित्रम् ।
एकस्मिन् वदति चतुर्मुखे हि तस्मिंश्
चत्वारो दधति रुतीर् इति भ्रमः स्यात्
[प्रहर्षिणी]
[44] स्तुत्य्-उत्तर-कालतस् तु,
वयं गोपाश् चार्थवन्तो ब्रह्मा च त्वम् अनर्थवान् ।
ब्रूमस् त्वां किम् इतीवायम् अवदन् स्मितम् आतनोत्
[अनुष्टुभ्]
[45] स्निग्धकण्ठ उवाच-परिसेधत्य् अपि वेधसि किं किञ्चिद् अप्य् उक्तम्?
[46] मधुकण्ठ उवाच-स्तव-पर्यावसाने खलु निज-रूप-रूपतया सर्व-पर्याप्तिमद्भिर् अपि पश्चाद् आविर्भूतवद्भिर् बालादिभिः परितोष-पोषम् अमन्यमानः स धन्यः स्वजन-प्रेम-जितः श्रीमान् अजितस् तान् व्रज-बालादीन् एवानेतुं यदा वाञ्छाम् आनञ्च, तदाञ्जलि-बन्ध-व्यञ्जितां सञ्ज्ञाम् अनु समनुज्ञां याचमानं विरिञ्चिं खल्व् एवं लम्भित-तद्-उपालम्भ-नर्म-स्मितम् अनुज्ञापयामास-यदि तत्र-भवताम् आज्ञा विज्ञायते, तदा तान् पूर्वम् एवानुसंहितान् सन्निहितान् आनयामि इति ।
[47] ततश् च विरिञ्चिः किञ्चिन् नम्र-निटिलता-घटित-मुनि-व्रत-सुनिरूपित-निज-दुर्नीतितयानुज्ञायाः कर्म-कर्तृत्वं व्यक्तीकुर्वन्, भक्ति-भरासक्ति-पृक्तीकृत-पुलक-सङ्कुलतया स्वापराध-मय-बाधा-व्यकुलतया च त्रिः परिक्रम्य बहुशः प्रणम्य च निज-हर्म्यम् एव जगाम ।
[48] श्री-कृष्णश् च मनसि तस्यापराधं मनाग् अप्य् अनागमयन्न् आगमयमानः प्राग्-दिष्ट-सदिष्ट-द्वेष-वेश-क्रियानतिक्रमि-क्रमतयावस्थितांस् तान् वत्सांस् तत्-सदृग्-अवस्थैर् वत्स-पालैर् मेलयामास । [49] तथैव हि तेषां काल-देश-विपर्यया पर्यालोचनाय द्रुहिण-देवेन स्नेह-देहन्य् अनवद्य-विद्येयम् उद्भाविता । एतद् एवोक्तम्-
ततोऽ नुज्ञाप्य भगवान् स्व-भुवं प्राग्-अवस्थितान् ।
वत्सान् पुलिनम् आनिन्ये यथा पूर्व-सखं स्वकम् ॥[भ्प् 10.14.42] इति ।
[50] अथ ते,
ऊचुश् च सुहृदं कृष्णं, स्वागतं तेऽ तिरंहसा ।
नैकोऽ प्य् अभोजि कवल, एहीतः साधु भुज्यताम् ॥
ततो हसन् हृषीकेशोऽ भ्यवहृत्य सहार्भकैः ।
दर्शयंश् चर्माजगरं न्यवर्तत वनाद् व्रजम् ॥[भ्प् 10.14.45-46] इति ।
[51] चर्म चेदम् एतावन्तं समयं यथावद् एव योगमाययान्तर्धापितम् इति गम्यम् ।
[52] ततश् च संवत्सर-प्रसर-वत्स-वत्सपाल-बाल-विरह-विरहान् महतानन्देन महितस् तैर् एव सहितः संहित-सम्पद्-व्रजं व्रजं प्रविशन्, तत्-तद्-उन्मर्याद-वत्स-परावर्तनाय निदिशन्, पूर्व-पूर्वतोऽ प्य् अपूर्वं पर्व पर्वति स्म । तथा ह्य् उक्तम्-
बर्ह-प्रसून-वन-धातु-विचित्रिताङ्गः
प्रोद्दाम-वेणु-दल-शृङ्ग-रवोत्सवाढ्यः ।
वत्सान् गृणन्न् अनुग-गीत-पवित्र-कीर्तिर्
गोपी-दृग्-उत्सव-दृशिः प्रविवेश गोष्ठम् ॥[भ्प् 10.14.47] इति ।
[53] ततश् च पितृ-सम्बन्धिभिर् नन्द-सूनुर् इति मातृ-सम्बन्धिभिर् यशोदा-सूनुर् इति तस्य नामानूद्य, सद्य एव सिद्धम् इति चिरन्तनम् अपि तच्-चरितं जगे । तद् यथा-
नन्द-तनूजनुर् अद्य व्यालम् । हतवान् हृतवान् अस्मत्-कालम् ॥इति ध्रु ॥
अद्य यशोदा-सूनुर् व्यालम् । हतवान् हृतवान् अस्मत्-कालम् ॥इति वा ॥
ओष्ठाधरम् इह जलद-तटालिः । दम्भावलिर् अपि दन्तक-पालिः ॥
श्वास-भरः खरदावज-वातः । जिह्वा-युगम् अपि वर्त्म-निपातः ॥
इत्य् उत्प्रेक्षिततम-विविधाङ्गान् । व्यतिहासान् आचरतः साङ्गान् ॥
अहिम् अन्व् अहितां कल्पयमानान् । गिरिर् इति तं विशतः कृत-मानान् ॥
तद्-उदर-मध्य-कृताभ्यनुवेशान् । निज-विरहादि-विमूर्च्छित-वेशान् ॥
स्नेह-भराद् अथ स्वेन समेतान् । स्वक-नेत्रामृत-वृष्टि-सचेतान् ॥
तस्माद् बहिर् अथ निष्कासितवान् । पुनर् इह निखिलं बत दर्शितवान् ॥
प्राणाद् अधिकः सोऽ यं प्राणान् । रक्षन्न् अस्मान् कुरुते त्राणान्
[मात्रा-समक]
[54] इति श्रुत्वा च ते व्रजस्थाश् चिन्तयामासुः, साधु-घातुकानां पातुकानाम् आमीषां कथम् इव जातु कामाः सिध्येयुः? इति ।
[55] तद् एवं सिद्धे, सुखानुबिद्धे तेषां समे समागमे प्रातस् तु बृहद्-भ्रातरम् अनुगम्य प्रणय-मय-रम्य-रोषम् अनुनीय दीयमान-विस्मयतया तान् आनीय तेन चैकत्र प्रणीय श्रीवत्स-वत्सः पूर्ववद् एव वत्स-पालनम् आरेभे ।
[56] अथ पुनर् मधुकण्ठः समापनाय स-विस्मयम् इवाह स्म-
ईदृशस् तनयो जातस् तव गोष्ठाधिनायक ।
ब्रह्माण्ड-ग्रामणीर् यस्य ब्रह्मापि ग्रामणीर् इव
मूल पाठ: Gopālacampū, P1-33, U1-3, U5-6, U29 · Edition: Puridasa (1947). · Data entry Jan Brzezinski · GRETIL (Göttingen) · CC BY-NC-SA 4.0