गीतगोविन्द (अन्य संस्करण) · अध्याय 7
इति श्री-गीत-गोविन्देऽभिसारिका-वर्णने धन्य-वैकुण्ठो नाम
षष्ठः सर्गः
॥6॥
(7)
सप्तमः सर्गः
नागर-नारायणः
अत्रान्तरे च कुलटा-कुल-वर्त्म-घाट-सञ्जात-पातक इव स्फुट-लाञ्छन-श्रीः ।
नोते: {पात- इति पाठान्तरः.}
वृन्दावनान्तरम् अदीपयद् अंशु-जालैर् दिक्-सुन्दरी-वदन-चन्दन-बिन्दुर् इन्दुः
प्रसरति शश-धर-बिम्बे विहित-विलम्बे च माधवे विधुरा ।
विरचित-विविध-विलापं सपरितापं चकारोच्चैः
॥ प्रबन्धः 13 ॥
मालव-राग-यति-तालाभ्यां गीयते ।
नोते: {प्रतिमण्ठ-}
कथित-समयेऽपि हरिर् अहह न ययौ वनम् ।
मम विफलम् इदम् अमल-रूपम् अपि यौवनम्
यामि हे कम् इह शरणं सखी-जन-वचन-वञ्चिता ॥ध्रुव॥॥
यद्-अनुगमनाय निशि गहनम् अपि शीलितम् ।
तेन मम हृदयम् इदम् असम-शर-कीलितम्
मम मरणम् एव वरम् इति वितथ-केतना ।
नोते: {इह इति नि- पाठान्तरः.}
नोते: {अतिवितथ-चेतनेति टीका-धृत-पाठान्तरः.}
किम् इह विषहामि विरहानलम् अचेतना
माम् अहह विधुरयति मधुर-मधु-यामिनी ।
कापि हरिम् अनुभवति कृत-सुकृत-कामिनी
अहह कलयामि वलयादि-मणि-भूषणम् ।
हरि-विरह-दहन-वहनेन बहु-दूषणम्
कुसुम-सुकुमार-तनुम् अतनु-शर-लीलया ।
स्रग् अपि हृदि हन्ति माम् अतिविषम-शिलया
अहम् इह निवसामि न-गणित-वन-वेतसा ।
स्मरति मधुसूदनो माम् अपि न चेतसा
हरि-चरण-शरण-जयदेव-कवि-भारती ।
वसतु हृदि युवतिर् इव कोमल-कलावती
* * * * *
तत् किं काम् अपि कामिनीम् अभिसृतः किं वा कला-केलिभिर् बद्धो बन्धुभिर् अन्धकारिणि वनाभ्यर्णे किम् उद्भ्राम्यति ।
कान्तः क्लान्त-मना मनाग् अपि पथि प्रस्थातुम् एवाक्षमः सङ्केती-कृत-मञ्जु-वाञ्जुल-लता-कुञ्जेऽपि यन् नागतः
अथागतां माधवम् अन्तरेण सखीम् इयं वीक्ष्य विषाद-मूकाम् ।
विशङ्कमाना रमितं कयापि जनार्दनं दृष्टवद् एतद् आह
॥ प्रबन्धः 14 ॥
वसन्त-राग-यति-तालाभ्यां गीयते ।
स्मर-समरोचित-विरचित-वेशा ।
गलित-कुसुम-दर-विलुलित-केशा
कापि मधुरिपुणा विलसति युवतिर् अधिक-गुणा ॥ध्रुव॥॥
हरि-परिरम्भन-चलित-विकारा ।
नोते: {वलित इति नि- पाठान्तरः.}
कुच-कलशोपरि तरलित-हारा
विचलद्-अलक-ललितानन-चन्द्रा ।
तद्-अधर-पान-रभस-कृत-तन्द्रा
चञ्चल-कुण्डल-दलित-कपोला ।
मुखरित-रशन-जघन-गति-लोला
दयित-विलोकित-लज्जित-हसिता ।
बहु-विध-कूजित-रति-रस-रसिता
विपुल-पुलक-पृथु-वेपथु-भङ्गा ।
श्वसित-निमीलित-विकसद्-अनङ्गा
श्रम-जल-कण-भर-सुभग-शरीरा ।
परिपतितोरसि रति-रण-धीरा
श्री-जयदेव-भणित-हरि-रमितम् ।
कलि-कलुषं जनयतु परिशमितम्
* * * * *
विरह-पाण्डु-मुरारि-मुखाम्बुज-द्युतिर् अयं तिरयन्न् अपि वेदनाम् ।
विधुर् अतीव तनोति मनो-भुवः सुहृद् अये हृदये मदन-व्यथाम्
॥ प्रबन्धः 15 ॥
गुर्जरी-रागैक-तालि-तालेन गीयते ।
समुदित-मदने रमणी-वदने चुम्बन-वलिताधरे ।
मृग-मद-तिलकं लिखति सपुलकं मृगम् इव रजनी-करे
रमते यमुना-पुलिन-वने विजयी मुरारिर् अधुना ॥ध्रुव॥॥
घन-चय-रुचिरे रचयति चिकुरे तरलित-तरुणानने ।
कुरुबक-कुसुमं चपला सुषमं रति-पति-मृग-कानने
घटयति सुघने कुच-युग-गगणे मृग-मद-रुचि-रूषिते ।
मणि-सरम् अमलं तारक-पटलं नख-पद-शशि-भूषिते
जित-बिस-शकले मृदु-भुज-युगले कर-तल-नलिनी-दले ।
मरकत-वलयं मधुकर-निचयं वितरति हिम-शीतले
रति-गृह-जघने विपुलापघने मनसिज-कनकासने ।
मणि-मय-रशनं तोरण-हसनं विकिरति कृत-वासने
चरण-किशलये कमला-निलये नख-मणि-गण-पूजिते ।
बहिर्-अपवरणं यावक-भरणं जनयति हृदि योजिते
रमयति सुभृशं कम् अपि सुदृशं खल-हलधर-सोदरे ।
किम् अफलम् अवसं चिरम् इह विरसं वद सखि विटपोदरे
इह रस-भणने कृत-हरि-गुणने मधुरिपु-पद-सेवके ।
कलि-युग-चरितं न वसतु दुरितं कवि-नृप-जयदेवके
नोते: {रचितम् इति क्वचित् दृश्यते.}
* * * * *
नायातः सखि निर्दयो यदि शठस् त्वं दूति किं दूयसे स्वच्छन्दं बहु-वल्लभः स रमते किं तत्र ते दूषणम् ।
पश्याद्य प्रिय-सङ्गमाय दयितस्याकृष्यमाणं गुणैर् उत्कण्ठार्ति-भराद् इव स्फुटद् इदं चेतः स्वयम् यास्यति
॥ प्रबन्धः 16 ॥
देशवराडि-रागेण रूपक-तालेन गीयते ।
अनिल-तरल-कुवलय-नयनेन ।
तपति न सा किशलय-शयनेन
सखि या रमिता वन-मालिना ॥ध्रुव-पदम् ॥
विकसित-सरसिज-ललित-मुखेन ।
स्फुटति न सा मनसिज-विशिखेन
अमृत-मधुर-मृदु-तर-वचनेन ।
ज्वलति न सा मलयज-पवनेन
स्थल-जल-रुह-रुचि-कर-चरणेन ।
लुठति न सा हिम-कर-किरणेन
सजल-जलद-समुदय-रुचिरेण ।
दलति न सा हृदि चिर-विरहेण
नोते: {विरह-भरेण इति हरिदास-संस्करणे }
कनक-निकष-रुचि-शुचि-वसनेन ।
श्वसिति न सा परिजन-हसनेन
सकल-भुवन-जन-वर-तरुणेन ।
वहति न सा रुजम् अतिकरुणेन
श्री-जयदेव-भणित-वचनेन ।
प्रविशतु हरिर् अपि हृदयम् अनेन
* * * * *
मनो-भवानन्दन चन्दनानिल प्रसीद रे दक्षिण मुञ्च वामताम् ।
क्षणं जगत्-प्राण निदाय माधवं पुरो मम प्राण-हरो भविष्यसि
नोते: {निधाय इति नि- पाठान्तरः.}
रिपुर् इव सखि-संवासोऽयं शिखीव हिमानिलो विषम् इव सुधा-रश्मिर् यस्मिन् दुनोति मनो-गते ।
हृदयम् अदये तस्मिन् नैवं पुनर् वलते बलात् कुवलय-दृशां वामः कामो निकाम-निरण्कुशः
बाधां विधेहि मलयानिल पञ्च-बाण प्राणान् गृहाण न गृहं पुनर् आश्रयिष्ये ।
किं ते कृतान्त-भगिनि क्षमया तरङ्गैर् अङ्गानि सिञ्च मम शाम्यतु देह-दाहः
प्रातर् नील-निचोलम् अच्युतम् उरः संवीत-पीतांशुकं राधायाश् चकितं विलोक्य हसति स्वैरं सखि-मण्डले ।
व्रीडा-चञ्चलम् अञ्चलं नयनयोर् आधाय राधानने स्वादु-स्मेर-मुखोऽयम् अस्तु जगद्-आनन्दाय नन्दात्मजः
मूल पाठ: Gītagovinda · Edition: the Kavyamala ed. (Calcutta 1878), checked against several other editions (cf. NOTE below). · Data entry Jan Brzezinski · GRETIL (Göttingen) · CC BY-NC-SA 4.0