गीतगोविन्द (अन्य संस्करण) · अध्याय 6
इति श्री-गीत-गोविन्देऽभिसारिका-वर्णने साकाङ्क्ष-पुण्डरीकाक्सो नाम
पञ्चमः सर्गः
॥5॥
(6)
षष्ठः सर्गः
सोत्कण्ठ-वैकुण्ठः
नोते: {धन्य-वैकुण्ठ-कुङ्कुमः इति क्वचित् दृश्यते }
अथ तां गन्तुम् अशक्तां चिरम् अनुरक्तां लता-गृहे दृष्ट्वा ।
तच्-चरितं गोविन्दे मनसिज-मन्दे सखी प्राह
॥ प्रबन्धः 12 ॥
गुणकरी-रागेन रूपक-तालेन गीयते ।
पश्यति दिशि दिशि रहसि भवन्तम् ।
तद्-अधर-मधुर-मधूनि पिबन्तम्
नाथ हरे सीदति राधा वास-गृहे ॥ ध्रु. ॥
त्वद्-अभिसरण-रभसेन वलन्ती ।
पतति पदानि कियन्ती चलन्ती
विहित-विशद-बिस-किशलय-वलया ।
जीवति परम् इह तव रति-कलया
मुहुर् अवलोकित-मण्डन-लीला ।
मधु-रिपुर् अहम् इति भावन-शीला
त्वरितम् उपैति न कथम् अभिसारम् ।
हरिर् इति वदति सखीम् अनुवारम्
श्लिष्यति चुम्बति जल-धर-कल्पम् ।
हरिर् उपगत इति तिमिरम् अनल्पम्
भवति विलम्बिनि विगलित-लज्जा ।
विलपति रोदिति वासक-सज्जा
श्री-जयदेव-कवेर् इदम् उदितम् ।
रसिक-जनं तनुताम् अतिमुदितम्
* * * * *
विपुल-पुलक-पालिः स्फीत-सीत्-कारम् अन्तर्-जनित-जडिमम्-काकु-व्याकुलं व्याहरन्ती ।
तव कितव विधायामन्द-कन्दर्प-चिन्तां रस-जल-निधि-मग्ना ध्यान-लग्ना मृगक्षी
अङ्गेष्व् आभरणं करोति बहुशः पत्रेऽपि सञ्चारिणी प्राप्तं त्वां परिशङ्कते वितनुते शय्यां चिरं ध्यायति ।
इत्य् आकल्प-विकल्प-तल्प-रचना-सङ्कल्प-लीला-शत-व्यासक्तापि विना त्वया वर-तनुर् नैषा निशां नेष्यति
किं विश्राम्यसि कृष्ण-भोगि-भवने भाण्डीर-भूमी-रुहि भ्रातर् यासि न दृष्टि-गोचरम् इतः सानन्द-नन्दास्पदम् ।
राधाया वचनं तद् अध्वग-मुखान् नन्दान्तिके गोपतो गोविन्दस्य जयन्ति सायम् अतिथि-प्राशस्त्य-गर्भा गिरः
मूल पाठ: Gītagovinda · Edition: the Kavyamala ed. (Calcutta 1878), checked against several other editions (cf. NOTE below). · Data entry Jan Brzezinski · GRETIL (Göttingen) · CC BY-NC-SA 4.0