गीतगोविन्द (अन्य संस्करण) · अध्याय 8
इति श्री-गीत-गोविन्द-महाकाव्ये विप्रलब्धा-वर्णने
नागर-नारायणो नाम
सप्तमः सर्गः
॥7॥
(8)
अष्टमः सर्गः
विलक्ष-लक्ष्मीपतिः
अथ कथम् अपि यामिनीं विनीय स्मर-शर-जर्जरितापि सा प्रभाते ।
अनुनय-वचनं वदन्तम् अग्रे प्रणतम् अपि प्रियं आह साभ्यसूयम्
॥ प्रबन्धः 17 ॥
भैरवि-राग-यति-तालाभ्यां गीयते ।
रजनि-जनित-गुरु-जागर-राग-कषायितम् अलस-निमेषम् ।
वहति नयनम् अनुरागम् इव स्फुटम् उदित-रसाभिनिवेशम्
हरि हरि याहि माधव याहि केशव मा वद कैतव-वादम् ।
ताम् अनुसर सरसीरुह-लोचन या तव हरति विषादम् ॥ ध्रु. ॥
कज्जल-मलिन-विलोचन-चुम्बन-विरचित-नीलिम-रूपम् ।
दशन-वसनम् अरुण् अं तव क्र्स्ण तनोति तनोर् अनुरूपम्
वपुर् अनुहरति तव स्मर-सङ्गर-खर-नखर-क्षत-रेखम् ।
मरकत-शकल-कलित-कल-धौत-लिपेर् इव रति-जय-लेखम्
चरण-कमल-गलद्-अलक्तक-सिक्तम् इदं तव हृदयम् उदारम् ।
दर्सयतीव बहिर् मदन-द्रुम-नव-किशलय-परिवारम्
दशन-पदं भवद्-अधर-गतं मम जनयति चेतसि खेदम् ।
कथयति कथम् अधुनापि मया सह तव वपुर् एतद् अभेदम्
बहिर् इव मलिनतरं तव कृष्ण मनोऽपि भविष्यति नूनम् ।
कथम् अथ वञ्चयसे जनम् अनुगतम् असम-शर-ज्वर-दूनम्
भ्रमति भवान् अबला-कवलाय वनेषु किम् अत्र विचित्रम् ।
प्रथयति पूतनिकैव वधू-वध-निर्दय-बाल-चरित्रम्
श्री-जयदेव-भणित-रति-वञ्चित-खण्डित-युवति-विलापम् ।
शृणुत सुधा-मधुरं विबुधा विबुधालयतोऽपि दुरापम्
* * * * *
तवेदं पश्यन्त्याः प्रसरद्-अनुरागं बहिर् इव प्रिया-पादालक्त-च्छुरितम् अरुण-च्छाय-हृदयम् ।
नोते: {द्योति-}
ममाद्य प्रख्यात-प्रणय-भर-भङ्गेन कितव त्वद्-आलोकः शोकाद् अपि किम् अपि लज्जां जनयति
अन्तर्-मोहन-मौलि-घूर्णन-चलन्-मन्दार-विस्रंशन-स्तम्भाकर्षण-दृष्टि-हर्षण-महा-मन्त्रः कुरङ्गी-दृशाम् ।
नोते: {विभ्रंशन}
नोते: {दृप्ति}
दृप्यद्-दानव-दूयमान-दिविषद्-दुर्वार-दुःखापदां भ्रंशः कंस-रिपोर् व्यपोहयतु वः श्रेयांसि वंशी-रवः
मूल पाठ: Gītagovinda · Edition: the Kavyamala ed. (Calcutta 1878), checked against several other editions (cf. NOTE below). · Data entry Jan Brzezinski · GRETIL (Göttingen) · CC BY-NC-SA 4.0