भाषा

ENहिગુ
ग्रंथ पाठ

गीतगोविन्द · अध्याय 5

5.1

अहम् इह निवसामि याहि राधाम् अनुनय मत्-वचनेन च आनयेथाः ।
इति मधुरिपुणा सखी नियुक्ता स्वयम् इदम् एत्य पुनः जगाद राधाम् ॥

5.2

वहति मलय-समीरे मदनम् उपनिधाय ।
स्फुटति कुसुम-निकरे विरहि-हृदय-दलनाय ॥
तव विरहे वनमाली सखि सीदति ॥

5.3

दहति शिशिर-मयूखे मरणम् अनुकरोति ।
पतति मदन-विशिखे विलपति विकलतरः अति ॥
तव विरहे वनमाली सखि सीदति ॥

5.4

ध्वनति मधुप-समूहे श्रवणम् अपिदधाति ।
मनसि वलित-विरहे निशि निशि रुजम् उपयाति ॥
तव विरहे वनमाली सखि सीदति ॥

5.5

वसति विपिन-विताने त्यजति ललित-धाम ।
लुठति धरणि-शयने बहु विलपति तव नाम ॥
तव विरहे वनमाली सखि सीदति ॥

5.6

भणति कवि-जयदेवे विरहि-विलसितेन ।
मनसि रभस-विभवे हरिः उदयतु सुकृतेन ॥
तव विरहे वनमाली सखि सीदति ॥

5.7

पूर्वम् यत्र समम् त्वया रतिपतेः आसादिताः सिद्धयः
तस्मिन् एव निकुञ्ज-मन्मथ-महा-तीर्थे पुनः माधवः ।
ध्यायन् त्वाम् अनिशम् जपन् अपि तव एव आलाप-मन्त्र-आवलीम्
भूयः त्वत्-कुच-कुम्भ-निर्भर-परीरम्भ-अमृतम् वाञ्छति ॥

5.8

रति-सुख-सारे गतम् अभिसारे मदन-मनोहर-वेशम् ।
न कुरु नितम्बिनि गमन-विलम्बनम् अनुसर तम् हृदय-ईशम् ॥
धीर-समीरे यमुना-तीरे वसति वने वनमाली ॥

5.9

नाम-समेतम् कृत-सङ्केतम् वादयते मृदु-वेणुम् ।
बहु मनुते ननु ते तनु-संगत-पवन-चलितम् अपि रेणुम् ॥
धीर-समीरे यमुना-तीरे वसति वने वनमाली ॥

5.10

पतति पतत्रे विचलति पत्रे शङ्कित-भवत्-उपयानम् ।
रचयति शयनम् सचकित-नयनम् पश्यति तव पन्थानम् ॥
धीर-समीरे यमुना-तीरे वसति वने वनमाली ॥

5.11

मुखरम् अधीरम् त्यज मञ्जीरम् रिपुम् इव केलि-सुलोलम् ।
चल सखि कुञ्जम् सतिमिर-पुञ्जम् शीलय नील-निचोलम् ॥
धीर-समीरे यमुना-तीरे वसति वने वनमाली ॥

5.12

उरसि मुरारेः उपहित-हारे घने इव तरल-बलाके ।
तडित् इव पीते रति-विपरीते राजसि सुकृत-विपाके ॥
धीर-समीरे यमुना-तीरे वसति वने वनमाली ॥

5.13

विगलित-वसनम् परिहृत-रसनम् घटय जघनम् अपिधानम् ।
किसलय-शयने पङ्कज-नयने निधिम् इव हर्ष-निदानम् ॥
धीर-समीरे यमुना-तीरे वसति वने वनमाली ॥

5.14

हरिः अभिमानी रजनिः इदानीम् इयम् अपि याति विरामम् ।
कुरु मम वचनम् सत्वर-रचनम् पूरय मधुरिपु-कामम् ॥
धीर-समीरे यमुना-तीरे वसति वने वनमाली ॥

5.15

श्रीजयदेवे कृत-हरि-सेवे भणति परम-रमणीयम् ।
प्रमुदित-हृदयम् हरिम् अतिसदयम् नमत सुकृत-कमनीयम् ॥
धीर-समीरे यमुना-तीरे वसति वने वनमाली ॥

5.16

विकिरति मुहुः श्वासान् आशाः पुरः मुहुः ईक्षते
प्रविशति मुहुः कुञ्जम् गुञ्जन् मुहुः बहु ताम्यति ।
रचयति मुहुः शय्याम् पर्याकुलम् मुहुः ईक्षते
मदन-कदन-क्लान्तः कान्ते प्रियः तव वर्तते ॥

5.17

त्वत्-वाम्येन समम् समग्रम् अधुना तिग्मांशुः अस्तम् गतः
गोविन्दस्य मनोरथेन च समम् प्राप्तम् तमः सान्द्रताम् ।
कोकानाम् करुण-स्वनेन सदृशी दीर्घा मत्-अभ्यर्थना
तत् मुग्धे विफलम् विअलम्बनम् असौ रम्यः अभिसार-क्षणः ॥

5.18

आश्लेषात् अनु चुम्बनात् अनु नख-उल्लेखात् अनु स्वान्तज-
प्रोद्बोधात् अनु संभ्रमात् अनु रत-आरम्भात् अनु प्रीतयोः ।
अन्य-अर्थम् गतयोः भ्रमात् मिलितयोः संभाषणैः जानतोः
दम्पत्योः इह कः न कः न तमसि व्रीडा-विमिश्रः रसः ॥

5.19

सभय-चकितम् विन्यस्यन्तीम् दृशम् तिमिरे पथि
प्रतितरु मुहुः स्थित्वा मन्दम् पदानि वितन्वतीम् ।
कथम् अपि रहः प्राप्ताम् अङ्गैः अनङ्ग-तरङ्गिभिः
सुमुखि सुभगः पश्यन् सः त्वाम् उपैतु कृत-अर्थताम् ॥

मूल पाठ: Gītagovinda · Edition: Barbara Stoler-Miller (New York 1977), with occasional amendments. · Data entry Jakub Cejka · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc