भाषा

ENहिગુ
ग्रंथ पाठ

गीतगोविन्द · अध्याय 6

6.1

अथ ताम् गन्तुम् अशक्ताम् चिरम् अनुरक्ताम् लता-गृहे दृष्ट्वा ।
तत्-चरितम् गोविन्दे मनसिज-मन्दे सखी प्राह ॥

6.2

पश्यति दिशि दिशि रहसि भवन्तम् ।
तत्-अधर-मधुर-मधूनि पिबन्तम् ॥
नाथ हरे सीदति राधा वास-गृहे ॥

6.3

त्वत्-अभिसरण-रभसेन वलन्ती ।
पतति पदानि कियन्ति चलन्ती ॥
नाथ हरे सीदति राधा वास-गृहे ॥

6.4

विहित-विशद-बिस-किसलय-वलया ।
जीवति परम् इह तव रति-कलया ॥
नाथ हरे सीदति राधा वास-गृहे ॥

6.5

मुहुः अवलोकित-मण्डन-लीला ।
मधुरिपुः अहम् इति भावन-शीला ॥
नाथ हरे सीदति राधा वास-गृहे ॥

6.6

त्वरितम् उपैति न कथम् अभिसारम् ।
हरिः इति वदति सखीम् अनुवारम् ॥
नाथ हरे सीदति राधा वास-गृहे ॥

6.7

श्लिष्यति चुम्बति जलधर-कल्पम् ।
हरिः उपगतः इति तिमिरम् अनल्पम् ॥
नाथ हरे सीदति राधा वास-गृहे ॥

6.8

भवति विलम्बिनि विगलित-लज्जा ।
विलपति रोदिति वासक-सज्जा ॥
नाथ हरे सीदति राधा वास-गृहे ॥

6.9

श्रीजयदेव-कवेः इदम् उदितम् ।
रसिक-जनम् तनुताम् अतिमुदितम् ॥
नाथ हरे सीदति राधा वास-गृहे ॥

6.10

विपुल-पुलक-पालिः स्फीत-सीत्कारम् अन्तर्-
जनित-जडिम-काकु-व्याकुलम् व्याहरन्ती ।
तव कितव विधाय अमन्द-कन्दर्प-चिन्ताम्
रस-जलधि-निमग्ना ध्यान-लग्ना मृगाक्षी ॥

6.11

अङ्गेषु आभरणम् करोति बहुशः पत्रे अपि संचारिणि
प्राप्तम् त्वाम् परिशङ्कते वितनुते शय्याम् चिरम् ध्यायति ।
इति आकल्प-विकल्प-तल्प-रचना-संकल्प-लीला-शत-
व्यासक्ता अपि विना त्वया वर-तनुः नैषा निशाम् नेष्यति ॥

मूल पाठ: Gītagovinda · Edition: Barbara Stoler-Miller (New York 1977), with occasional amendments. · Data entry Jakub Cejka · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc