गीतगोविन्द · अध्याय 4
यमुना-तीर-वानीर-निकुञ्जे मन्दम्-आस्थितम् ।
प्राह प्रेम-भर-उद्भ्रान्तम् माधवम् राधिका-सखी ॥
निन्दति चन्दनम् इन्दुकरणम् अनु विन्दति खेदम् अधीरम् ।
व्याल-निलय-मिलनेन गरलम् इव कलयति मलय-समीरम् ॥
सा विरहे तव दीना
माधव मनसिज-विशिख-भयात् इव भावनया त्वयि लीना ॥
अविरल-निपतित-मदन-शरात् इव भवत्-अवनाय विशालम् ।
स्व-हृदय-मर्मणि वर्म करोति सजल-नलिनी-दल-जालम् ॥
सा विरहे तव दीना
माधव मनसिज-विशिख-भयात् इव भावनया त्वयि लीना ॥
कुसुम-विशिख-शर-तल्पम् अनल्प-विलास-कला-कमनीयम् ।
व्रतम् इव तव परिरम्भ-सुखाय करोति कुसुम-शयनीयम् ॥
सा विरहे तव दीना
माधव मनसिज-विशिख-भयात् इव भावनया त्वयि लीना ॥
वहति च गलित-विलोचन-जल-भरम् आनन-कमलम् उदारम् ।
विधुम् इव विकट-विधुन्तुद-दन्त-दलन-गलित-अमृत-धारम् ॥
सा विरहे तव दीना
माधव मनसिज-विशिख-भयात् इव भावनया त्वयि लीना ॥
विलिखति रहसि कुरङ्ग-मदेन भवन्तम् असमशर-भूतम् ।
प्रणमति मकरम् अधः विनिधाय करे च शरम् नव-चूतम् ॥
सा विरहे तव दीना
माधव मनसिज-विशिख-भयात् इव भावनया त्वयि लीना ॥
प्रति-पदम् इदम् अपि निगदति माधव तव चरणे पतिता अहम् ।
त्वयि विमुखे मयि सपदि सुधा-निधिः अपि तनुते तनु-दाहम् ॥
सा विरहे तव दीना
माधव मनसिज-विशिख-भयात् इव भावनया त्वयि लीना ॥
ध्यान-लयेन पुरः परिकल्प्य भवन्तम् अतीव दुरापम् ।
विलपति हसति विषीदति रोदिति चञ्चति मुञ्चति तापम् ॥
सा विरहे तव दीना
माधव मनसिज-विशिख-भयात् इव भावनया त्वयि लीना ॥
श्रीजयदेव-भणितम् इदम् अधिकम् यदि मनसा नटनीयम् ।
हरि-विरह-आकुल-बल्लव-युवति-सखी-वचनम् पठनीयम् ॥
सा विरहे तव दीना
माधव मनसिज-विशिख-भयात् इव भावनया त्वयि लीना ॥
आवासः विपिनायते प्रिय-सखी-माला अपि जालायते
तापः अपि श्वसितेन दाव-दहन-ज्वाला-कलापायते ।
सा अपि त्वत्-विरहेण हन्त हरिणीरूपायते हा कथम्
कन्दर्पः अपि यमायते विरचयन् शार्दूल-विक्रीडितम् ॥
स्तन-विनिहितम् अपि हारम् उदारम् ।
सा मनुते कृश-तनुः अतिभारम् ॥
राधिका विरहे तव केशव ॥
सरस-मसृणम् अपि मलयज-पङ्कम् ।
पश्यति विषम् इव वपुषि सशङ्कम् ॥
राधिका विरहे तव केशव ॥
श्वसित-पवनम् अनुपम-परिणाहम् ।
मदन-दहनम् इव वहति सदाहम् ॥
राधिका विरहे तव केशव ॥
दिशि दिशि किरति सजल-कण-जालम् ।
नयन-नलिनम् इव विगलित-नालम् ॥
राधिका विरहे तव केशव ॥
नयन-विषयम् अपि किसलय-तल्पम् ।
कलयति विहित-हुताश-विकल्पम् ॥
राधिका विरहे तव केशव ॥
त्यजति न पाणि-तलेन कपोलम् ।
बाल-शशिनम् इव सायम् अलोलम् ॥
राधिका विरहे तव केशव ॥
हरिः इति हरिः इति जपति सकामम् ।
विरह-विहित-मरणा इव निकामम् ॥
राधिका विरहे तव केशव ॥
श्रीजयदेव-भणितम् इति गीतम् ।
सुखयतु केशव-पदम् उपनीतम् ॥
राधिका विरहे तव केशव ॥
सा रोमाञ्चति सीत्करोति विलपति उत्कम्पते ताम्यति
ध्यायति उद्भ्रमति प्रमीलति पतति उद्याति मूर्च्छति अपि ।
एतावति अतनु-ज्वरे वर-तनुः जीवेत् न किम् ते रसात्
स्वः-वैद्य-प्रतिम प्रसीदसि यदि त्यक्तः अन्यथा न अन्तकः ॥
स्मर-आतुराम् दैवत-वैद्य-हृद्य त्वत्-अङ्ग-सङ्ग-अमृत-मात्र-साध्याम् ।
विमुक्त-बाधाम् कुरुषे न राधाम् उपेन्द्र वज्रात् अपि दारुणः असि ॥
कन्दर्प-ज्वर-संज्वर-आतुर-तनोः आश्चर्यम् अस्याः चिरम्
चेतः चन्दन-चन्द्रमः-कमलिनी-चिन्तासु संताम्यति ।
किंतु क्लान्ति-वशेन शीतल-तनुम् त्वाम् एकम् एव प्रियम्
ध्यायन्ती रहसि स्थिता कथम् अपि क्षीणा क्षणम् प्राणिति ॥
क्षणम् अपि विरहः पुरा न सेहे
नयन-निमीलन-खिन्नया यया ते ।
श्वसिति कथम् असौ रसाल-शाखाम्
चिर-विरहेण विलोक्य पुष्पित-अग्राम् ॥
मूल पाठ: Gītagovinda · Edition: Barbara Stoler-Miller (New York 1977), with occasional amendments. · Data entry Jakub Cejka · GRETIL (Göttingen) · CC BY-NC-SA 4.0