गीतगोविन्द · अध्याय 3
कंसारिः अपि संसार-वासना-बन्ध-शृङ्खलाम् ।
राधाम् आधाय हृदये तत्याज व्रज-सुन्दरीः ॥
इतः ततः ताम् अनुसृत्य राधिकाम् अनङ्ग-बाण-व्रण-खिन्न-मानसः ।
कृत-आनुतापः स कलिन्द-नन्दिनी-तट-अन्त-कुञ्जे विषसाद माधवः ॥
माम् इयम् चलिता विलोक्य वृतम् वधू-निचयेन ।
स-अपराधतया माम् अपि न वारित-अतिभयेन ॥
हरिहरि हत-आदरतया गता सा कुपिता इव ॥
किम् करिष्यति किम् वदिष्यति सा चिरम् विरहेण ।
किम् धनेन जनेन किम् मम जीवितेन गृहेण ॥
हरिहरि हत-आदरतया गता सा कुपिता इव ॥
चिन्तयामि तत्-आननम् कुटिल-भ्रु कोप-भरेण ।
शोण-पद्मम् इव उपरि भ्रमता आकुलम् भ्रमरेण ॥
हरिहरि हत-आदरतया गता सा कुपिता इव ॥
ताम् अहम् हृदि संगताम् अनिशम् भृशम् रमयामि ।
किम् वने अनुसरामि ताम् इह किम् वृथा विलपामि ॥
हरिहरि हत-आदरतया गता सा कुपिता इव ॥
तन्वि खिन्नम् असूयया हृदयम् तव आकलयामि ।
तत् न वेद्मि कुतः गता असि न तेन ते अनुनयामि ॥
हरिहरि हत-आदरतया गता सा कुपिता इव ॥
दृश्यसे पुरतः गत-आगतम् एव मे विदधासि ।
किम् पुरा इव ससंभ्रमं परिरम्भणम् न ददासि ॥
हरिहरि हत-आदरतया गता सा कुपिता इव ॥
क्षम्यताम् अपरम् कदापि तव ईदृशम् न करोमि ।
देहि सुन्दरि दर्शनम् मम मन्मथेन दुनोमि ॥
हरिहरि हत-आदरतया गता सा कुपिता इव ॥
वर्णितम् जयदेवकेन हरेः इदम् प्रवणेन ।
किन्दुबिल्व-समुद्र-सम्भव-रोहिणी-रमणेन ॥
हरिहरि हत-आदरतया गता सा कुपिता इव ॥
हृदि बिस-लता-हारः न अयम् भुजङ्गम-नायकः
कुवलय-दल-श्रेणी कण्ठे न सा गरल-द्युतिः ।
मलयज-रजः न इदम् भस्म प्रिहार-हिते मयि
प्रहर न हर-भ्रान्त्या अनङ्ग क्रुधा किम् उ धावसि ॥
पाणौ मा कुरु चूत-सायकम् अमुम् मा चापम् आरोपय
क्रीडा-निर्जित-विश्व मूर्च्छित-जन-आघातेन किम् पौरुषम् ।
तस्याः एव मृगी-दृशः मनसिज-प्रेङ्खत्-कटाक्ष-आशुग-
श्रेणी-जर्जरितम् मनाक् अपि मनः न अद्य अपि संधुक्षते ॥
भ्रू-चापे निहितः कटाक्ष-विशिखः निर्मातु मर्म-व्यथाम्
श्याम-आत्मा कुटिलः करोतु कबरी-भारः अपि मार-उद्यमम् ।
मोहम् तावत् अयम् च तन्वि तनुताम् बिम्ब-अधरः रागवान्
सत्-वृत्त-स्तन-मण्डलः तव कथम् प्राणैः मम क्रीडति ॥
तानि स्पर्श-सुखानि ते च तरलाः स्निग्धाः दृशोः विभ्रमाः
तत्-वक्त्र-अम्बुज-सौरभम् सः च सुधा-स्यन्दी गिराम् वक्रिमा ।
सा बिम्ब-अधर-माधुरी इति विषय-आसङ्गे अपि चेत् मानसम्
तस्याम् लग्न-समाधि हन्त विरह-व्याधिः कथम् वर्धते ॥
भ्रू-पल्लवम् धनुः अपाङ्ग-तरङ्गितानि
बाणाः गुणः श्रवण-पालिः इति स्मरेण ।
तस्याम् अनङ्ग-जय-जङ्गम-देवतायाम्
अस्त्राणि निर्जित-जगन्ति किम् अर्पितानि ॥
मूल पाठ: Gītagovinda · Edition: Barbara Stoler-Miller (New York 1977), with occasional amendments. · Data entry Jakub Cejka · GRETIL (Göttingen) · CC BY-NC-SA 4.0