घेरण्डसंहिता · अध्याय 5
अथातः संप्रवक्ष्यामि प्राणायामस्य यद्विधिम्
यस्य साधनमात्रेण देवतुल्यो भवेन् नरः ॥
आदौ स्थानं तथा कालं मिताहारं तथापरम्
नाडीशुद्धिं ततः पश्चात् प्राणायामं च साधयेत् ॥
दूरदेशे तथारण्ये राजधान्यां जनान्तिके
योगारम्भं न कुर्वीत कृतश् चेत् सिद्धिहा भवेत् ॥
अविश्वासं दूरदेशे अरण्ये भक्षवर्जितम्
लोकारण्ये प्रकाशश् च तस्मात् त्रीणि विवर्जयेत् ॥
सुदेशे धार्मिके राज्ये सुभिक्षे निरुपद्रवे
तत्रैकं कुटिरं कृत्वा प्राचीरैः परिवेष्टयेत् ॥
वापीकूपतडागं च प्राचीरमध्यवर्ति च
नात्युच्चं नातिनीचं वा कुटिरं कीटवर्जितम् ॥
सम्यग्गोमयलिप्तं च कुटिरं रन्ध्रवर्जितम्
एवं स्थाने हि गुप्ते च प्राणायामं समभ्यसेत् ॥
हेमन्ते शिशिरे ग्रीष्मे वर्षायां च ऋतौ तथा
योगारम्भं न कुर्वीत कृते योगो हि रोगदः ॥
वसन्ते शरदि प्रोक्तं योगारम्भं समाचरेत्
तदा योगो भवेत् सिद्धो रोगान् मुक्तो भवेद् ध्रुवम् ॥
चैत्रादिफाल्गुनान्ते च माघादिफाल्गुनान्तिके
द्वौ द्वौ मासौ ऋतुभागौ अनुभावश् चतुश् चतुः ॥
वसन्तश् चैत्रवैशाखौ ज्येष्ठाषाढौ च ग्रीष्मकौ
वर्षा श्रावणभाद्राभ्यां शरद् आश्विनकार्तिकौ
मार्गपौषौ च हेमन्तः शिशिरो माघफाल्गुनौ ॥
अनुभावं प्रवक्ष्यामि ऋतूनां च यथोदितम्
माघादिमाधवान्ते हि वसन्तानुभवश् चतुः ॥
चैत्रादि चाषाढान्तं च ग्रीष्मश् चानुभवश् चतुः
आषाढादि चाश्विनान्तं वर्षा चानुभवश् चतुः ॥
भाद्रादि मार्गशीर्षान्तं शरदो ऽनुभवश् चतुः
कार्तिकादिमाघमासान्तं हेमन्तानुभवश् चतुः
मार्गादींश् चतुरो मासाञ् शिशिरानुभवं विदुः ॥
वसन्ते वापि शरदि योगारम्भं तु समाचरेत्
तदा योगो भवेत् सिद्धो विनायासेन कथ्यते ॥
मिताहारं विना यस् तु योगारम्भं तु कारयेत्
नानारोगो भवेत् तस्य किंचिद् योगो न सिध्यति ॥
शाल्यन्नं यवपिण्डं वा गोधूमपिण्डकं तथा
मुद्गं माषचणकादि शुभ्रं च तुषवर्जितम् ॥
पटोलं पनसं मानं कक्कोलं च शुकाशकम्
द्राढिकां कर्कटीं रम्भां डुम्बरीं कण्टकण्टकम् ॥
आमरम्भां बालरम्भां रम्भादण्डं च मूलकम्
वार्ताकीं मूलकम् ऋद्धिं योगी भक्षणम् आचरेत् ॥
बालशाकं काल शाकं तथा पटोलपत्रकम्
पञ्चशाकं प्रशंसीयाद् वास्तूकं हिलमोचिकां ॥
शुद्धं सुमधुरं स्निग्धम् उदरार्धविवर्जितम्
भुज्यते सुरसंप्रीत्या [सुरसं प्रित्या] मिताहारम् इमं विदुः ॥
अन्नेन पूरयेद् अर्धं तोयेन तु तृतीयकम्
उदरस्य तुरीयांशं संरक्षेद् वायुचारणे ॥
कट्व् अम्लं लवणं तिक्तं भृष्टं च दधि तक्रकम्
शाकोत्कटं तथा मद्यं तालं च पनसं तथा ॥
कुलत्थं मसूरं पाण्डुं कूष्माण्डं शाकदण्डकम्
तुम्बीकोलकपित्थं च कण्टबिल्वं पलाशकम् ॥
कदम्बं जम्बीरं बिम्बं लकुचं लशुनं विषम्
कामरङ्गं पियालं च हिङ्गुशाल्मलिकेमुकम् ॥
योगारम्भे वर्जयेच् च पथस्त्रीवह्निसेवनम् ॥
नवनीतं घृतं क्षीरं गुडं शर्करादि चेक्षवं
पक्वरम्भां नारिकेलं दाडिम्बम् अशिवासवम्
द्राक्षां तु लवलीं धात्रीं रसम् अम्लविवर्जितम् ॥
एलाजातिलवङ्गं च पौरुषं जम्बुजाम्बलम्
हरीतकीं खर्जूरं च योगी भक्षणम् आचरेत् ॥
लघुपाकं प्रियं स्निग्धं तथा धातुप्रपोषणम्
मनोअभिलषितं योग्यं योगी भोजनम् आचरेत् ॥
काठिन्यं दुरितं पूतिम् उष्णं पर्युषितं तथा
अतिशीतं चाति चोष्णं भक्ष्यं योगी विवर्जयेत् ॥
प्रातःस्नानोपवासादि कायक्लेशविधिं तथा
एकाहारं निराहारं यामान्ते च न कारयेत् ॥
एवंविधिविधानेन प्राणायामं समाचरेत्
आरम्भे प्रथमे कुर्यात् क्षीराद्यं नित्यभोजनम्
मध्याह्ने चैव सायाह्ने भोजनद्वयम् आचरेत् ॥
कुशासने मृगाजिने व्याघ्राजिने च कम्बले
स्थूलासने समासीनः प्राङ्मुखो वाप्युदङ्मुखः
नाडीशुद्धिं समासाद्य प्राणायामं समभ्यसेत् ॥
नाडीशुद्धिं कथं कुर्यान् नाडीशुद्धिस् तु कीदृशी
तत् सर्वं श्रोतुम् इच्छामि तद् वदस्व दयानिधे ॥
मलाकुलासु नाडीषु मारुतो नैव गच्छति
प्राणायामः कथं सिध्येत् तत्त्वज्ञानं कथं भवेत्
तस्माद् आदौ नडीशुद्धिं प्राणायामं ततो ऽभ्यसेत् ॥
नाडीशुद्धिर् द्विधा प्रोक्ता समनुर् निर्मनुस् तथा
बीजेन समनुं कुर्यान् निर्मनुं धौतिकर्मणि ॥
धौतिकर्म पुरा प्रोक्तं षट्कर्मसाधने यथा
शृणुष्व समनुं चण्ड नाडीशुद्धिर् यथा भवेत् ॥
उपविश्यासने योगी पद्मासनं समाचरेत्
गुर्वादिन्यासनं कृत्वा यथैव गुरुभाषितम्
नाडीशुद्धिं प्रकुर्वीत प्राणायामविशुद्धये ॥
वायुबीजं ततो ध्यात्वा धूम्रवर्णं सतेजसम्
चन्द्रेण पूरयेद् वायुं बीजं षोडशकैः सुधीः ॥
चतुःषष्ट्या मात्रया च कुम्भकेनैव धारयेत्
द्वात्रिंशन्मात्रया वायुं सूर्यनाड्या च रेचयेत् ॥
नाभिमूलाद् वह्निम् उत्थाप्य ध्यायेत् तेजो वनीयुतम्
वह्निबीजं षोडशेन सूर्यनाड्या च पूरयेत् ॥
चतुःषष्ट्या मात्रया च कुम्भकेनैव धारयेत्
द्वात्रिंशन्मात्रया वायुं शशिनाड्या च रेचयेत् ॥
नासाग्रे शशधृग् बिम्बं ध्यात्वा ज्योत्स्नासमन्वितम्
ठं बीजं षोडशेनैव इडया पूरयेन् मरुत् ॥
चतुःषष्ट्या मात्रया च [कुम्भकेनैव] धारयेत्
अमृतप्लावितं ध्यात्वा प्राणायामं समभ्यसेत् ॥
[वं बीजं शोडशेनैव सूर्यनाड्या च पूरयेत्]
द्वात्रिंशेन लकारेण दृढं भाव्यं विरेचयेत् ॥
एवंविधां नाडीशुद्धिं कृत्वा नाडीं विशोधयेत्
दृढो भूत्वासनं कृत्वा प्राणायामं समाचरेत् ॥
सहितः सूर्यभेदश् च उज्जायी शीतली तथा
भस्त्रिका भ्रामरी मूर्च्छा केवली चाष्ट कुम्भिकाः ॥
सहितौ द्विविधौ प्रोक्तौ प्राणायामं समाचरेत्
सगर्भो बीजम् उच्चार्य निर्गर्भो बीजवर्जितः
प्राणायामं सगर्भं च प्रथमं कथयामि ते ॥
सुखासने चोपविश्य प्राङ्मुखो वाप्य् उदङ्मुखः
ध्यायेद् विधिं रजोगुणं रक्तवर्णम् अवर्णकम् ॥
इडया पूरयेद् वायुं मात्रया षोडशैः सुधीः
पूरकान्ते कुम्भकाद्ये कर्तव्यस् तूड्डियानकः ॥
सत्त्वमयं हरिं ध्यात्वा उकारैः शुक्लवर्णकैः
चतुःषष्ट्या च मात्रया अनिलं कुम्भकं चरेत्
कुम्भकान्ते रेचकाद्ये कर्तव्यं च जालंधरम् ॥
रुद्रं तमोगुणं ध्यात्वा मकारैः कृष्णवर्णकैः
द्वात्रिंशन्मात्रया चैव रेचयेद् विधिना पुनः ॥
पुनः पिङ्गलयापूर्य कुम्भकेनैव धारयेत्
इडया रेचयेत् पश्चात् तद्बीजेन क्रमेण तु ॥
अनुलोमविलोमेन वारं वारं च साधयेत्
पूरकान्ते कुम्भकाद्ये धृतं नासापुटद्वयम्
कनिष्ठानामिकाङ्गुष्ठैस् तर्जनीमध्यमे विना ॥
प्राणायामं निगर्भं तु विना बीजेन जायते
वामजानूपरि न्यस्त वामपाणितलं भ्रमेत्
मात्रादिशतपर्यन्तं पूरकुम्भकरेचनम् ॥
उत्तमा विंशतिर् मात्रा मध्यमा षोडशी स्मृता
अधमा द्वादशी मात्रा प्राणायामास् त्रिधा स्मृताः ॥
अधमाज् जायते घर्मो मेरुकम्पश् च मध्यमात्
उत्तमाच् च भूमित्यागस् त्रिविधं सिद्धिलक्षणम् ॥
प्राणायामात् खेचरत्वं प्राणायामाद् रोगनाशनम्
प्राणायामाद् बोधयेच् छक्तिं प्राणायामान् मनोन्मनी
आनन्दो जायते चित्ते प्राणायामी सुखी भवेत् ॥
कथितं सहितं कुम्भं सूर्यभेदनकं शृणु
पूरयेत् सूर्यनाड्या च यथाशक्ति बहिर्मरुत् ॥
धारयेद् बहुयत्नेन कुम्भकेन जलंधरैः
यावत् स्वेदं नखकेशाभ्यां तावत् कुर्वन्तु कुम्भकम् ॥
प्राणो ऽपानः समानश् च उदानव्यानौ च वायवः
नागः कूर्मश् च कृकरो देवदत्तो धनंजयः ॥
हृदि प्राणो वहेन् नित्यम् अपानो गुदमण्डले
समानो नाभिदेशे तु उदानः कण्ठमध्यगः
व्यानो व्याप्य शरीरे तु प्रधानाः पञ्च वायवः ॥
प्राणाद्याः पञ्च विख्याता नागाद्याः पञ्च वायवः
तेषाम् अपि च पञ्चानां स्थानानि च वदाम्य् अहम् ॥
उद्गारे नाग आख्यातः कूर्मस् तून्मीलने स्मृतः
कृकरः क्षुत्तृषे ज्ञेयो देवदत्तो विजृम्भणे
न जहाति मृते क्वापि सर्वव्यापी धनंजयः ॥
नागो गृह्णाति चैतन्यं कूर्मश् चैव निमेषणम्
क्षुत्तृषं कृकरश् चैव जृम्भणं चतुर्थेन तु
भवेद् धनंजयाच् छब्दं क्षणमात्रं न निःसरेत् ॥
सर्वं च सूर्यकं भित्वा नाभिमूलात् समुद्धरेत् ॥
इडया रेचयेत् पश्चाद् धैर्येणाखण्डवेगतः
पुनः सूर्येण चाकृष्य कुम्भयित्वा यथाविधि ॥
रेचयित्वा साधयेत् तु क्रमेण च पुनः पुनः
कुम्भकः सूर्यभेदस् तु जरामृत्युविनाशकः ॥
बोधयेत् कुण्डलीं शक्तिं देहानलविवर्धनम्
इति ते कथितं चण्ड सूर्यभेदनम् उत्तमम् ॥
नासाभ्यां वायुम् आकृष्य मुखमध्ये च धारयेत्
हृद्गलाभ्यां समाकृष्य वायुं वक्त्रेण धारयेत् ॥
मुखं प्रफुल्लं संरक्ष्य कुर्याज् जालंधरं ततः
आशक्ति कुम्भकं कृत्वा धारयेद् अविरोधतः ॥
उज्जायीकुम्भकं कृत्वा सर्वकार्याणि साधयेत्
न भवेत् कफरोगश् च क्रूरवायुर् अजीर्णकम् ॥
आमवातः क्षयः कासो ज्वरप्लीहा न जायते
जरामृत्युविनाशाय चोज्जायीं साधयेन् नरः ॥
जिह्वया वायुम् आकृष्य उदरे पूरयेच् छनैः
क्षणं च कुम्भकं कृत्वा नासाभ्यां रेचयेत् पुनः ॥
सर्वदा साधयेद् योगी शीतलीकुम्भकं शुभम्
अजीर्णं कफपित्तं च नैव तस्य प्रजायते ॥
भस्त्रेव लोहकाराणां यथाक्रमेण संभ्रमेत्
ततो वायुं च नासाभ्याम् उभाभ्यां चालयेच् छनैः ॥
एवं विंशतिवारं च कृत्वा कुर्याच् च कुम्भकम्
तदन्ते चालयेद् वायुं पूर्वोक्तं च यथाविधि ॥
त्रिवारं साधयेद् एनं भस्त्रिकाकुम्भकं सुधीः
न च रोगो न च क्लेश आरोग्यं च दिने दिने ॥
अर्धरात्रे गते योगी जन्तूनां शब्दवर्जिते
कर्णौ निधाय हस्ताभ्यां कुर्यात् पूरकम् उत्तमम् ॥
शृणुयाद् दक्षिणे कर्णे नादम् अन्तर्गतं सुधीः
प्रथमं झिंझीनादं च वंशीनादं ततः परम्
मेघघर्घरभ्रामरी च घण्टाकांस्यं ततः परम् ॥
तुरीभेरीमृदङ्गादि वीणानादकदुन्दुभिः
एवं नानाविधो नादो जायते नित्यम् अभ्यसात् ॥
अनाहतस्य शब्दस्य तस्य शब्दस्य यो ध्वनिः
ध्वनेर् अन्तर्गतं ज्योतिर् ज्योतिर् अन्तर्गतं मनः ॥
तस्मिंस् तु विलयं याति तद् विष्णोः परमं पदम्
एवं भ्रामरीसंसिद्धिः समाधिसिद्धिम् आप्नुयात् ॥
मुखे च कुम्भकं कृत्वा भ्रुवोर् अन्तर्गतं मनः
संत्यज्य विषयान् सर्वान् मनोमूर्च्छा सुखप्रदा ॥
आत्मनि मनसंयोगाद् आनन्दं जायते ध्रुवम्
एवं नानाविधानन्दो जायते नित्यम् अभ्यसात्
एवम् अभ्यासयोगेन समाधिसिद्धिम् आप्नुयात् ॥
भुजंगिन्याः श्वासवशाद् अजपा जायते ननु
हंकारेण बहिर् याति सःकारेण विशेत् पुनः ॥
षट् शतानि दिवारात्रौ सहस्राण्य् एकविंशतिः
अजपां नाम गायत्रीं जीवो जपति सर्वदा ॥
मूलाधारे यथा हंसस् तथा हि हृदि पङ्कजे
तथा नासापुटद्वन्द्वे त्रिवेणीसंगमागमम् ॥
षण्णवत्यङ्गुलीमानं शरीरं कर्मरूपकम्
देहाद् बहिर्गतो वायुः स्वभावाद् द्वादशाङ्गुलिः ॥
शयने षोडशाङ्गुल्यो भोजने विंशतिस् तथा
चतुर्विंशाङ्गुलिः पन्थे निद्रायां त्रिंशदङ्गुलिः
मैथुने षट्त्रिंशद् उक्तं व्यायामे च ततो ऽधिकम् ॥
स्वभावे ऽस्य गतेर् न्यूने परम् आयुः प्रवर्धते
आयुःक्षयो ऽधिके प्रोक्तो मारुते चान्तराद् गते ॥
तस्मात् प्राणे स्थिते देहे मरणं नैव जायते
वायुना घटसंबन्धे भवेत् केवलकुम्भकः ॥
यावज्जीवं जपेन् मन्त्रम् अजपासंख्यकेवलम्
अद्यावधि धृतं संख्या विभ्रमं केवलीकृते ॥
अत एव हि कर्तव्यः केवलीकुम्भको नरैः
केवली चाजपासंख्या द्विगुणा च मनोन्मनी ॥
नासाभ्यां वायुम् आकृष्य केवलं कुम्भकं चरेत्
एकादिकचतुःषष्टिं धारयेत् प्रथमे दिने ॥
केवलीम् अष्टधा कुर्याद् यामे यामे दिने दिने
अथ वा पञ्चधा कुर्याद् यथा तत् कथयामि ते ॥
प्रातर् मध्याह्नसायाह्ने मध्यरात्रे चतुर्थके
त्रिसंध्यम् अथ वा कुर्यात् सममाने दिने दिने ॥
पञ्चवारं दिने वृद्धिर् वारैकं च दिने तथा
अजपापरिमाणे च यावत् सिद्धिः प्रजायते ॥
प्राणायामं केवलीं नाम तदा वदति योगवित्
कुम्भके केवले सिद्धे किं न सिध्यति भूतले ॥
मूल पाठ: Gheraṇḍasaṃhitā · Edition: Gherandasamhita : Sanskrit-deutsch. Ed. Peter Thomi. Wichtrach: Institut fuer Indologie, 1993 (ISBN 3 7187 0013 1). · Data entry Peter Thomi · GRETIL (Göttingen) · CC BY-NC-SA 4.0