भाषा

ENहिગુ
ग्रंथ पाठ

घेरण्डसंहिता · अध्याय 4

4.1

अथातः संप्रवक्ष्यामि प्रत्याहारकम् उत्तमम्
यस्य विज्ञानमात्रेण कामादिरिपुनाशनम् ॥

4.2

यतो यतो निश्चरति मनश् चञ्चलम् अस्थिरम्
ततस् ततो नियम्यैतद् आत्मन्य् एव वशं नयेत् ॥

4.3

यत्र यत्र गता दृष्टिर् मनस् तत्र प्रगच्छति
ततः प्रत्याहरेद् एतद् आत्मन्य् एव वशं नयेत् ॥

4.4

पुरस्कारं तिरस्कारं सुश्राव्यं वा भयानकम्
मनस् तस्मान् नियम्यैतद् आत्मन्य् एव वशं नयेत् ॥

4.5

शीतं वापि तथा चोष्णं यन् मनःस्पर्शयोगतः
तस्मात् प्रत्याहरेद् एतद् आत्मन्य् एव वशं नयेत् ॥

4.6

सुगन्धे वापि दुर्गन्धे घ्राणेषु जायते मनः
तस्मात् प्रत्याहरेद् एतद् आत्मन्य् एव वशं नयेत् ॥

4.7

मधुराम्लकतिक्तादि रसं गतं यदा मनः
तस्मात् प्रत्याहरेद् एतद् आत्मन्य् एव वशं नयेत् ॥

4.8

शब्दादिष्व् अनुरक्तानि निगृह्याक्षाणि योगवित्
कुर्याच् चित्तानुचारीणि प्रत्याहारपरायणः ॥

4.9

वश्यता परमा तेन जायते ऽतिचलात्मनाम्
इन्द्रियाणाम् अवश्यैस् तैर् न योगी योगसाधकः ॥

4.10

प्राणायामैर् दहेद् दोषान् धारणाभिश् च किल्बिषम्
प्रत्याहारेण विषयान् ध्यानेनानीश्वरान् गुणान् ॥

4.11

यथा पर्वतधातूनां दोषा दह्यन्ति धाम्यताम्
तथेन्द्रियकृता दोषा दह्यन्ते प्राणनिग्रहात् ॥

4.12

समः समासनो भूत्वा संहृत्य चरणाव् उभौ
संवृतास्यस् तथैवोरू सम्यग् विष्टभ्य चाग्रतः ॥

4.13

पार्ष्णिभ्यां लिङ्गवृषणाव् अस्पृशन् प्रयतः स्थितः
किंचिदुन्नामितशिरा दन्तैर् दन्तान् न संस्पृशेत्
संपश्यन् नासिकाग्रं स्वं दिशश् चानवलोकयन् ॥

4.14

रजसा तमसो वृत्तिं सत्त्वेन रजसस् तथा
संछाद्य निर्मले सत्त्वे स्थितो युञ्जीत योगवित् ॥

4.15

इन्द्रियाणीन्द्रियार्थेभ्यः प्राणादीन् मन एव च
निगृह्य समवायेन प्रत्याहारम् उपक्रमेत् ॥

4.16

यस् तु प्रत्याहरेत् कामान् सर्वाङ्गान् ईव कच्छपः
सदात्मरतिर् एकस्थः पश्यत्य् आत्मानम् आत्मनि ॥

4.17

स बाह्याभ्यन्तरं शौचं निष्पाद्याकण्ठनाभितः
पूरयित्वा बुधो देहं प्रत्याहारम् उपक्रमेत् ॥

4.18

तथा वै योगयुक्तस्य योगिनो नियतात्मनः
(सर्वे दोषाः प्रणश्यन्ति स्वस्थश् चैवोपजायते) ॥

मूल पाठ: Gheraṇḍasaṃhitā · Edition: Gherandasamhita : Sanskrit-deutsch. Ed. Peter Thomi. Wichtrach: Institut fuer Indologie, 1993 (ISBN 3 7187 0013 1). · Data entry Peter Thomi · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc