घेरण्डसंहिता · अध्याय 6
स्थूलं ज्योतिस् तथा सूक्ष्मं ध्यानस्य त्रिविधं विदुः
स्थूलं मूर्तिमयं प्रोक्तं ज्योतिस् तेजोमयं तथा
सूक्ष्मं बिन्दुमयं ब्रह्म कुण्डली परदेवता ॥
स्वकीयहृदये ध्यायेत् सुधासागरम् उत्तमम्
तन्मध्ये रत्नद्वीपं तु सुरत्नवालुकामयम् ॥
चतुर्दिक्षु नीपतरुं बहुपुष्पसमन्वितम्
नीपोपवनसंकुलैर् वेष्टितं परिता इव ॥
मालतीमल्लिकाजाती$केसरैश् चम्पकैस् तथा &
पारिजातैः स्थलपद्मैर् गन्धामोदितदिङ्मुखैः ॥
तन्मध्ये संस्मरेद् योगी कल्पवृक्षं मनोरमम्
चतुःशाखाचतुर्वेदं नित्यपुष्पफलान्वितम् ॥
भ्रमराः कोकिलास् तत्र गुञ्जन्ति निगदन्ति च
ध्यायेत्तत्र स्थिरो भूत्वा महामाणिक्यमण्डपम् ॥
तन्मध्ये तु स्मरेद् योगी पर्यङ्कं सुमनोहरम्
तत्रेष्टदेवतां ध्यायेद् यद्ध्यानं गुरुभाषितम् ॥
यस्य देवस्य यद् रूपं यथा भूषणवाहनम्
तद् रूपं ध्यायते नित्यं स्थूलध्यानम् इदं विदुः ॥
सहस्रारमहापद्मे कर्णिकायां विचिन्तयेत्
विलग्नसहितं पद्मं द्वादशैर् दलसंयुतम् ॥
शुभ्रवर्णं महातेजो द्वादशैर् बीजभाषितम्
सहक्षमवलरियुं हंसशक्तिं यथाक्रमम् ॥
तन्मध्ये कर्णिकायां तु अकथादिरेखात्रयम्
हलक्षकोणसंयुक्तं प्रणवं तत्र वर्तते ॥
नादबिन्दुमयं पीठं ध्यायेत् तत्र मनोहरम्
तत्रोपरि हंसयुग्मं पादुका तत्र वर्तते ॥
ध्यायेत्तत्र गुरुं देवं विभुजं च त्रिलोचनम्
श्वेताम्बरधरं देवं शुक्लगन्धानुलेपनम् ॥
शुक्लपुष्पमयं माल्यं रक्तशक्तिसमन्वितम्
एवंविधगुरुध्यानात् स्थूलध्यानं प्रसिध्यति ॥
कथितं स्थूलध्यानं तु तेजोध्यानं शृणुष्व मे
यद्ध्यानेन योगसिद्धिर् आत्मप्रत्यक्षम् एव च
मूलाधारे कुण्डलिनी भुजगाकाररूपिणी ॥
जीवात्मा तिष्ठति तत्र प्रदीपकलिकाकृतिः
ध्यायेत् तेजोमयं ब्रह्म तेजोध्यानं तद् एव हि ॥
नाभिमूले स्थितं सूर्य मण्डलं वह्निसंयुतम्
ध्यायेत् तेजो महद् व्याप्तं तेजोध्यानं तद् एव हि ॥
भ्रुवोर् मध्ये मनोर्ध्वे च यत् तेजः प्रणवात्मकम्
ध्यायेज् ज्वालावलीयुक्तं तेजोध्यानं तद् एव हि ॥
तेजोध्यानं श्रुतं चण्ड सूक्ष्मध्यानं वदाम्य् अहम्
बहुभाग्यवशाद् यस्य कुण्डली जाग्रती भवेत् ॥
आत्मना सह योगेन नेत्ररन्ध्राद् विनिर्गता
विहरेद् राजमार्गे च चञ्चलत्वान् न दृश्यते ॥
शांभवीमुद्रया योगी ध्यानयोगेन सिध्यति
सूक्ष्मध्यानम् इदं गोप्यं देवानाम् अपि दुर्लभम् ॥
स्थूलध्यानाच् छतगुणं तेजोध्यानं प्रचक्षते
तेजोध्यानाल् लक्षगुणं सूक्ष्मध्यानं परात्परम् ॥
इति ते कथितं चण्ड ध्यानयोगं सुदुर्लभम्
आत्मा साक्षाद् भवेद् यस्मात् तस्माद् ध्यानं विशिष्यते ॥
मूल पाठ: Gheraṇḍasaṃhitā · Edition: Gherandasamhita : Sanskrit-deutsch. Ed. Peter Thomi. Wichtrach: Institut fuer Indologie, 1993 (ISBN 3 7187 0013 1). · Data entry Peter Thomi · GRETIL (Göttingen) · CC BY-NC-SA 4.0