भाषा

ENहिગુ
ग्रंथ पाठ

घेरण्डसंहिता · अध्याय 3

3.1

महामुद्रा नभोमुद्रा उड्डीयानं जलंधरम्
मूलबन्धं महाबन्धं महावेधश् च खेचरी ॥

3.2

विपरीतकरणी योनिर् वज्रोली शक्तिचालनी
तडागी माण्डुकी मुद्रा शांभवी पञ्चधारणा ॥

3.3

अश्विनी पाशिनी काकी मातङ्गी च भुजंगिनी
पञ्चविंशतिमुद्राश् च सिद्धिदा इह योगिनाम् ॥

3.4

मुद्राणां पटलं देवि कथितं तव संनिधौ
येन विज्ञातमात्रेण सर्वसिद्धिः प्रजायते ॥

3.5

गोपनीयं प्रयत्नेन न देयं यस्य कस्यचित्
प्रीतिदं योगिनां चैव दुर्लभं मरुताम् अपि ॥

3.6

पायुमूलं वामगुल्फे संपीड्य दृढयत्नतः
याम्यपादं प्रसार्याथ कराभ्यां धृतपदाङ्गुलिः ॥

3.7

कण्ठसंकोचनं कृत्वा भ्रुवोर् मध्ये निरीक्षयेत्
पूरकैर् वायुं संपूर्य महामुद्रा निगद्यते ॥

3.8

वलितं पलितं चैव जरां मृत्युं निवारयेत्
क्षयकासं गुदावर्तं प्लीहाजीर्णं ज्वरं तथा
नाशयेत् सर्वरोगांश् च महामुद्राभिसेवनात् ॥

3.9

यत्र यत्र स्थितो योगी सर्वकार्येषु सर्वदा
ऊर्ध्वजिह्वः स्थिरो भूत्वा धारयेत् पवनं सदा
नभोमुद्रा भवेद् एषा योगिनां रोगनाशिनी ॥

3.10

उदरे पश्चिमं तानं नाभेर् ऊर्ध्वं तु कारयेत्
उड्डीनं कुरुते यस्माद् अविश्रान्तं महाखगः
उड्डीयानं त्व् असौ बन्धो मृत्युमातंगकेसरी ॥

3.11

समग्राद् बन्धनाद् ध्य् एतद् उड्डीयानं विशिष्यते
उड्डीयाने समभ्यस्ते मुक्तिः स्वाभाविकी भवेत् ॥

3.12

कण्ठसंकोचनं कृत्वा चिबुकं हृदये न्यसेत्
जालंधरे कृते बन्धे षोडशाधारबन्धनम्
जालंधरमहामुद्रा मृत्योश् च क्षयकारिणी ॥

3.13

सिद्धं जालंधरं बन्धं योगिनां सिद्धिदायकम्
षण्मासम् अभ्यसेद् यो हि स सिद्धो नात्र संशयः ॥

3.14

पार्ष्णिना वामपादस्य योनिम् आकुञ्चयेत् ततः
नाभिग्रन्थिं मेरुदण्डे संपीड्य यत्नतः सुधीः ॥

3.15

मेढ्रं दक्षिणगुल्फेन दृढबन्धं समाचरेत्
नाभेर् ऊर्ध्वम् अधश् चापि तानं कुर्यात् प्रयत्नतः
जराविनाशिनी मुद्रा मूलबन्धो निगद्यते ॥

3.16

संसारसागरं तर्तुम् अभिलषति यः पुमान्
विरले सुगुप्तो भूत्वा मुद्राम् एतां समभ्यसेत् ॥

3.17

अभ्यासाद् बन्धनस्यास्य मरुत्सिद्धिर् भवेद् ध्रुवम्
साधयेद् यत्नतस् तर्हि मौनी तु विजितालसः ॥

3.18

वामपादस्य गुल्फेन पायुमूलं निरोधयेत्
दक्षपादेन तद् गुल्फं संपीड्य यत्नतः सुधीः ॥

3.19

शनैः शनैश् चालयेत् पार्ष्णिं योनिम् आकुञ्चयेच् छनैः
जालंधरे धारयेत् प्राणं महाबन्धो निगद्यते ॥

3.20

महाबन्धः परो बन्धो जरामरणनाशनः
प्रसादाद् अस्य बन्धस्य साधयेत् सर्ववाञ्छितम् ॥

3.21

रूपयौवनलावण्यं नारीणां पुरुषं विना
मूलबन्धमहाबन्धौ महावेधं विना तथा ॥

3.22

महाबन्धं समासाद्य उड्डानकुम्भकं चरेत्
महावेधः समाख्यातो योगिनां सिद्धिदायकः ॥

3.23

महाबन्धमूलबन्धौ महावेधसमन्वितौ
प्रत्यहं कुरुते यस् तु स योगी योगवित्तमः ॥

3.24

न मृत्युतो भयं तस्य न जरा तस्य विद्यते
गोपनीयः प्रयत्नेन वेधो यं योगिपुंगवैः ॥

3.25

जिह्वाधो नाडीं संछित्य रसनां चालयेत् सदा
दोहयेन् नवनीतेन लौहयन्त्रेण कर्षयेत् ॥

3.26

एवं नित्यं समभ्यासाल् लम्बिका दीर्घतां व्रजेत्
यावद् गच्छेद् भ्रुवोर् मध्ये तदा सिध्यति खेचरी ॥

3.27

रसनां तालुमध्ये तु शनैः शनैः प्रवेशयेत्
कपालकुहरे जिह्वा प्रविष्टा विपरीतगा
भ्रुवोर् मध्ये गता दृष्टिर् मुद्रा भवति खेचरी ॥

3.28

न च मूर्च्छा क्षुधा तृष्णा नैवालस्यं प्रजायते
न च रोगो जरा मृत्युर् देवदेहं प्रपद्यते ॥

3.29

न चाग्निर् दहते गात्रं न शोषयति मारुतः
न देहं क्लेदयन्त्य् आपो दंशयेन् न भुजंगमः ॥

3.30

लावण्यं च भवेद् गात्रे समाधिर् जायते ध्रुवम्
कपालवक्त्रसंयोगे रसना रसम् आप्नुयात् ॥

3.31

नानाविधिसमुद्भूतम् आनन्दं च दिने दिने
आदौ लवणक्षारं च ततस् तिक्तकषायकम् ॥

3.32

नवनीतं घृतं क्षीरं दधितक्रमधूनि च
द्राक्षारसं च पीयूषं जायते रसनोदकम् ॥

3.33

नाभिमूले वसेत् सूर्यस् तालुमूले च चन्द्रमाः
अमृतं ग्रसते सूर्यस् ततो मृत्युवशो नरः ॥

3.34

ऊर्ध्वं च योजयेत् सूर्यं चन्द्रं च अध आनयेत्
विपरीतकरी मुद्रा सर्वतन्त्रेषु गोपिता ॥

3.35

भूमौ शिरश् च संस्थाप्य करयुग्मं समाहितः
ऊर्ध्वपादः स्थिरो भूत्वा विपरीतकरी मता ॥

3.36

मुद्रेयं साधयेन् नित्यं जरां मृत्युं च नाशयेत्
स सिद्धः सर्वलोकेषु प्रलये ऽपि न सीदति ॥

3.37

सिद्धासनं समासाद्य कर्णाक्षिनासिकामुखम्
अङ्गुष्ठतर्जनीमध्या नामादिभिश् च धारयेत् ॥

3.38

काकीभिः प्राणं संकृष्य अपाने योजयेत् ततः
षट् चक्राणि क्रमाद् धृत्वा हुंहंसमनुना सुधीः ॥

3.39

चैतन्यम् आनयेद् देवीं निद्रिता या भुजंगिनी
जीवेन सहितां शक्तिं समुत्थाप्य पराम्बुजे ॥

3.40

शक्तिमयं स्वयं भूत्वा परं शिवेन संगमम्
नानासुखं विहारं च चिन्तयेत् परमं सुखम् ॥

3.41

शिवशक्तिसमायोगाद् एकान्तं भुवि भावयेत्
आनन्दमानसो भूत्वा अहं ब्रह्मेति संभवेत् ॥

3.42

योनिमुद्रा परा गोप्या देवानाम् अपि दुर्लभा
सकृत्तद्भावसंसिद्धः समाधिस्थः स एव हि ॥

3.43

ब्रह्महा भ्रूणहा चैव सुरापो गुरुतल्पगः
एतैः पापैर् न लिप्यते योनिमुद्रानिबन्धनात् ॥

3.44

यानि पापानि घोराणि उपपापानि यानि च
तानि सर्वाणि नश्यन्ति योनिमुद्रानिबन्धनात्
तस्माद् अभ्यसनं कुर्याद् यदि मुक्तिं समिच्छति ॥

3.45

धराम् अवष्टभ्य करद्वयाभ्याम् $
ऊर्ध्वं क्षिपेत् पादयुगं शिरः खे &
शक्तिप्रबोधाय चिरजीवनाय %
वज्रोलिमुद्रां मुनयो वदन्ति ॥

3.46

अयं योगो योगश्रेष्ठो योगिनां मुक्तिकारणम्
अयं हितप्रदो योगो योगिनां सिद्धिदायकः ॥

3.47

एतद् योगप्रसादेन बिन्दुसिद्धिर् भवेद् ध्रुवम्
सिद्धे बिन्दौ महायत्ने किं न सिध्यति भूतले ॥

3.48

भोगेन महता युक्तो यदि मुद्रां समाचरेत्
तथापि सकला सिद्धिस् तस्य भवति निश्चितम् ॥

3.49

मूलाधारे आत्मशक्तिः कुण्डली परदेवता
शयिता भुजगाकारा सार्धत्रिवलयान्विता ॥

3.50

यावत् सा निद्रिता देहे तावज् जीवः पशुर् यथा
ज्ञानं न जायते तावत् कोटियोगं समभ्यसेत् ॥

3.51

उद्घाटयेत् कवाटं च यथा कुञ्चिकया हठात्
कुण्डलिन्याः प्रबोधेन ब्रह्मद्वारं विभेदयेत् ॥

3.52

नाभिं बृहद्वेष्टनं च न च नग्नं बहिः स्थितम्
गोपनीयगृहे स्थित्वा शक्तिचालनम् अभ्यसेत् ॥

3.53

वितस्तिप्रमितं दीर्घं विस्तारे चतुरङ्गुलम्
मृदुलं धवलं सूक्ष्म वेष्टनाम्बरलक्षणम्
एवम् अम्बरम् उक्तं च कटिसूत्रेण योजयेत् ॥

3.54

भास्मना गात्रसंलिप्तं सिद्धासनं समाचरेत्
नासाभ्यां प्राणम् आकृष्य अपाने योजयेद् बलात् ॥

3.55

तावद् आकुञ्चयेद् गुह्यं शनैर् अश्विनिमुद्रया
यावद् गच्छेत् सुषुम्णायां वायुः प्रकाशयेद् धठात् ॥

3.56

तावद् वायुप्रभेदेन कुम्भिका च भुजंगिनी
बद्धश्वासस् ततो भूत्वा च ऊर्ध्वमात्रं प्रपद्यते
शब्दद्वयं फलैकं तु योनिमुद्रां च चालयेत् ॥

3.57

विना शक्तिचालनेन योनिमुद्रा न सिध्यति
आदौ चालनम् अभ्यस्य योनिमुद्रां समभ्यसेत् ॥

3.58

इति ते कथितं चण्ड प्रकारं शक्तिचालनम्
गोपनीयं प्रयत्नेन दिने दिने समभ्यसेत् ॥

3.59

मुद्रेयं परमा गोप्या जरामरणनाशिनी
तस्माद् अभ्यसनं कार्यं योगिभिः सिद्धिकाङ्क्षिभिः ॥

3.60

नित्यं यो ऽभ्यसते योगी सिद्धिस् तस्य करे स्थिता
तस्य विग्रहसिद्धिः स्याद् रोगाणां संक्षयो भवेत् ॥

3.61

उदरे पश्चिमं तानं कृत्वा च तडागाकृति
तडागी सा परा मुद्रा जरामृत्युविनाशिनी ॥

3.62

मुखं संमुद्रितं कृत्वा जिह्वामूलं प्रचालयेत्
शनैर् ग्रसेद् अमृतं तन् माण्डुकीं मुद्रिकां विदुः ॥

3.63

वलितं पलितं नैव जायते नित्ययौवनम्
न केशे जायते पाको यः कुर्यान् नित्य माण्डुकीम् ॥

3.64

नेत्राञ्जनं समालोक्य आत्मारामं निरीक्षयेत्
सा भवेच् छांभवी मुद्रा सर्वतन्त्रेषु गोपिता ॥

3.65

वेदशास्त्रपुराणानि सामान्यगणिका इव
इयं तु शांभवी मुद्रा गुप्ता कुलवधूर् इव ॥

3.66

स एव आदिनाथश् च स च नारायणः स्वयम्
स च ब्रह्मा सृष्टिकारी यो मुद्रां वेत्ति शांभवीम् ॥

3.67

सत्यं सत्यं पुनः सत्यं सत्यम् उक्तं महेश्वर
शांभवीं यो विजानीयात् स च ब्रह्म न चान्यथा ॥

3.68

कथिता शांभवी मुद्रा शृणुष्व पञ्चधारणाम्
धारणानि समासाद्य किं न सिध्यति भूतले ॥

3.69

अनेन नरदेहेन स्वर्गेषु गमनागमम्
मनोगतिर् भवेत् तस्य खेचरत्वं न चान्यथा ॥

3.70

यत् तत्त्वं हरितालदेशरचितं भौमं लकारान्वितं $
वेदास्रं कमलासनेन सहितं कृत्वा हृदि स्थायिनम् &
प्राणं तत्र विनीय पञ्चघटिकाश् चित्तान्वितं धारयेद् %
एषा स्तम्भकरी सदा क्षितिजयं कुर्याद् अधोधारणा ॥

3.71

पार्थिवीधारणामुद्रां यः करोति च नित्यशः
मृत्युंजयः स्वयं सो ऽपि स सिद्धो विचरेद् भुवि ॥

3.72

शङ्खेन्दुप्रतिमं च कुन्दधवलं तत्त्वं किलालं शुभं $
तत् पीयूषवकारबीजसहितं युक्तं सदा विष्णुना &
प्राणं तत्र विनीय पञ्चघटिकाश् चित्तान्वितं धारयेद् %
एषा दुःसहतापपापहरिणी स्याद् आम्भसी धारणा ॥

3.73

आम्भसीं परमां मुद्रां यो जानाति स योगवित्
जले च गभीरे घोरे मरणं तस्य नो भवेत् ॥

3.74

इयं तु परमा मुद्रा गोपनीया प्रयत्नतः
प्रकाशात् सिद्धिहानिः स्यात् सत्यं वच्मि च तत्त्वतः ॥

3.75

यन् नाभिस्थितम् इन्द्र=गोपसदृशं बीजत्रिकोणान्वितं $
तत्त्वं तेजमयं प्रदीप्तम् अरुणं रुद्रेण यत् सिद्धिदम् &
प्राणं तत्र विनीय पञ्चघटिकाश् चित्तान्वितं धारयेद् %
एषा कालगभीरभीतिहरणी वैश्वानरी धारणा ॥

3.76

प्रदीप्ते ज्वलिते वह्नौ यदि पतति साधकः
एतन्मुद्राप्रसादेन स जीवति न मृत्युभाक् ॥

3.77

यद् भिन्नाञ्जनपुञ्जसंनिभम् इदं धूम्रावभासं परं $
तत्त्वं सत्त्वमयं यकारसहितं यत्रेश्वरो देवता &
प्राणं तत्र विनीय पञ्चघटिकाश् चित्तान्वितं धारयेद् %
एषा खे गमनं करोति यमिनां स्याद् वायवी धारणा ॥

3.78

इयं तु परमा मुद्रा जरामृत्युविनाशिनी
वायुना म्रियते नापि खे च गतिप्रदायिनी ॥

3.79

शठाय भक्तिहीनाय न देया यस्य कस्यचित्
दत्ते च सिद्धिहानिः स्यात् सत्यं वच्मि च चण्ड ते ॥

3.80

यत् सिन्धौ वरशुद्धवारिसदृशं व्योमं परं भासितं $
तत्त्वं देवसदाशिवेन सहितं बीजं हकारान्वितम् &
प्राणं तत्र विनीय पञ्चघटिकाश् चित्तान्वितं धारयेद् %
एषा मोक्षकवाटभेदनकरी तु स्यान् नभोधारणा ॥

3.81

आकाशीधारणां मुद्रां यो वेत्ति स च योगवित्
न मृत्युर् जायते तस्य प्रलये नावसीदति ॥

3.82

आकुञ्चयेद् गुदद्वारं प्रकाशयेत् पुनः पुनः
सा भवेद् अश्विनी मुद्रा शक्तिप्रबोधकारिणी ॥

3.83

अश्विनी परमा मुद्रा गुह्यरोगविनाशिनी
बलपुष्टिकरी चैव अकालमरणं हरेत् ॥

3.84

कण्ठपृष्टे क्षिपेत् पादौ पाशवद् दृढबन्धनम्
सा एव पाशिनी मुद्रा शक्तिप्रबोधकारिणी ॥

3.85

पाशिनी महती मुद्रा बलपुष्टिविधायिनी
साधनीया प्रयत्नेन साधकैः सिद्धिकाङ्क्षिभिः ॥

3.86

काकचञ्चुवद् आस्येन पिबेद् वायुं शनैः शनैः
काकी मुद्रा भवेद् एषा सर्वरोगविनाशिनी ॥

3.87

काकीमुद्रा परा मुद्रा सर्वतन्त्रेषु गोपिता
अस्याः प्रसादमात्रेण न रोगी काकवद् भवेत् ॥

3.88

कण्ठमग्नजले स्थित्वा नासाभ्यां जलम् आहरेत्
मुखान् निर्गमयेत् पश्चात् पुनर् वक्त्रेण चाहरेत् ॥

3.89

नासाभ्यां रेचयेत् पश्चात् कुर्याद् एवं पुनः पुनः
मातङ्गिनी परा मुद्रा जरामृत्युविनाशिनी ॥

3.90

विरले निर्जने देशे स्थित्वा चैकाग्रमानसः
कुर्यान् मातङ्गिनीं मुद्रां मातङ्ग इव जायते ॥

3.91

यत्र यत्र स्थितो योगी सुखम् अत्यन्तम् अश्नुते
तस्मात् सर्वप्रयत्नेन साधयेन् मुद्रिकां पराम् ॥

3.92

वक्त्रं किंचित्सुप्रसार्य चालिनं गलया पिबेत्
सा भवेद् भुजगी मुद्रा जरामृत्युविनाशिनी ॥

3.93

यावच् च उदरे रोगम् अजीर्णादि विशेषतः
तत् सर्वं नाशयेद् आशु यत्र मुद्रा भुजंगिनी ॥

3.94

इदं तु मुद्रापटलं कथितं चण्ड ते शुभम्
वल्लभं सर्वसिद्धानां जरामरणनाशनम् ॥

3.95

शठाय भक्तिहीनाय न देयं यस्य कस्यचित्
गोपनीयं प्रयत्नेन दुर्लभं मरुताम् अपि ॥

3.96

ऋजवे शान्तचित्ताय गुरुभक्तिपराय च
कुलीनाय प्रदातव्यं भोगमुक्तिप्रदायकम् ॥

3.97

मुद्राणां पटलं ह्य् एतत् सर्वव्याधिविनाशनम्
नित्यम् अभ्यासशीलस्य जठराग्निविवर्धनम् ॥

3.98

न तस्य जायते मृत्युर् नास्य जरादिकं तथा
नाग्निजलभयं तस्य वायोर् अपि कुतो भयम् ॥

3.99

कासः श्वासः प्लीहा कुष्ठं श्लेष्मरोगाश् च विंशतिः
मुद्राणां साधनाच् चैव विनश्यन्ति न संशयः ॥

3.100

बहुना किम् इहोक्तेन सारं वच्मि च चण्ड ते
नास्ति मुद्रासमं किंचित् सिद्धिदं क्षितिमण्डले ॥

मूल पाठ: Gheraṇḍasaṃhitā · Edition: Gherandasamhita : Sanskrit-deutsch. Ed. Peter Thomi. Wichtrach: Institut fuer Indologie, 1993 (ISBN 3 7187 0013 1). · Data entry Peter Thomi · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc