भाषा

ENहिગુ
ग्रंथ पाठ

घेरण्डसंहिता · अध्याय 2

2.1

आसनानि समस्तानि यावन्तो जीवजन्तवः
चतुरशीति लक्षाणि शिवेन कथितं पुरा ॥

2.2

तेषां मध्ये विशिष्टानि षोडशोनं शतं कृतम्
तेषां मध्ये मर्त्यलोके द्वात्रिंशद् आसनं शुभम् ॥

2.3

सिद्धं पद्मं तथा भद्रं मुक्तं वज्रं च स्वस्तिकम्
सिंहं च गोमुखं वीरं धनुरासनम् एव च ॥

2.4

मृतं गुप्तं तथा मात्स्यं मत्स्येन्द्रासनम् एव च
गोरक्षं पश्चिमोत्तानम् उत्कटं संकटं तथा ॥

2.5

मयूरं कुक्कुटं कूर्मं तथा उत्तानकूर्मकम्
उत्तानमण्डुकं वृक्षं मण्डूकं गरुडं वृषम् ॥

2.6

शलभं मकरं चोष्ट्रं भुजंगं च योगासनम्
द्वात्रिंशद् आसनान्य् एव मर्त्यलोके च सिद्धिदा ॥

2.7

योनिस्थानकम् अङ्घ्रिमूलघटितं संपीड्य गुल्फेतरं $
मेढ्रोपर्य् अथ संनिधाय चिबुकं कृत्वा हृदि स्थापितम् &
स्थाणुः संयमितेन्द्रियो ऽचलदृशा पश्यन् भ्रुवोर् अन्तरे %
एतन् मोक्षकपाटभेदनकरं सिद्धासनं प्रोच्यते ॥

2.8

वामोर् ऊपरि दक्षिणं हि चरणं संस्थाप्य वामं तथा $
दक्षोर् ऊपरि पश्चिमेन विधिना कृत्वा कराभ्यां दृढम् &
अङ्गुष्ठौ हृदये निधाय चिबुकं नासाग्रम् आलोकयेद् %
एतद् व्याधिविकारनाशनकरं पद्मासनं प्रोच्यते ॥

2.9

गुल्फौ च वृषणस्याधो व्युत्क्रमेण समाहितौ
पादाङ्गुष्ठौ कराभ्यां च धृत्वा च पृष्ठदेशतः ॥

2.10

जालंधरं समासाद्य नासाग्रम् अवलोकयेत्
भद्रासनं भवेद् एतत् सर्वव्याधिविनाशकम् ॥

2.11

पायुमूले वामगुल्फं दक्षगुल्फं तथोपरि
शिरोग्रीवासमे काये मुक्तासनं तु सिद्धिदम् ॥

2.12

जङ्घयोर् वज्रवत् कृत्वा गुदपार्श्वे पदाव् उभौ
वज्रासनं भवेद् एतद् योगिनां सिद्धिदायकम् ॥

2.13

जानूर्वोर् अन्तरे कृत्वा योगी पादतले उभे
ऋजुकायः समासीनः स्वस्तिकं तत् प्रचक्षते ॥

2.14

गुल्फौ च वृषणस्याधो व्युत्क्रमेणोर्ध्वतां गतौ
चितिमूलौ भूमिसंस्थौ करौ च जानुनोपरि ॥

2.15

व्यात्तवक्त्रो जलंध्रेण नासाग्रम् अवलोकयेत्
सिंहासनं भवेद् एतत् सर्वव्याधिविनाशकम् ॥

2.16

पादौ भूमौ च संस्थाप्य पृष्ठपार्श्वे निवेशयेत्
स्थिरकायं समासाद्य गोमुखं गोमुखाकृति ॥

2.17

एकपादम् अथैकस्मिन् विन्यसेद् ऊरुसंस्थितम्
इतरस्मिंस् तथा पश्चाद् वीरासनम् इतीरितम् ॥

2.18

प्रसार्य पादौ भुवि दण्डरूपौ $
करौ च पृष्ठं धृतपादयुग्मम् &
कृत्वा धनुस्तुल्यविवर्तिताङ्गं %
निगद्यते वै धनुरासनं तत् ॥

2.19

उत्तानं शववद् भूमौ शयानं तु शवासनम्
शवासनं श्रमहरं चित्तविश्रान्तिकारणम् ॥

2.20

जानूर्वोर् अन्तरे पादौ कृत्वा पादौ च गोपयेत्
पादौपरि च संस्थाप्य गुदं गुप्तासनं विदुः ॥

2.21

मुक्तपद्मासनं कृत्वा उत्तानशयनं चरेत्
कूर्पराभ्यां शिरो वेष्ट्य मत्स्यासनं तु रोगहा ॥

2.22

उदरे पश्चिमं तानं कृत्वा तिष्ठति यत्नतः
नम्राङ्गं वामपदं हि दक्षजानूपरि न्यसेत् ॥

2.23

तत्र याम्यं कूर्परं च याम्यकरे च वक्त्रकम्
भ्रुवोर् मध्ये गता दृष्टिः पीठं मत्स्येन्द्रम् उच्यते ॥

2.24

जानूर्वोर् अन्तरे पादौ उत्तानौ व्यक्तसंस्थितौ
गुल्फौ चाच्छाद्य हस्ताभ्याम् उत्तानाभ्यं प्रयत्नतः ॥

2.25

कण्ठसंकोचनं कृत्वा नासाग्रम् अवलोकयेत्
गोरक्षासनम् इत्य् आहुर् योगिनां सिद्धिकारणम् ॥

2.26

प्रसार्य पादौ भुवि दण्डरूपौ $
संन्यस्तभालं चितियुग्ममध्ये &
यत्नेन पादौ च धृतौ कराभ्यां %
योगेन्द्रपीठं पश्चिमतानम् आहुः ॥

2.27

अङ्गुष्ठाभ्याम् अवष्टभ्य धरां गुल्फौ च खे गतौ
तत्रोपरि गुदं न्यसेद् विज्ञेयम् उत्कटासनम् ॥

2.28

वामपादचितेर् मूलं संन्यस्य धरणीतले
पाददण्डेन याम्येन वेष्टयेद् वामपादकम्
जानुयुग्मे करयुग्मम् एतत् संकटम् आसनम् ॥

2.29

धराम् अवष्टभ्य करद्वयाभ्यां $
तत् कूर्परे स्थापितनाभिपार्श्वम् &
उच्चासने दण्डवद् उत्थितः खे %
मयूरम् एतत् प्रवदन्ति पीठम् ॥

2.30

बहुकदशनभुक्तं भस्म कुर्याद् अशेषं $
जनयति जठराग्निं जारयेत् कालकूटम् &
हरति सकलरोगान् आशु गुल्मज्वरादीन् %
भवति विगतदोषं ह्य् आसनं श्रीमयूरम् ॥

2.31

पद्मासनं समासाद्य जानूर्वोर् अन्तरे करौ
कूर्पराभ्यां समासीनो मञ्चस्थः कुक्कुटासनम् ॥

2.32

गुल्फौ च वृषणस्याधो व्युत्क्रमेण समाहितौ
ऋजुकायशिरोग्रीवं कूर्मासनम् इतीरितम् ॥

2.33

कुक्कुटासनबन्धस्थं कराभ्यां धृतकन्धरम्
खगकूर्मवद् उत्तानम् एतद् उत्तानकूर्मकम् ॥

2.34

पादतलौ पृष्ठदेशे अङ्गुष्ठौ द्वौ च संस्पृशेत्
जानुयुग्मं पुरस्कृत्य साधयेन् मण्डुकासनम् ॥

2.35

मण्डूकासनबन्धस्थं कूर्पराभ्यां धृतं शिरः
एतद् भेकवद् उत्तानम् एतद् उत्तानमण्डुकम् ॥

2.36

वामोरुमूलदेशे च याम्यं पादं निधाय तु
तिष्ठति वृक्षवद् भूमौ वृक्षासनम् इदं विदुः ॥

2.37

जङ्घोरुभ्यां धरां पीड्य स्थिरकायो द्विजानुना
जानूपरि करयुग्मं गरुडासनम् उच्यते ॥

2.38

याम्यगुल्फे पायुमूलं वामभागे पदेतरम्
विपरीतं स्पृशेद् भूमिं वृषासनम् इदं भवेत् ॥

2.39

अध्यास्य शेते पदयुग्मवक्षे $
भूमिम् अवष्टभ्य करद्वयाभ्याम् &
पादौ च शून्ये च वितस्ति चोर्ध्वं %
वदन्ति पीठं शलभं मुनीन्द्राः ॥

2.40

अध्यास्य शेते हृदयं निधाय $
भूमौ च पादौ प्रविसार्यमाणौ &
शिरश् च धृत्वा करदण्डयुग्मे %
देहाग्निकारं मकरासनं तत् ॥

2.41

अध्यास्य शेते पदयुग्मम् अस्तं $
पृष्ठे निधायापि धृतं कराभ्याम् &
आकुञ्च्य सम्यग् घ्य् उदरास्यगण्डम् %
उष्ट्रं च पीठं यतयो वदन्ति ॥

2.42

अङ्गुष्ठनाभिपर्यन्तम् अधो भूमौ च विन्यसेत्
करतलाभ्यां धरां धृत्वा ऊर्ध्वं शीर्षं फणीव हि ॥

2.43

देहाग्निर् वर्धते नित्यं सर्वरोगविनाशनम्
जागर्ति भुजगी देवी साधनाद् भुजंगासनम् ॥

2.44

उत्तानौ चरणौ कृत्वा संस्थाप्य जानुनोपरि
आसनोपरि संस्थाप्य उत्तानं करयुग्मकम् ॥

2.45

पूरकैर् वायुम् आकृष्य नासाग्रम् अवलोकयेत्
योगासनं भवेद् एतद् योगिनां योगसाधने ॥

मूल पाठ: Gheraṇḍasaṃhitā · Edition: Gherandasamhita : Sanskrit-deutsch. Ed. Peter Thomi. Wichtrach: Institut fuer Indologie, 1993 (ISBN 3 7187 0013 1). · Data entry Peter Thomi · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc