घेरण्डसंहिता · अध्याय 1
आदीश्वराय प्रणनामि तस्मै $
येनोपदिष्टा हठयोगविद्या &
विराजते प्रोन्नतराजयोगम् %
आरोढुम् इच्छोर् अधिरोहिणीव ॥
एकदा चण्डकापालिर् गत्वा घेरण्डकुट्टिरम्
प्रणम्य विनयाद् भक्त्या घेरण्डं परिपृच्छ्हति ॥
घटस्थयोगं योगेश तत्त्वज्ञानस्य कारणम्
इदानीं श्रोतुम् इच्छामि योगेश्वर वद प्रभो ॥
साधु साधु महाबाहो यन् मां त्वं परिपृच्छसि
कथयामि हि ते तत्त्वं सावधानो ऽवधारय ॥
नास्ति मायासमः पाशो नास्ति योगात् परं बलम्
न हि ज्ञानात् परो बन्धुर् नाहंकारात् परो रिपुः ॥
अभ्यासात् कादिवर्णादेर् यथा शास्त्राणि बोधयेत्
तथा योगं समासाद्य तत्त्वज्ञानं च लभ्यते ॥
सुकृतैर् दुष्कृतैः कार्यैर् जायते प्राणिनां घटः
घटाद् उत्पद्यते कर्म घटयन्त्रं यथा भ्रमेत् ॥
ऊर्ध्वाधो भ्रमते यद्वद् घटयन्त्रं गवां वशात्
तद्वत् कर्मवशाज् जीवो भ्रमते जन्ममृत्युना ॥
आमकुम्भ इवाम्भःस्थो जीर्यमाणः सदा घटः
योगानलेन संदह्य घटशुद्धिं समाचरेत् ॥
शोधनं दृढता चैव स्थैर्यं धैर्यं च लाघवम्
प्रत्यक्षं च निर्लिप्तं च घतस्थं सप्तसाधनम् ॥
षट्कर्मणा शोधनं च आसनेन भवेद् दृढम्
मुद्रया स्थिरता चैव प्रत्याहारेण धैर्यता ॥
प्राणायामाल् लाघवं च ध्यानात् प्रत्यक्षम् आत्मनि
समाधिना निर्लिप्तं च मुक्तिर् एव न संशयः ॥
धौतिर् वस्तिस् तथा नेतिर् लौलिकी त्राटकं तथा
कपालभातिश् चैतानि षट्कर्माणि समाचरेत् ॥
अन्तर्धौतिर् दन्तधौतिर् हृद्धौतिर् मूलशोधनम्
धौत्यश् चतुर्विधा प्रोक्ता घटं कुर्वन्ति निर्मलम् ॥
वातसारं वारिसारं वह्निसारं बहिष्कृतम्
घटस्य निर्मलार्थाय ह्य् अन्तर्धौतिश् चतुर्विधा ॥
काकचञ्चूवद् आस्येन पिबेद् वायुं शनैः शनैः
चालयेद् उदरं पश्चाद् वर्त्मना रेचयेच् छनैः ॥
वातसारं परं गोप्यं देहनिर्मलकारकम्
सर्वरोगक्षयकरं देहानलविवर्धकम् ॥
आकण्ठं पूरयेद् वारि वक्त्रेण च पिबेच् छनैः
चालयेद् उदरेणैव चोदराद् रेचयेद् अधः ॥
वारिसारं परं गोप्यं देहनिर्मलकारकम्
साधयेद् यः प्रयत्नेन देवदेहं प्रपद्यते ॥
वारिसारं परां धौतिं साधयेद् यः प्रयत्नतः
मलदेहं शोधयित्वा देवदेहं प्रपद्यते ॥
नाभिग्रन्थिं मेरुपृष्ठे शतवारं च कारयेत्
उदरामयजं त्यक्त्वा जाठराग्निं विवर्धयेत्
वह्निसारम् इयं धौतिर् योगिनां योगसिद्धिदा ॥
एषा धौतिः परा गोप्या न प्रकाश्या कदाचन
केवलं धौतिमात्रेण देवदेहो भवेद् ध्रुवम् ॥
काकीमुद्रां साधयित्वा पूरयेद् उदरं महत्
धारयेद् अर्धयामं तु चालयेद् अधवर्त्मना
एषा धौतिः परा गोप्या न प्रकाश्या कदाचन ॥
नाभिमग्नजले स्थित्वा शक्तिनाडीं विमर्जयेत्
काराभ्यां क्षालयेन् नाडीं यावन् मलविसर्जनम् ॥
तावत् प्रक्षाल्य नाडीं च उदरे वेशयेत् पुनः
इदं प्रक्षालनं गोप्यं देवानाम् अपि दुर्लभम्
केवलं धौतिमात्रेण देवदेहो भवेद् ध्रुवम् ॥
याम् आर्धधारणाशक्तिं यावन् न साधयेन् नरः
बहिष्कृतं महाधौती तावन् नैव तु जायते ॥
दन्तमूलं जिह्वामूलं रन्ध्रं च कर्णयुग्मयोः
कपालरन्ध्रं पञ्चेति दन्तधौतिर्विधीयते ॥
खदिरेण रसेनाथ मृत्तिकया च शुद्धया
मार्जयेद् दन्तमूलं च यावत् किल्बिषम् आहरेत् ॥
दन्तमूलं परा धौतिर् योगिनां योगसाधने
नित्यं कुर्यात् प्रभाते च दन्तरक्षाय योगवित्
दन्तमूलं धारणादि कार्येषु योगिनां यतः ॥
अथातः संप्रवक्ष्यामि जिह्वाशोधनकारणम्
जरामरणरोगादीन् नाशयेद् दीर्घलम्बिका ॥
तर्जनीमध्यमानामा अङ्गुलित्रययोगतः
वेशयेद् गलमध्ये तु मार्जयेल् लम्बिकामलम्
शनैः शनैर् मार्जयित्वा कफदोषं निवारयेत् ॥
मार्जयेन् नवनीतेन दोहयेच् च पुनः पुनः
तदग्रं लौहयन्त्रेण कर्षयित्वा पुनः पुनः ॥
नित्यं कुर्यात् प्रयत्नेन रवेर् उदयके ऽस्तके
एवं कृते तु नित्ये च लम्बिका दीर्घतां गता ॥
तर्जन्यङ्गुल्यग्रयोगान् मार्जयेत् कर्णरन्ध्रयोः
नित्यम् अभ्यासयोगेन नादान्तरं प्रकाशनम् ॥
वृद्धाङ्गुष्ठेन दक्षेण मर्दयेद् भालरन्ध्रकम्
एवम् अभ्यासयोगेन कफदोषं निवारयेत् ॥
नाडी निर्मलतां याति दिव्यदृष्टिः प्रजायते
निद्रान्ते भोजनान्ते च दिवान्ते च दिने दिने ॥
हृद्धौतिं त्रिविधां कुर्याद् दण्डवमनवाससा ॥
रम्भादण्डं हरिद्दण्डं वेत्रदण्डं तथैव च
हृन्मध्ये चालयित्वा तु पुनः प्रत्याहरेच् छनैः ॥
कफपित्तं तथा क्लेदं रेचयेद् ऊर्ध्ववर्त्मना
दण्डधौतिविधानेन हृद्रोगं नाशयेद् ध्रुवम् ॥
भोजनान्ते पिबेद् वारि आकर्णपूरितं सुधीः
ऊर्ध्वदृष्टिं क्षणं कृत्वा तज् जलं वमयेत् पुनः
नित्यम् अभ्यासयोगेन कफपित्तं निवारयेत् ॥
एकोनविंशतिः हस्तः पञ्चविंशति वै तथा
चतुरङ्गुलविस्तारं सूक्ष्मवस्त्रं शनैर् ग्रसेत्
पुनः प्रत्याहरेद् एतत् प्रोच्यते धौतिकर्मकम् ॥
गुल्मज्वरप्लीहाकुष्ठ कफपित्तं विनश्यति
आरोग्यं बलपुष्टिश् च भवेत् तस्य दिने दिने ॥
अपानक्रूरता तावद् यावन्मूलं न शोधयेत्
तस्मात् सर्वप्रयत्नेन मूलशोधनम् आचरेत् ॥
पीतमूलस्य दण्डेन मध्यमाङ्गुलिनापि वा
यत्नेन क्षालयेद् गुह्यं वारिणा च पुनः पुनः ॥
वारयेत् कोष्ठकाठिन्यम् आमाजीर्णं निवारयेत्
कारणं कान्तिपुष्ट्योश् च दीपनं वह्निमण्डलम् ॥
जलवस्तिः शुष्कवस्तिर् वस्ती च द्विविधौ स्मृतौ
जलवस्तिं जले कुर्याच् छुष्कवस्तिं क्षितौ सदा ॥
नाभिमग्नजले पायु न्यस्तनालोत्कटासनः
आकुञ्चनं प्रकाशं च जलवस्तिं समाचरेत् ॥
प्रमेहं च गुदावर्तं क्रूरवायुं निवारयेत्
भवेत् स्वच्छन्ददेहश् च कामदेवसमो भवेत् ॥
वस्तिं पश्चिमतानेन चालयित्वा शनैः शनैः
अश्विनीमुद्रया पायुम् आकुञ्चयेत् प्रकाशयेत् ॥
एवम् अभ्यासयोगेन कोष्ठदोषो न विद्यते
विवर्धयेज् जाठराग्निम् आमवातं विनाशयेत् ॥
वितस्तिमानं सूक्ष्मसूत्रं नासानाले प्रवेशयेत्
मुखान् निर्गमयेत् पश्चात् प्रोच्यते नेतिकर्मकम् ॥
साधनान् नेतिकर्मापि खेचरीसिद्धिम् आप्नुयात्
कफदोषा विनश्यन्ति दिव्यदृष्टिः प्रजायते ॥
अमन्दवेगं तुन्दं च भ्रामयेद् उभपार्श्वयोः
सर्वरोगान् निहन्तीह देहानलविवर्धनम् ॥
निमेषोन्मेषकं त्यक्त्वा सूक्ष्मलक्ष्यं निरीक्षयेत्
यावद् अश्रू निपतते त्राटकं प्रोच्यते बुधैः ॥
एवम् अभ्यासयोगेन शांभवी जायते ध्रुवम्
न जायते नेत्ररोगः दिव्यदृष्टिप्रदायकम् ॥
वामक्रमेण व्युत्क्रमेण शीत्क्रमेण विशेषतः
भालभातिं त्रिधा कुर्यात् कफदोषं निवारयेत् ॥
इडया पूरयेद् वायुं रेचयेत् पिङ्गला पुनः
पिङ्गलया पूरयित्वा पुनश् चन्द्रेण रेचयेत् ॥
पूरकं रेचकं कृत्वा वेगेन न तु चालयेत्
एवम् अभ्यासयोगेन कफदोषं निवारयेत् ॥
नासाभ्यां जलम् आकृष्य पुनर् वक्त्रेण रेचयेत्
पायं पायं प्रकुर्वंश् चेच् छ्लेष्मदोषं निवारयेत् ॥
शीत्कृत्य पीत्वा वक्त्रेण नासानलैर् विरेचयेत्
एवम् अभ्यासयोगेन कामदेवसमो भवेत् ॥
न जायते वार्द्धकं च ज्वरो नैव प्रजायते
भवेत् स्वच्छन्ददेहश् च कफदोषं निवारयेत् ॥
मूल पाठ: Gheraṇḍasaṃhitā · Edition: Gherandasamhita : Sanskrit-deutsch. Ed. Peter Thomi. Wichtrach: Institut fuer Indologie, 1993 (ISBN 3 7187 0013 1). · Data entry Peter Thomi · GRETIL (Göttingen) · CC BY-NC-SA 4.0