भाषा

ENहिગુ
ग्रंथ पाठ

घटकर्परकाव्य (टीका सहित) · श्लोक 11-20

11

तत् साधु यत् त्वां सुतरुं ससर्ज प्रजापतिः कामनिवास सर्ज ।
त्वं मञ्जरीभिः प्रवरो वनानां नेत्रोत्सवश् चासि सयौवनानाम्

11

इयम् अनन्तरवद् एव उक्तिः । हे सर्जनामधेय ! प्रजापतिर् यत् त्वाम् ससर्ज शोभनं तरुं, तत् साधु, यतस् त्वं कामस्य निवासः । काकुर् इयं एवं ध्वनति -- प्रजानां किल पत्या अवश्यं प्रजाहितकारिणा भवितव्यम्, एवंविधहृदयदाहवितरणनिःशेषितनिखिलजन्तोः कामस्य निवासभूतं भवन्तं निर्मिमाणेन प्रजापतिना सुष्ठु प्रजापतित्वम् उद्दर्शितं, त्वयि दृष्टमात्र एव मम कापि व्यथा विजृम्भते इत्य् अर्थः । अथ एवं अपि जानती किम् इति माम् अवलोकितवत्य् असीति यदि, तत् किल मञ्जरीभिर् भवान् सकलवनमध्ये श्रेष्ठो बह्वीभिः कन्ताभिस् तु परिवृत इति शृङ्गारिणि भवति बहुमान इत्य् अर्थः, तथापि सयौवनानां युवतीनां तु नेत्रोत्सवः । यदा किल अहं युवतिः प्रियसंयुक्ता त्वाम् अवलोकितवती, तदा लोकोत्तरनयनानन्दवती अभूवम्, अद्य त्वम् एवंविधबहुतरवल्लभापरिवृतो भूत्वा कथं मां प्रियवियुक्तां त्रातव्यां दर्शनमात्रेण अपि मदनपरवशां करोषीति वाक्यार्थः

12

नवकदम्ब शिरो ऽवनतास्मि ते वसति वो मदनः कुसुमस्मिते ।
कुटज किं कुसुमैर् अवहस्यते प्रणिपतामि च दुष्प्रहस्य ते

12

यदा सर्जतरोर् अपक्रान्ता नायिका झगिति कदम्बम् अवलोकयति, तदा प्राक्तनमदनभयभीतिमती झगिति आह -- हे नवकदम्ब ! इदानीम् एव अवलोकितानुभूतत्वदीयप्रतापा अहं तुभ्यं शिरसा अवनता अस्मि । एवं यावत् भणति, तावत् तदीयकुसुमविलोकनजनितरणरणका आह -- युष्माकं पुष्पविकासे कामो वसति, मया ज्ञातं सर्जस्यैव इदं वैषम्यं यावता त्वम् अपि एवम् एव, सर्वेषाम् एकयोगक्षमतेति सर्वथा मम हाताशाया नयनविषयताक्षमं न किञ्चित् समस्तीति व इति बहुवचनेन ध्वन्यते । इत्थमाकारयत्नी एव नायिका यदा कुसुमितं झगिति कुटजम् अवलोकयति, तदा मन्यते नूनं माम् अयं सर्वतो हि हतभागधेयाम् अपहसतीति तत आह -- हे कुटज ! किम् इति अवाङ्मुखं कृत्वा हस्यते । कुसुमितो ऽपि प्रदेशो ऽवश्यं धराभिमुखः, यश् च सन्निहित एव परम् अपहसति, सो ऽपि अवाङ्मुख एव । अतश् च त्वयि उपचीयमाने बहुतरव्यथा । ते दुःसहस्य प्रणाम एव शोभन इति काकुः । अत एव ईप्सिततमत्वाभावः सम्बन्धषष्ठ्या व्यज्यते । किंकुसुमैर् इति कुत्सितैः परातङ्कवितरणचतुरैः पुष्पैर् अवहस्यते इति सोत्प्रासं काक्वा ध्वनितो ऽर्थः

13

तरुवर विनतास्मि ते सदाहं हृदयं मे प्रकरोषि किं सदाहम् ।
तव पुष्पनिरीक्षितापदेहं विसृजेयं सहसैव नीप देहम्

13

हे नीपाभिधान तरुश्र्ष्ठ ! तव सर्वकालम् अहं प्रणता, तत् किम् अद्य मम हृदयं दाहयुक्तं प्रकर्षेण करोषि । अन्ये ऽपि तरवो न एवं मां दहन्ति यथा त्वं सर्वकालम् अभिष्टुतो ऽपि, सर्वथा अयं भागधेयविपर्ययः । अथच तव सदा अहं प्रणता येन ईदृशः उपकारस् त्वत् सम्भाव्यते, त्वदीयपुष्पैर् निरीक्षिता देहं विसृजेयम् । कीदृशम् । अपदे ऽकाण्ड एव ईहा दूतीविसर्जनतत्प्रतिपालनमुधाविनोदनप्रभृतयो यस्य तम् । अहं तावत् तादृगुपकारिभवदीयकुसुमावलोकने ऽपि असमर्था, तानि तु यदि महापुरुषतया एवंविधाम् अवस्थां प्राप्तां माम् अवलोकेयुः, तत् चिरवाञ्छितजीवितत्यागमनोरथेन अपि झगिति युज्येय । अतस् तव सदा नता अस्मि । न च एवं सम्भावनीयम् -- अहितो हृदयदाहकारि कथं प्रणम्यते इति यतः किं त्वं हृदयं सदाहं करोषि, काक्वा न एवम् इत्य् अर्थः । निजेन एव विरहहुतवहेन मम दह्यते हृदयं, तद् इदानीं दाहकेन अपि दग्धस्य किं दह्यते इति सम्बन्धः । यदि तु अहंशब्दपौनरुक्त्यं सहृदयाः क्षमन्ते तदा एवं व्याख्या -- आपदे विषमविपद्वहनार्थम् एव केवलं यो मम देहस् तं त्यजेयम् इति । तथा नीप तरुवर तव नता अस्मि । एवम् उक्त्वा दुःसहतया द्वितीयवाक्यम् आह -- दाहयुक्तं मम हृदयं प्रकरोषि, पुनर् अपि विलापवशात्, विचिनित्य ब्रूते -- किं यथा अद्य, तथा सर्वकालं त्वत्पुष्पेक्षिता अहम् अकाण्ड एव देहं त्यजेयं, काक्वा नैवेत्य् अर्थः

14

कुसुमैर् उपशोभितां सितैर् घनमुक्ताम्बुलवप्रहासितैः ।
मधुनः समवेक्ष्य कालतां भ्रमरश् चुम्बति यूथिकालताम्

14

अयं भ्रमरः भ्रमणशीलः यूथिकं चुम्बति, मदीयप्रियतमस् तु पथिक एकत्र एव क्वचित् स्थितो मम नाम अपि न अवेक्षते इति । तां कीदृशीं यूथिकां । सितैर् बद्धैर् न तावत् विकसितैः, ततो ऽनन्तरं तु घनैर् मुक्तास् त्यक्ता ये ऽम्बुलवास् तैः करणभूतैः प्रहासितैः कुसुमैर् उपलक्षिताम् । अथच घना मुक्ताफलसदृशा ये जलकणाः तत्कृतानि यानि प्रहासितानि प्रहासितत्वोत्पादितानि निजच्छायास्फुरणानि यैः पीतानि अपि सन्ति शुक्लानि जातानि कुसुमानि । किं कृत्वा मधुनो मकरन्दस्य कालताम् अत्यन्तपरिपाकरसोत्पन्नां विलोक्य । अथच यो नायकश् चिरात् कान्ताम् उपभुङ्क्ते, सो ऽपि मधुनः पानगोष्ठ्याः कालताम् अवसरप्राप्तिम् अवलोक्य परिचुम्बति । काल इति मत्वर्थीयाकारान्तो ऽपि, तथा सा अपि कान्ता धम्मिल्लपुष्पैर् घनैर् मुक्ताफलैर् विरहस्मरणानन्दादिकोत्पन्नैश् च अम्बुलवैर् बाष्पैर् हर्षचाट्वादिजैः प्रहसितैः सितैर् बद्धैर् व्यामिश्ररूपतया स्थितैः परस्परसंश्लिष्टैर् उपलक्षिता भवति किलकिञ्चितचेष्टालङ्कारयोगिनी भवति विशेषतः पानगोष्ठ्यवसरे । यद् उक्तं
"शुष्कं मुहुः प्ररुदितं क्षणम् अश्रुपातः
क्रोधो मुहुर् हसितम् आशु ..."
इत्यादि । अत ईदृशी कदा अहं प्रियेण परिचुम्ब्यमाना भुयासम् इत्य् अर्थः

15

निचितं खम् उपेत्य नीरदैः प्रियहीनहृदयावनीरदैः ।
सलिलैर् विहतं रजः क्षितौ रविचन्द्राव् अपि नोपलक्षितौ

15

इदं नायिकविसृष्टायाः प्रतिदूत्या वचनम् । मा त्वम् अधृतिं कार्षीः, मार्गवैषम्याद् एव असाव् इयन्तं कालं न आगतः । तथाहि नीरदैर् मेघैर् उपेत्य सर्वतोदिक्कं सङ्घट्य खं गगनं निचितम् । कीदृशैः प्रियैः प्रियाभिश् च ये विहीना वियुक्तास् तेषां हृदयावनीं मनोभूमीं रदन्ति विलिखन्ति । एवं तावत् सर्वतोदिक्कं दुष्प्रेक्षं क्षितौ भूमौ रजः सलिलैर् विहतम् । आस्तां तावद् अन्यत् सलिलेन अभिभूयते रजोमात्रम् अपि न अवशिष्टम् इत्य् अर्थः

16

हंसा नदन्मेघभयाद् द्रवन्ति निशामुखान्य् अद्य न चन्द्रवन्ति ।
नवाम्बुमत्ताः शिखिनो नदन्ति मेघागमे कुन्दसमानदन्ति

16

हे कुन्दकुसुमसदृशदशने ! परिवर्जितताम्बूलादिसम्भोगे ! प्रतिदूत्याश् चैव नायिकां प्रति उक्तिः -- एवं नाम मेघाः शब्दायन्ते यत् हंसा अपि पलायन्ते, रात्राव् अपि न सञ्चरणं युज्यते यतश् चन्द्रयुक्तानि तन्मुखानि न भवन्ति, एते च शिखिनो मयूरा उद्गतप्रहर्षवशात् शब्दायन्ते । एतेन तत् प्रत्युक्तं यत् तु नायिकया पूर्वम् उक्तं
"हंसपङ्क्तिर् अपि नाथ सम्प्रति"
इत्यादिना मार्गसौकुमार्यं, तद् एव हि प्रत्युत रणरणकप्रदीपकं मार्गसङ्कटतां करोतीत्य् अर्थः

17

मेघावृत्तं निशि न भाति नभो वितारं निद्राभ्युपैति च हरिं शुभसेवितारम् ।
सेन्द्रयुधश् च जलदो ऽद्य रसन्न् इभानां संरम्भम् आवहति भूधरसन्निभानाम्

17

रात्रिसमये ऽपि गमनागमने न युज्येते, यतो रात्रिसमये वितारण् विगततारापटलं नभो न भाति यतो मेघावृत्तम् । यच् च तया उक्तं "पथिकपाम्सुलो ऽसौ माम् उपेक्षते" इति, तद् अपि न युक्तं; शुभसेवितारम् अकलुषचरितम् अपि भगवन्तं हरिं निद्रा अभ्युपैति अशक्नुवती विरहं सोढुम् नायकम् अभिसरति प्रत्युतेत्य् अर्थः । इन्द्रायुधयुक्तजलदो रसन् शब्दायमान इभानां करिणां पर्वतसदृशानां संरम्भं संरब्धताम् आवहति समन्तात् दर्शयति । यः किल अतिसुकुमारतया सुप्रसिद्धो जलदः, सो ऽपि अन्यानुल्लङ्घनीयेन शक्रायुधेन वज्रेण सातिशयभीषणः सादिना हतानां करिणां सादृश्यम् उद्वहतीत्य् अर्थः । अथवा मेघः शब्दायमान इभानां करिणां पर्वतसदृशानां संरम्भं जनयति प्रतिगर्जनशङ्कयेति ते ऽपि क्षुभिताः सम्पन्ना इति सर्वथा सुसङ्कटाः पन्थानः

18

सतडिज्जलदार्पितं नगेषु नददम्भोधरभीतपन्नगेषु ।
परिधीररवं जलं दरीषु प्रपत्य् अद्भुतरूपसुन्दरीषु

18

प्रतिदूत्या एव इयम् उक्तिर् नायिका यदा एवम् आह ननु अहम् एव तत्र यास्यामीति, तदा तां प्रति । दरीषु गुहासु अपि अन्तःस्थिता या अद्भुतरूपसुन्दर्यास् तासु अपि उपरि जलं पततीति व्यधिकरणसप्तम्यौ । कीदृक् जलम् । सह विद्युद्भिर् जलम् ददति ये, तैर् मेघैर् अर्पितं, न ते जलमात्रं ददति, यावत् विद्युतो ऽपि अतिभीषणा अर्पयन्तीति । क्व । नगेषु गिरिषु गर्जन्मेघत्रस्तसर्पेषु । अपरस्य ये त्रासदायिनस् ते ऽपि यतो जलधररसितात् त्रस्यन्ति, तत्र का वार्ता भवादृशीनां मालतीकुसुमसुकुमारमनसाम् इति तात्पर्यार्थः । अन्यच् च किंभूतं जलं । दरीषु अन्तः परितः समन्तात् धीरो गम्भीरो रवो यस्य, कन्दरासु अन्तः प्रतिशब्देन द्विगुणीभूत इत्य् अर्थः । तेन एषा अपि आशा न अस्ति -- तोयदजलपटलं गगनात् निपतत् क्वचन गुहामुखे ऽतिवाह्य पुनर् अपि गमिष्याम इति

19

क्षिप्रं प्रसादयति सम्प्रति को ऽपि तानि कान्तामुखानि रतिविग्रहकोपितानि ।
उत्कण्ठयन्ति पथिकाण् जलदाः स्वनन्तः शोको विवर्धति च तद्विनतास्व् अनन्तः

19

एवम् एताभिर् उक्तिभिः प्रियतमागमनं दुर्घटम् इति अवगते आस्थाबन्धो नायिकाया विजाघटीतीत्य् अभिप्रयेण सा एव पुनर् आश्वाससम्पादनाय अस्य माध्यस्थ्ये विशेषानुद्देशात् तदीयहृदयशोकशिखिशमनशक्ताम् उक्तिम् अभिधत्ते -- को ऽपि अनिर्वणनीयपुण्यसम्भारबृंहितः सम्प्रति जलदसमये तानि कान्तामुखानि निरतिशयसौन्दर्यवन्ति रतिविग्रहेण प्रणयकुपितेन सञ्जातरोषाणि तथा यानि तदीयवियोगजनितपाण्डिम्ना अद्य आसाधारणधर्मसुन्दराणि क्षिप्रम् अनायासेन एव प्रसादयति त्वाम् अवश्यं प्रसादयतीति यावत् । ननु न अद्यापि असाव् आगतस् तत् कथम् एतत् । आह शब्दायमाना हि जलधराः पथिकान् रणरणकवतः कुर्वन्ति निश्चितं दिनाद् दिनम् उपचीयमानजलधरध्वानाकर्णनेन परिवर्धितोत्कण्ठः प्रियतमस् तावद् आगच्छतीति यावत् । ननु प्रियतमाः कथं शीघ्रं प्रसीदेयुः । आह तद्वनितासु पथिकदयितासु तथा शोको विवर्धति विवृद्धवद् आचरति यथा अनन्तः सम्पद्यते । चकारेण एवं ध्वन्यते तद् एव रसितं तासां शोकविवृद्धौ कारणम् इति

20

अत्र केचिद् इति पठन्ति
तासाम् ऋतुः सफल एव हि या दिनेषु सेन्द्रायुधाम्बुधरगर्जितदुर्दिनेषु ।
रत्युत्सवं प्रियतमैः सह मानयन्ति मेघागमं प्रियसखि श्वसमानयन्ति

20

अयं श्लोको ऽत्रत्य इव न लक्ष्यते, पुस्तकेषु केन कारणेन गत इति न विद्मः । तथाहि पूर्वश्लोकौचित्यं तावद् अर्थेन न भजते । तासाम् एव सफल ऋतुर् वर्षाख्यो याति या सेन्द्रायुधैर् अम्बुदैर् दुर्दिनेषु प्रियतमैः सह रत्युत्सवं मानयन्ति । अन्यथा किल हे प्रियसखि ! मेघागमं श्वसमाः सारमेयप्राया अपि नयन्ति -- इति व्याख्यायां प्राक्तने नवे (?) यमकम् एव दुर्लभम् । दिनदुर्दिनशब्दाभ्याम् अर्थपौनरुक्त्यम् अपि दुर्धरम् । यान् अस्तं गच्छन्न् इनो मार्तण्डो येषु दिनेषु -- इत्य् अपि व्याख्याने तासाम् इति अपेक्षितो यदर्थो दुरुपपादः । तासाम् इति तु अनपेक्षितयदर्थे पदव्यङ्ग्ये ध्वनौ व्याख्यायमाने उत्तरवाक्यं खण्डं गच्छेत् चरमार्धे चान्यथेति (?) मध्ये शास्त्रन्यायोपचितः काव्यामृतकालुषैककारणम् अध्याहारः कल्प्यः श्वसमा मेघागमं नयन्तीति परम् अनौचित्यम् । न च एवंविधेन अनौचित्येन कुलकपरिसमाप्तिः क्रियमाणा सहृदयचेतःसु रोमन्थाद् ऋते किञ्चित् विदध्यात् । श्वसतीति श्वसस् तद्वद् आचरतीति क्विप् ततो ऽपि ताच्छील्यादिविवक्षायां चानश् । ततः प्रियसखिशब्देन सम्बन्धः प्राग् एव वा । तथापि न किञ्चिद् अर्थस्य पौष्कल्यम्, कष्टकल्पनायसं सत् । क्व । प्रियसखिष्व् इति सप्तम्या समास इति बहुवचनान्ते ऽपि न कश्चित् कृतः सम्बन्धः । अन्यथापाठकरणम् अपि क्लेशमात्रफलम् एव । किञ्च अत्र कर्ता महाकविः कालिदास इति अनुश्रुतम् अस्माभिः । न च अस्य काव्ये तृणमात्रम् अपि कलङ्कपात्रम् उत्प्रेक्षितवन्तो मनोरथेऽ; पि सुप्ते ऽपि सहृदयाः । तस्मात् प्राक्तन एव परिसमाप्तिश्लोकः । स च सख्या प्रतिदूतीभूतया नायिकाया आस्थाबन्धदार्ढ्योत्पादनाय युज्यते । उत्पन्नसमाश्वासा हि हृदयं स्थापयन्ती विप्रलम्भयितुं शक्या स्यात्
"आस्थाबन्धः कुसुमसदृशं प्रायशो ह्य् अङ्गनानां ।
सद्यःपाति प्रणयि हृदयं विप्रयोगे रुणद्धि ॥ (मेघदूत 10) ॥"
इति दृष्ट्या । तेन अस्य परिसमाप्तिधुरोद्वहस्य अपि दुरन्धरत्वम् अविकलम् एवेति । तद् इदं युक्तम् अयुक्तं वेति स्वयम् एव विदां कुरुत सहृदयाः

मूल पाठ: Ghaṭakarparakāvya with Abhinavagupta's Ghaṭakarparavivṛti · Edition: B. Parlier: La Ghaṭakarparavivṛti d'Abhinavagupta, Paris: Institut de civilisation indienne 1975. (Publications de l'Institut de civilisation indienne, 39) · Data entry Daniele Cuneo · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc