घटकर्परकाव्य (टीका सहित) · श्लोक 1-10
घटकर्परकाव्यम्
श्रीमन्महामाहेश्वराचार्यश्रीमदभिनवगुप्तपादरचितविवृत्युपेतम्
अपूर्वः को ऽयं ते वरद शिरसः शेखरविधिर् ननु ज्ञातं प्लुष्टं स्मरधनुर् इदं मूर्धनि धृतम् ।
यदालोकाल् लोके विषमविशिखः स्फूर्जतितराम् इति प्रोक्ते देव्या गलितनियमः शम्बुर् अवतात् ॥
इदं प्रोषितप्रमदया हेतुभूतया प्रोषितप्रमदाम् उद्दिश्य कथ्यते कुलकम् । तत्र किञ्चित् कविनिबद्धप्रम्दावक्तृकम्, किञ्चित्कविनिबद्धतत्सखीभाषितम्, किञ्चित् कविनिबद्धदूतीभाषितम्, अन्यत् कविप्रकटितप्रतिदूतीवचनम्, इतरत् स्वतन्त्रकविकथितम् इति बहुप्रकारं दर्शयिष्यामः । न तु सैव एका कथनकर्त्री । प्रोषितः प्रमदो वल्लभो हर्षश् च यस्याः । अथच प्रोषिता वल्लभेन वियुक्ता, प्रकृष्टेन यौवनशृङ्गारजनितेन मदेन च युक्ता । अन्यदेशतया वियुक्तत्वम् एव प्रोषितत्वेन लक्ष्यते
छादिते दिनकरस्य भावने खाज् जले पतति शोकभावने ।
मन्मथे च हृदि हन्तुम् उद्यते प्रोषितप्रमदयेदम् उद्यते
दिनं करोतीति दिनकरस् तस्य भावने रश्मिपुञ्जे छादिते तिरस्कृते सति तासां तमःप्रतिपक्षतया सुप्रसिद्धानाम् अपि स सूर्यो यत्र आच्छाद्यते तत्र कथं हर्षालोको ऽपि मानसो ऽस्तु, अथच विरहिणीनां रजनिसमयजनितरणरणककलुषितहृदयाणां कदाचित् दिनम् अपि विविधविनोदालोकवितरणेन बन्धुतां यायात् । अद्य तु यत्प्रसादात् तादृशदिनम् उपजायते तस्य अपि कश्चिद् आत्मीयः सहजः स्वभावः, सो ऽपि आच्छदित इति सातिशयं भाग्यहीनत्वं द्योतितम् । तथा जले च आकाशात् पतति । कीदृशी । शोकं भावयति । जलं हि निकटवर्तिना पार्थिवरजसा आत्मानं भावयति एकतया योजयतीति श्रुतम् इदम्, अद्य तु अपूर्वं वर्तते शोकेन विरहिणीर् भावयति शोकमय्य एव सम्पाद्यन्ते ताः । न हि तासां प्रावृट्समयमध्ये प्रियागमनशङ्कामात्रम् अपि अस्तीति तात्कालं नैराश्यम् एव खात् पततीत्य् अनेन अमुष्य दुष्प्रसहस्य अप्रतीकारतया सातिशयो ऽनुतापः सूच्यते । तथा मन्मथो हृदयप्रहरणं प्रति ससंरम्भः । अथच बाह्यो यः कश्चित् हन्ता तस्माद् उपायैः पलाय्यते ऽपि, अयं पुनर् हृदयावस्थित एव अन्तर्हननं प्रति ससंरम्भः । चशब्द एककालतासूचकः । यथा कश्चित् दुर्जनो निर्जने निरालोके दुर्दिन एव सशोकं जनम् अत एव निरुध्यमानम् एकाकिनं प्राप्यैव लब्धच्छिद्रः प्रहरति, तथाइव अमुष्मिन् काल ईदृशम् इव कामिनीजनं मदनस् ताडयतीत्य् अर्थः
सर्वकालम् अतिवाह्य तोयदा आगताः स्थ दयितो गतो यदा ।
निर्दयेन परदेशसेविना मारिष्यथ हि तेन मां विना
इयं नायिकाया एव उक्तिः । हे तोयदाः ! मच्छोकभावकजलवितरणोद्यता यत्र वयं प्रियवियुक्ता न अभूम, तादृशं कालम् अतिवाह्य यत्र क्वचित् यापयित्वा यदा अद्य दयितो गतस् तदा यूयम् आगताः । तथा सर्वं कालं दिष्टम् अथच कृतान्तरूपं येषां ते तथा मतिबाह्या अमनोज्ञमनसःपीडकत्वात् ते च तोयदाश् चेति विग्रहः । अतश् च मां मारिष्यथ, काक्वा उक्तिः । एवं नाम पुण्यभागिनी भूयासं, येन दयितजनविरहिता भीषणभवदीयचरितावलोकनपरिखिन्नहृदया जीवितत्यागेन अपि सुखम् आसीना । अथच दयितेन विना या जीवति सा अवश्यवधार्हैव । यश् च दिर्दयः सन् परदेशं सेवते, स चेत् दयिताया हृदयं प्रविष्टः, तत्करतलोपनतम् एव मरणम् । न हि असौ जलधरसमये किम् अपि कार्यं कर्तुम् समर्थ इति अवश्यम् एक एव क्वचन चिरम् आस्ते इति । तस्माद् अस्मासु उपरि प्रेम तावद् आस्ताम्; दयाम् अपि यदि अकरिष्यत्, तद् अवश्यम् इहैव आगमिष्यद् इत्य् एतावती कष्टपरम्परेति अनेन विश्वासपरिपाटीजनितदौःस्थित्यसूचकेन ध्वन्यते
प्रियतमं प्रति निजावस्थां जिज्ञापयिषुर् भीषणजलदविजृम्भाम् असहिष्णुर् युक्त्या कथंचिद् वचनात् यदि अमी देशान्तरं व्रजेयुस् तत् सर्वं सम्पत्स्यते । प्रियतमो ऽपि च तद्देशप्राप्तजलधरध्वानाकर्णनेन कदाचित् मदीयाम् अवस्थां स्वयं वा अनुभवेद् अपि इत्य् अभिप्रायेण नायिका इदम् आह
ब्रूत तं पथिकपांसुलं घना यूयम् एव पथिशीघ्रलङ्गन् ।
अन्यदेशरतिर् अद्य मुच्यतां साथवा तव वधूः किम् उच्यताम्
हे घनाः ! मेघाः, अथच अतिनिबिडाः, अत एव हननशीलाः, तम् पथिकानाम् मध्ये पांसुलं निर्मर्यादं निर्दयं ब्रूत । एतद् एव तस्य अभिज्ञानं यत् पथिकेषु मध्ये स एव निर्दय इत्य् अर्थः । यतो यूयम् एव पथः शीघ्रं लङ्गयथेत्य् अनेन कथम् इतः क्षिप्रम् एव व्रजेयुर् इति प्रोत्साहना ध्वन्यते । ब्रूतेति च अध्येषणा इयम्, लङ्गनं च चिरव्रजितस्य अपि झगिति आसादनम् । प्रियतमो हि चिरकालं प्रोषितः, स कथम् यो मार्गं लङ्घयितुम् न शक्यस् तेन अद्य इतश् चलितेन लभ्येतेति भावः । किं ब्रूत । अन्यस्मिन् देशे या इयं रतिर् विना अपि कार्यम् आसक्तिः, अथच वल्लभान्तरेण सह प्रेमविस्रम्भो न हि अन्यथा अम्बुधरकालो ऽतिवाह्य इति, सा रतिर् मुच्यताम् । अवश्यं हि तया रत्या भवान् ग्रथित एवेति उपालम्भगर्भा उक्तिः । अद्येति । अद्यैवेत्य् अर्थः । अथ कथं प्रेम सविस्रम्भं शिथिलयितुं शक्तस् तर्हि सा तव वधूर् न पुनः प्रियतमा, अपि तु शास्त्रसमयपत्नी । किं कथ्यताम्, न वयम् अप्रियम् आवेदयामः, निश्चितं तु प्राणान् नैव धारयेत् । अथवा साथवा तव वधूर् इत्य् एतावत् सन्देशवचनम् अभिधाय किम् अहं कथं वा भवेयम् इति किम् अलीकविकत्थनेनेति अवश्यम् एव न जीवामीत्य् अर्थः
हंसपङ्क्तिर् अपि नाथ सम्प्रति प्रस्थिता वियति मानसं प्रति ।
चातकश् च तृषितो ऽम्बु याचते दुःखिता पथिक सा प्रिया च ते
यदि पुनर् अद्य मार्गे गमनम् आगमनं च न युज्यते इति शङ्क्यते, तद् एवं ब्रूतेति नायिका आह -- हे पथिक ! न हि भवान् नित्यं यथा गच्छति, अतो यदा तद्देशगतो ऽभूत् तदा सा प्रिया श्रूयते स्म । अतः चातकस् तृषाक्रान्तो जलं याचते, सा च तव याञ्चां करोति । अनेन चातकयाञ्चां प्रति जलस्य कारकता । त्वं तु तदीययाञ्चां प्रति न कारकः । स हि याञ्चां प्रति कारको भवति यः कदाचित् आशापूरणं करोति । त्वं तु सर्वकालम् एवंविधप्रतिकूलाचरणचुञ्चुर् एव । तथापि तु याच्यसे । अत एव आह न प्रभुः पर्यनुयोगार्हः । हंसानां सम्बन्धिनी पङ्क्तिर् अतिबहवो ऽपि हंसा अद्य आकाशमार्गे मानसं प्रति प्रचलिताः । एको ऽपि हि यत्र गच्छति, तत्र अवश्यम् अपरस्य अपि अनिरुद्धेन पथा भाव्यं । किं पुनर् बहवः । यतश् च जलधरमुक्तजलपटले ते वियतो भुवि सञ्चरन्ति तस्य यद् एकायतनम् आकाशं तद् एव हंसानां मार्गत्वेन वर्तते । भूमौ मार्गे को भयसम्भवः । यत्र च अतिदूरं मानसं गन्तुं निर्बुद्धीनाम् अपि हंसानाम् उद्यमः, तत्र परिमितदेशनिवृत्तिमात्र एव न किम् इति सा प्रिया भवतो याचते
नीलशष्पम् अभिभाति कोमलं वारि विन्दति च चातको ऽमलम् ।
अम्बुदैः शिखिगणो विनाद्यते का रतिः प्रिय मया विनाद्य ते
नीलं शष्पाख्यं तृणं सर्वतो भाति, चातको निर्मलं जलं विन्दति जलं लभते, मयूरकुलं च मेघैः केकायुक्तं क्रियते इत्य् एतैर् वाक्यैर् प्रत्युत इह आगच्छतस् तव किम् अपि पथि मनोहरत्वम् इति ध्वन्यते । नीलं च शष्पम् अवलोकयतस् तत्सुकुमारतरस्पर्शानुभवसुखितचरणयुगलस्य गगननिपतितामलजलदलितक्लमस्य मुदितमयूररचितकेकाकरणनिर्भरविकस्वरकर्णद्वयस्य अवश्यं सर्वम् एव सुखम् । अद्य तु तूष्णीं स्थितस्य मया विना का रतिः, न काचिद् इति स्वात्मसौभाग्यसंभावनागर्भा इयम् उक्तिः । अथच मम ईदृशी अवस्था यतो वर्तते, ततो मां प्रति शष्पं नीलं मलिनस्वभावम् अपि कोमलं करुणार्द्रम् इव भाति । चातकश् च यो नाम्नैव प्रियगगनजलः प्रसिद्धः, सो ऽपि जलम् इह लभते, न तथा पिबतीति प्रतीयमाना उत्प्रेक्षा । अम्बुदैश् च विरहिहृदयस्फोटनपटुतरगर्जितैर् अपि ममोपरि करुणावशात् निजसुहृत्कुलम् आक्रन्दवत् सम्पाद्यते । का पुनर् मया विना मम अभावे का अरतिः कः खेदः, न कश्चित् । तथा मम अभावे भवतः का इयं रतिः को ऽयम् अनुबन्धः, सा म्रियताम् इति । अथच प्राङ् मया विना तव रतिर् न कदाचिद् अभूत्, अद्य तु कथं सा रतिः । अद्येत्य् अनेन प्राग् अत्यन्तप्रेमरसमानसताम् कपटेन किल प्रकटितवान् असीति ध्वन्यते । अत एव सोत्प्रासं प्रियेति आमन्त्रणम् इति उपालम्भगर्भा भणितिः
मेघशब्दमुदिताः कलापिनः प्रोषिताहृदयशोकलापिनः ।
तोयदागमकृशा च साद्य ते दुर्धरेण मदनेन साद्यते
अमी ये भवता पुरः परिदृश्यन्ते कलापिनस् ते मेघानां सेचनप्रधानानां सम्बन्धिना शब्देन मुदिताः केकाप्रियत्वात्, तथा च प्रोषितानां कान्तानां सम्बन्धिनि हृदये शोकं लापयन्ति सम्यक् श्लेषयन्ति अवश्यं, तथा प्रोषितानां हृदये शोकं लपन्ति तेषु हि कूजत्सु अवश्यं विरहिण्यः शोकवत्य इति निश्चीयते, तथा प्रोषिताहृदयं शोकेन लापयन्ति द्रवीकुर्वते । सा च ते प्रिया अद्य च तव दुर्धरेण कामेन पूर्वं हि कामभयभीतायास् त्वम् एव शरणम् अभूः, अद्य तु इह स्थितस्य तव मदनो दुर्धर इति दुर्निवारः । सम्बन्धमात्रे षष्ठी, न तु कर्तरि "खलर्थ" (2.3.69) इति प्रतिषेधात् । तथा तवैव सन्निहितस्य सा तोयदागमे कृशा अभूत् । आगमिष्यति जलधरसमयः प्रवत्स्यति च प्रियतमः इति रणरणकवती भवत्सन्निधाने कृशा बभूव । अद्य तत्र मध्ये भूयान् कालो गत इति अस्या अद्य हितेन भवितव्यम् इति कविनिबद्धदूतीवचनम् इदम् । न हि मेघानां स्वयम् एव "मेघशब्दमुदिताः" इति "तोयदागम-" इति च स्वातन्त्र्येण कथयितुम् उचितम् । "अम्बुदैः शिखिगणो विनाद्यते" इत्य् अत्रे तु प्राक्तनश्लोके मेघमुखसञ्चारिताक्षरा नायिका एव कविना वक्तृत्वेन उपनिबद्धा, इह तु नैवम्
किं क्षमापि तव नास्ति कान्तया पाण्डुगण्डपतितालकान्तया ।
शोकसागरजले च पातितां त्वद्गुणस्मरणम् एव पाति ताम्
सख्या एव दूतीत्वेन प्रेषिताया इयं भणितिः । आस्तां तावत् प्रेमानुबन्धः । तादृशी अपि या कान्ता लावण्यद्यसाधारणभूता, सा यदि ईदृशवत् जायते, तत् किं तया हेतुभूतया क्षमा अपि नास्ति । पान्डुरच्छाययोः कपोलयोः पतिता अलकान्ता यस्याः तदीयकपोलतलपाण्डिमानं मलिनस्वभावा अलका अपि प्रेक्षितुं न पारयन्तीत्य् अर्थः । अथच कान्तेति आमन्त्रणम् अपि । त्वं यदि तस्या वल्लभस् तया ईदृश्या जनमात्रकृपाभाजनभूतया अपि या सामान्यजनस्य कृपा भवति, सापि न अस्ति तव आत्मनि इयतापि पुरुषगुणं बहुमानं वहतो ऽपि । तथापि सा शोकार्णवपानीये मेघसमयवारिणा पातिता भवदीयगुणस्मरणेन एव रक्ष्यते । अथच त्वत्तस् तव सकाशात् पतिता शोके, भवद्विप्रयुक्ता च जाता, शोकजलधौ च निमग्ना सम्पन्नेत्य् अर्थः । चकाराद् एतद् ध्वन्यते, वस्तुतस् तु त्वद्गुणानाम् एव सातिशयसम्भोगादीनां स्मरणेन एव शोके पतिता । अद्य तु तथा कृपापात्रतां प्राप्ता, यद् उत तेन निष्करुणेन पातिता अपि त्वद्गुणस्मरणेन एव रक्ष्यते । मम किल स प्रियतमो ऽपगतो निर्बहुमानो मां प्रति च दृढतरप्रेमपवित्रितान्तःकरणो नूनं माम् एव तदवस्थां यथा पूर्वं त्रातवंस् तथा त्रास्यते इति त्वद्गुणानां स्मरन्ती सा जीवतीति यावत् । तथा यो ऽयं सागरे पतितः, सो ऽपि अवश्यं गुणस्मरणवृत्त्या एव रक्ष्यते दृढगुणविरचितरज्ज्ववलम्बनेन जातुचिद् उत्तरेयम् अपीत्य् अर्थः
कुसुमितकुटजेषु काननेषु प्रियरहितेषु समुत्सुकाननेषु ।
द्रवति च कलुषं जलं नदीनां किम् इति च मां समवेक्षसे न दीनाम्
इयं विलापावस्थां यातायाः स्वयम् एव नायिकाया उक्तिः । पुष्पितानि कुटजानि येषु वनेषु याः समुत्सुका उत्कण्ठिता मादृश्यस् तासां यानि आननानि प्रियतमवियुक्तानि तेषु तद्विषये नदीनाम् अपि कलुषं जलं गलति अस्मादृशीनां विरहिणीनाम् आननानि अवलोक्य जडभावानाम् अपि कलुषं जलं गलति, अस्मादृशीनां विरहिणीसरितां शोकाविलं जलं गलतीत्य् अर्थः । त्वं मां दीनां किम् इति समवेक्षसे ऽपि न । चकाराव् अपिशब्दार्थौ भिन्नक्रमौ, एक नदीनाम् इत्य् अस्य अनन्तरम्, अपरस् तु समवेक्षसेशब्दस्य
मार्गेषु मेघसलिलेन विनाशितेषु कामो धनुः स्पृशति तेन विना शितेषु ।
गम्भीरमेघरसितव्यथिता कदाहं जह्यां सखि प्रियवियोगजशोकदाहं
विसृष्टायाम् अपि दूत्यां तद्वचनाकर्णनाद् अपि न आगत इति शोकाकुलमनसि नायिकायां यदा, कदाचित् सखी तत्समाश्वासनाय इत्थम् अभिहितवती -- मार्गाणां दुःसञ्चरत्वाद् असौ न प्राप्तः, तदा पुनर् अपि नायिकायाः सखिं प्रति इयम् उक्तिः -- सखि ! पश्य , मार्गा मेघसलिलेन नाशितास् तथापरो ऽयं दोषः -- अप्रत्ययेषु मार्गेषु शिता इषवो यत्र तादृक् धनुः स्पृशति, शितं शिरं सन्धाय आकर्णाकृष्टं मोक्तुम् इच्छतीत्य् अर्थः । तेन विना तद्वियुक्तायाः । अथच यदि अहं तम् अभिसरेयम्, तत् मार्गा दुर्ज्ञानाः, तथाविधेषु अपि तेषु दुःसहं स्मरशरभयं स्मरश् च तद्वर्जं शरान् सन्धत्ते माम् एव ताडयति, अन्यथा कदाचित् तस्यैव गमनम् इह सम्भाव्यते । अथ इहस्था एव जलदसमयम् अतिवाहयामि, तत् गम्भीरेण घन्गर्जितेन जातत्रासा तिष्ठामि । अतो हे सखि ! कदा अहं प्रियवियोगजम् शोकदाहं जह्याम् । अहं च मेघशब्दव्यथिता, मदनश् च निशितशरपातनोद्यत इति अवश्यं मम जीवितान्तेन भाव्यं । तच् च कदा भवेत्, यत्र अहं सकलशोकनिर्मुक्ता सम्पद्येयेति । केचित् सखीप्रियेति पठन्तः सहृदयाः कथम् अद्य अपि सखी दूतीत्वेन विसृष्टा सा अपि न आगता तत् नूनं तत्सम्भोगरसलालसया तया भाव्यम् इति सम्भावयन्त्यां नायिकायां कयाचित् वयस्यया मार्गदौरात्म्ये तदागमनविघ्नकारिणि उपन्यस्ते स्वयं नायिकाया इदं सूक्तम् इति अभ्यूचुः । मार्गस् तावत् नष्टाः तेन च विना मदनः प्रहरतीति तन्निकटात् चलितुं न युज्यते ऽस्याः । अथच तत्सम्भोगरसवृत्तिस्मरणेनैव मदनकदर्थनार्हा अतो ऽहं सख्या । प्रियेण च सह वियोगः, तथा तस्याः सख्याः । इदानीं यः प्रियस् तेन सह वियोगः, तज्जं शोकदाहं कदा जीवितान्तेन अपि जह्याम्
सुसुगन्धितया वने ऽजितानां स्वनदम्भोधरवातवीजितानाम् ।
मदनस्य कृते निकेतनानां प्रतिभान्त्य् अद्य वनानि केतनानाम्
यदा विनोदार्थं सख्या उद्यानोपवनं नीता, तदा तद्दर्शनद्विगुणतरोपचितविलापावस्थाया नायिकाया इदं सूक्तम् । केतननाम्नां तरूणां वनानि अद्य विराजन्ते । कीदृशानाम् । सुष्ठु सौरभेण वनमध्ये केनचिद् अजितानां, तथा गर्जतां मेघानां पवनेन वीजितानां प्रबोधितानाम् । अत एव कामस्य कृते निकेतनानां सङ्केतधाम्नाम् । अयम् अभिप्रायः -- केतनवनानि मदननिवेशनस्थानानीति अतिसुकुमाराणि, जलधररसिततद्विमुक्तशीकरासारसहितश् च पवनस् तेषाम् एव प्रबोधनहेतुतया सुकुमारताम् आप्त इति किम् अत्र जलदसमये मार्गवैषम्यम्, तत् नूनम् एव केतनवानावलोकनप्रबोधितमदनस्थानसुखसंस्कारः प्रियतम आगमिष्यतीति सम्भावयन्त्या नायिकाया भणितिः प्रतिभातीति । अपरे तु वनशब्दपौनरुक्त्यम् अमृष्यमाणा मदनस्य अवने रक्षणे कृते अजितानां केतनानां वनानि शोभन्ते इति आहुः । अथवा सौरभेण ये वने एकान्ते यत्र अपरः परित्राता न सम्भाव्यते तत्र जिता अपहृतधैर्यवृत्तयः कृता विमोहिताः केचन विरहिजनाः तेषां दैववशात् जलधरशिशिरपवनप्रबोधितानाम् अपि पुनर् अपि एतानि केतनवनानि कामस्य कृते करणाय प्रतिभान्ति । मदनातङ्ककरणाद् ऋते न एतेषां किम् अपि प्रयोजनम् इति यावत् । स्वनशब्देन करुणावशात् शब्दायमानता ध्वन्यते । यदा स्वनन्तो गर्जन्तो ऽम्भोधरा यत्र संजातकृपाः संवृत्ताः, तत्र अमीषां केतनवनानां का इयं निष्करुणता
मूल पाठ: Ghaṭakarparakāvya with Abhinavagupta's Ghaṭakarparavivṛti · Edition: B. Parlier: La Ghaṭakarparavivṛti d'Abhinavagupta, Paris: Institut de civilisation indienne 1975. (Publications de l'Institut de civilisation indienne, 39) · Data entry Daniele Cuneo · GRETIL (Göttingen) · CC BY-NC-SA 4.0