घटकर्परकाव्य (टीका सहित) · श्लोक 21-21
भावानुरक्तललनासुरतैः शपेयम् आलभ्य चाम्बु तृषितः करकोशपेयम् ।
जीयेय येन कविना यमकैः परेण तस्मै वहेयम् उदकं घटकर्परेण
कविना औद्धत्यप्रकटनाय सहृदयजनमानसरञ्जनाय प्रतिज्ञा इयम् उपनिबध्यते । सञ्जातपिपासः करकोशेन हस्तसम्पुटेन पेयं पानार्हं तावद् अवसरप्राप्तम् अपि जलम् अत्यन्ताभिलाषौत्सुक्यपात्रम् अद्रोहयोग्यम् अपि प्रत्युत आलभ्य द्रुग्ध्वा सहजप्रेमप्रणयिनीसम्भोगरसैश् च शपेयम् । अत्र शरीरस्पर्शनाख्यस्य उपालम्भस्य न अतीव स्पष्टतेति "शप उपलाम्भने" (वा-911) इति आत्मनेपदाभावः । येन परेण कविना यमकैर् जीयेय, तस्मै घटकर्परेण जलं वहेयम् । कर्परशब्देन सातिशयक्लेशसमुद्वहत्वम् आत्मनि उच्यते । अत्र च यमकानां विप्रलम्भशृङ्गाररसातिशयविघ्नभूतानाम् अपि मया तथा अपृथग्यत्ननिर्वर्त्यतया निबन्धः कृतः, येन प्रत्युत रसपरिपोषकविशिष्टव्याख्याभिधायिपदपरम्परालाभो यमकैः सम्पन्नः । तद् उक्तं
"रसाक्षिप्ततया यस्य बन्धः शक्यक्रियो भवेत् ।
अपृथग्यत्ननिर्वर्त्यः सो ऽलङ्कारो ध्वनौ मतः ॥ (ध्व्- 2.16) ॥"
इति । एतया च प्रतिज्ञया एतत् परिहृतं
"ध्वन्यात्मभूते शृङ्गारे यमकादिनिबन्धनम् ।
शक्ताव् अपि प्रमादित्वं विप्रलम्भे विशेषतः ॥ (ध्व्- 2.15) ॥"
इति । न हि इयं राजाज्ञा, अपि तु रसबन्धविघ्नकारित्वप्रमादः परिहार्यः । अत्र च प्रत्युत आत्मपरिपोषकत्वम् एव उक्तेन प्रकारेण यमकानाम् इति । कवीनां शक्तिर् एव बलीयसी, सा एव लोकोत्तरा व्युत्पत्तिर् इति अभिधीयते; न तु अन्या कविशक्तेर् व्युत्पत्तिर् नाम काचित् । यद् उक्तं मया एव रौरवे विचारे
"न वै दोषा दोषा न च खलु गुणा एव च गुणा
निबन्धुः स्वातन्त्र्यं सपदि गुणदोषान् विभजते ।
इयं सा वैदग्धी प्रकृतिमधुरा तस्य सुकवेर्
यद् अत्रोत्पादाद् अप्य् अतिसुभगभावः परिणतः ॥"
इति शिवम्
मूल पाठ: Ghaṭakarparakāvya with Abhinavagupta's Ghaṭakarparavivṛti · Edition: B. Parlier: La Ghaṭakarparavivṛti d'Abhinavagupta, Paris: Institut de civilisation indienne 1975. (Publications de l'Institut de civilisation indienne, 39) · Data entry Daniele Cuneo · GRETIL (Göttingen) · CC BY-NC-SA 4.0