भाषा

ENहिગુ
ग्रंथ पाठ

गौरगओविन्दार्चनस्मरणपद्धति · श्लोक 61-80

61

मन्त्रो यथा--श्रीं गुं भगवद्-गुरवे स्वाहा ।
ततो ऽवशेष-निर्माल्यादिकं गृह्णीयात्; स्थानान्तरे च संस्थाप्य प्रभुपाद-पद्मे पुष्पाञ्जलिं दत्त्वा आरात्रिकं कुर्यात् ।
तद्-अन्तरं चामर-व्यजनादिकं कृत्वा श्री-गुरु-पार्श्वे तिष्ठन् ध्यानानुक्रमेण निरीक्षणं कृत्वा ततो बहिः-पूजयेत् ।
बहिः-पूजां कृत्वानन्तरं स्व-स्व-गायत्री-मन्त्रान् जपेत् क्रमात्--
तत्रादौ श्री-गुरु-गायत्री यथा पाद्मे--श्रीं गुरुदेवाय विद्महे गौर-प्रियाय धीमहि तन् नो गुरुः प्रचोदयात् ।
प्रथमं मन्त्र-गुरोः पूजा पश्चाच् चैव ममार्चनम् ।
कुर्वन् सिद्धिम् अवाप्नोति ह्य् अन्यथा निष्फलं भवेत्

62

ध्यानादौ श्री-गुरोर् मूर्तिं पूजादौ च गुरोः पूजाम् ।
जपादौ च गुरोर् मन्त्रं ह्य् अन्यथा निष्फलं भवेत्

63

ततो जप-लक्षणं यथा (श्री-हरि-भक्ति-विलासः 17.143, 129)--
न कम्पयेच् छिरो ग्रीवां दन्तान् नैव प्रकाशयेत् ।
मनः-संहरणं शौचं मौनं मन्त्रार्थ-चिन्तनम्

64

मनो-मध्ये स्थितो मन्त्रो मन्त्र-मध्ये स्थितं मनः ।
मनो-मन्त्रं समायुक्तम् एतद् धि जप-लक्षणम्

65

अथ जपाङ्गुल्यादि-नियमः (श्री-हरि-भक्ति-विलासः 17.116-120)--
तत्राङ्गुलि-जपं कुर्वन् साङ्गुष्ठाङ्गुलिभिर् जपेत् ।
अङ्गुष्ठेन विना कर्म कृतस् तद् अफलं भवेत्

66

कनिष्ठानामिका मध्या चतुर्थी तर्जनी मता ।
तिस्रो ऽङ्गुल्यस् त्रि-पर्वा स्युर् मध्यमा चैक-पर्विका

67

पर्व-द्वयं मध्यमाया जप-काले विवर्जयेत् ।
एवं मेरुं विजानीयाद् ब्रह्मणा दूषितं स्वयम्

68

आरभ्यानामिका-मध्यात् प्रदक्षिणम् अनुक्रमात् ।
तर्जनी-मूल-पर्यन्तं क्रमाद् दशसु पर्वसु

69

अङ्गुलिर् न वियुञ्जीत किञ्चित् सङ्कोचयेत् तलम् ।
अङ्गुलीनां वियोगे तु छिद्रेषु स्रवते जपः

70

मध्यमा चैक-पर्विका इत्य् उक्तेः केचित् मध्यमा-मध्य-पर्व गृह्णन्ति तन् न ।
अथ जप-क्रमो यथा--
प्रथमं गुरुदेवस्य मन्त्र-गायत्रीं संस्मरेत् ।
ततः श्री-गौरचन्द्रस्य गायत्र्य् उच्चारणं तथा

71

श्रीलावधूतेन्द्राद्वैत-मन्त्र-गायत्रीं संस्मरेत् ।
ततः श्री-गदाधरस्य श्रीवास-पण्डितस्य च

72

श्री-गुरुदेवस्य मन्त्रो यथा--श्रीं गुं भगवद्-गुरवे स्वाहा ।
अथ गायत्री--श्रीं गुरुदेवाय विद्महे, गौर-प्रियाय धीमहि, तन् नो गुरुः प्रचोदयात् ।
इति श्री-गुरु-गायत्री-स्मरणानन्तरं गुरु-वर्गान् स्मरेत्; स्मरण-क्रमो यथा--
श्री-गुरु-परम-गुरुर् इत्यादि-क्रमेण स्व-स्व-प्रणाल्य्-अनुसारेण स्व-स्व-परिवारेश्वर-परम-परमेष्ठि-गुरु-पर्यन्तं ध्यानं कृत्वा स्वीय-स्वीय-नामानि चतुर्थ्यन्तं कृत्वा जपानन्तरं श्री-श्री-चैतन्य-महाप्रभोर् मन्त्रं गायत्रीं च स्मरेत् ।
मन्त्रो यथा -क्लीं गौराय स्वाहा ।
गायत्री यथा -क्लीं चैतन्याय विद्महे विश्वम्भराय धीमहि तन् नो गौरः प्रचोदयात् ।
मन्त्रो यथा -क्लीं देव-जाह्नवी-वल्लभाय स्वाहा ।
गायत्री यथा -क्लीं नित्यानन्दाय विद्महे सङ्कर्षणाय धीमहि तन् नो बलः प्रचोदयात् ।
मन्त्रो यथा -क्लीं अद्वैताय स्वाहा ।
गायत्री यथा -क्लीं अद्वैताय विद्महे महा-विष्णवे धीमहि तन् नो अद्वैतः प्रचोदयात् ।
मन्त्रो यथा -श्रीं गदाधराय स्वाहा ।
गायत्री यथा -गां गदाधराय विद्महे पण्डिताख्याय धीमहि तन् नो गदाधरः प्रचोदयात् ।
मन्त्रो यथा -श्रीं श्रीवासाय स्वाहा ।
गायत्री यथा -श्रीं श्रीवासाय विद्महे नारदाख्याय धीमहि तन् नो भक्तः प्रचोदयात् ।
श्री श्री गौर-गदाधर मन्त्रो यथा -क्लीं श्रीं गौर-गदाधराय स्वाहा ।
अनन्तरं स्तव-प्रणामादि कृत्वा श्री-गौरचन्द्राष्ट-कालीय-सूत्रानुसरेण स्मरेत्--
गौरस्य शयनोत्थानात् पुनस् तच्-छयनावधि ।
नानोपकरणैः कुर्यात् सेवनं तत्र साधकः

73

श्री-नवद्वीप-चन्द्रस्य चरितामृतम् अद्भुतम् ।
चिन्त्यतां चिन्त्यतां नित्यं मानस-सेवनोत्सुकः

74

निशान्ते गौरचन्द्रस्य शयनं च निजालये ।
प्रातः-काले कृतोत्थानं स्नानं तद्-भोजनादिकम्

75

पूर्वाह्न-समये भक्त-मन्दिरे परमोत्सुकम् ।
मध्याह्ने परमाश्चर्य-केलिं सुर-सरित्-तटे

76

अपराह्ने नवद्वीप-भ्रमणं भूरि-कौतुकम् ।
सायाह्ने गमनं चारु-शोभनं निज-मन्दिरे

77

प्रदोषे प्रिय-वर्गाढ्यं श्रीवास-भवने तथा ।
निशायां स्मरेद् आनन्दं श्रीमत्-संकीर्तनोत्सवम्

78

एवं श्री-चैतन्य-देवं निषेव्य सिद्ध-देहेन श्री-कृष्ण-सेवाङ्गं विदध्यात् ।
अत्र कारिका--
तच् चिन्तनादि-समये कुर्यात् तद् अनुसारतः ।
चिन्तनं तु तयोस् तत्र वसन् गुरु-गणान्वितः

79

पुनश् चाक्षुष-लीले ऽस्मिन् सिद्ध-देहेन साधकः ।
मनसा मानसीं सेवाम् अष्ट-कालोचितां व्रजेत्

80

साधकः सिद्ध-देहेन कुर्यात् कृष्ण-प्रिया-गृहे ।
गुरु-रूप-प्रिया-पार्श्वे ललितादि सखी-गणे

मूल पाठ: Gauragaovindārcanasmaraṇapaddhati · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc