भाषा

ENहिગુ
ग्रंथ पाठ

गौरगओविन्दार्चनस्मरणपद्धति · श्लोक 81-100

81

निवासं यावटे नित्यं गुरु-रूपा-सखी-युतः ।
श्री-यावट-पुरे श्रीमद्-वृषभानु-पुरे ऽपि च

82

नन्दीश्वर-पुरे राधा-कृष्ण-कुण्ड-तट-द्वये ।
श्रीमद्-वृन्दावने रम्ये श्रीमद्-वृन्दावनेशयोः

83

प्रातर् आद्यष्ट-समये सेवनं तु क्रमेण च ।
नानोपकरणैर् दिव्यैर् भक्ष्य-भोज्यादिभिः सदा ।
चामर-व्यजनाद्यैश् च पाद-संवाहनादिभिः

84

किशोरी गोप-वनिता सर्वालङ्कार-भूषिता ।
पृथु-तुङ्ग-कुच-द्वन्द्वा चतुःषष्टि-गुणान्विता

85

निगूढ-भावा गोविन्दे मदनानन्द-मोहिनी ।
नाना-रस-कलालाप-शालिनी दिव्य-रूपिनी

86

सङ्गीत-रस-संजात-भावोल्लास-भरान्विता ।
दिवा-निशं मनो-मध्ये द्वयोः प्रेमा-भराकुला

87

सर्व-लक्षन-सम्पन्ना भाव-हावादि-भूषिता ।
गुरु-प्रसाद-जननी गुरु-रूपा-प्रियानुगा ।
गान्धर्विका-स्व-यूथ-स्था ललितादि-गणान्विता

88

स्व-यूथेश्वर्य्-अनुगता यावट-ग्राम-वासिनी ।
चिन्तनीयाकृतिः सा च काम-रूपानुगामिनी

89

चिद्-आनन्द-रसमयी द्रुत-हेम-सम-प्रभा ।
सुचीन-नील-वसना नानालङ्कार-भूषिता

90

श्री-राधा-कृष्णयोः पार्श्व-वर्तिनी नव-यौवना ।
गुरु-दत्तस्य नाम्नो ऽस्या माता वर्गाद्य-मञ्जरी ।
पिता वर्ग-तृतीयाख्यो वर्गान्ताह्वयकः पतिः

91

निवासो यावटे तस्या दक्षिणा मृद्विका हि सा ।
श्री-राधा-वस्त्र-सेवाढ्या नानालङ्कार-भूषिता

92

अस्यैव सिद्ध-देहस्य साधनानि यथा-क्रमम् ।
एकादश-प्रसिद्धानि लक्ष्यन्ते ऽतिमनोहरम्

93

नाम रूपं वयो वेशः सम्बन्धो यूथ एव च ।
आज्ञा सेवा पराकाष्ठा पाल्य-दासी निवासकः

94

एतेषां विशेष-लक्षणान्य् उच्यन्ते--
श्री-रूप-मञ्जरीत्यादि-नामाख्यानानुरूपतः ।
चिन्तनीयं यथा-योग्यं स्वनाम व्रज-सुभ्रुवाम्

95

रूपं यूथेश्वरी-रूपं भावनीयं प्रयत्नतः ।
त्रैलोक्य-मोहनं कामोद्-दीपनं गोपिका-पतेः

96

वयो नाना-विधं तत्र यत् तु त्रिदश-वत्सरम् ।
माधुर्याद्भुत-कैशोरं विख्यातं व्रज-सुभ्रुवाम्

97

वेशो नील-पटाद्यैश् च विचित्रालङ्कृतैस् तथा ।
स्वस्य देहानुरूपेण स्वभाव-रस-सुन्दरः

98

सेव्य-सेवक-सम्बन्धः स्वमनोवृत्ति-भेदतः ।
प्राणात्यये ऽपि सम्बन्धं न कदा परिवर्तयेत्

99

यथा यूथेश्वरी-यूथः सदा तिष्ठति तद्-वशे ।
तथैव सर्वथा तिष्ठे-द्भूत्वा तद्-वश-वर्तिनी

100

यूथेश्वर्याः शिरस्य् आज्ञा-मादाय हरि-राधयोः ।
यथोचितां च शुश्रूषां कुर्याद् आनन्द-संयुता

मूल पाठ: Gauragaovindārcanasmaraṇapaddhati · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc