गौरगओविन्दार्चनस्मरणपद्धति · श्लोक 41-60
पार्श्वाधः-पद्म-पटि-घटित-हरि-मणि-स्तम्भ-वैदूर्य-पृष्ठं
चित्र-छादावलम्बि-प्रवर-मणि-महा-मौक्तिकं कान्ति-जालम् ।
तूलान्तश् चीन-चेलासनम्-उडुप-मृदु-प्रान्त-पृष्ठोपधानं
स्वर्णान्तश् चित्र-मन्त्रं वसु-हरि-चरण-ध्यान-गम्याष्ट-कोशम्
तन्-मध्ये श्री-गौर-चन्द्रं वामे श्रील-गदाधरम् ।
तद्-दक्षिणे ऽवधूतेन्द्रं श्रीलाद्वैतं ततः स्मरेत्
तद्-दक्षिणे श्रीनिवासं स्मरेत् श्री-पण्डितोत्तमम् ।
स्मरेत् श्री-भक्त-वृन्दं च चतुर्-दिक्षु सुवेष्टितम्
श्रीमद्-गौर-भक्त-वृन्दे स्वीय-स्वीय-गणान्विते ।
रूप-स्वरूप-प्रमुखे स्व-गण-स्थान् गुरून् स्मरेत्
तत्रादौ श्री-गुरु-स्मरणं यथा सनत्-कुमार-संहितायाम्--
शशाङ्कायुत-संकाशं वराभय-लसत्-करं ।
शुक्लाम्बर-धरं दिव्य-शुक्ल-माल्यानुलेपनम्
प्रसन्न-वदनं शान्तं भजनानन्द-निर्वृतम् ।
दिव्य-रूप-धरं ध्यायेद् वरदं कमलेक्षणम्
रूप-पूर्व-गुरु-गणान्-उगतं सेवनोत्सुकम् ।
एवं रूपं गुरुं ध्यायेन् मनसा साधकः शुचिः
तत्-समीपे सेवोत्सुकम् आत्मानं भावयेद् यथा--
दिव्य-श्री-हरि-मन्दिराढ्य-तिलकं कण्ठं सुमालान्वितं
वक्षः श्री-हरि-नाम-वर्ण-सुभगं श्रीखण्ड-लिप्तं पुनः ।
शुद्धं शुभ्र-नवाम्बरं विमलतां नित्यं वहन्तीं तनुं
ध्यायेच्-छ्री-गुरु-पाद-पद्म-निकटे सेवोत्सुकां चात्मनः
श्रीमन्-मौक्तिक-दाम-बद्ध-चिकुरं सुस्मेर-चन्द्राननं
श्रीखण्डागुरु-चारु-चित्र-वसनं स्रग्-दिव्य-भूषाञ्चितम् ।
नृत्यावेश-रसानुमोद-मधुरं कन्दर्प-वेशोज्ज्वलं
चैतन्यं कनक-द्युतिं निज-जनैः संसेव्य्मानं भजे
कञ्जारेन्द्र-विनिन्दि-सुन्दर-गतिं श्री-पादम् इन्दीवर*
श्रेणी-श्याम-सद्-अम्बरं तनु-रुचा सान्ध्येन्दु-संमर्दकम् ।
प्रेमोद्घूर्ण-सुकञ्ज-खञ्जन-मदा-जिन्-नेत्र-हास्याननं
नित्यानन्दम् अहं स्मरामि सततं भूषोज्ज्वलाङ्ग-श्रियम्
सद्-भक्तालि-निषेविताङ्घ्रि-कमलं कुन्देन्दु-शुक्लाम्बरं
शुद्ध-स्वर्ण-रुचिं सुबाहु-युगलं स्मेराननं सुन्दरम् ।
श्री-चैतन्य-दृशं वराभय-करं प्रेमाङ्ग-भूषाञ्चित*
मद्वैतं सततं स्मरामि परमानन्दैक-कन्दं प्रभुम्
कारुण्यैक-मरन्द-पद्म-चरणं चैतन्य-चन्द्र-द्युतिं
ताम्बूलार्पण-भङ्गि-दक्षिण-करं श्वेताम्बरं सद्-वरम् ।
प्रेमानन्द-तनुं सुधा-स्मित-मुखं श्री-गौर-चन्द्रेक्षणं
ध्यायेच् छ्रील-गदाधरं द्विज-वरं माधुर्य-भूषोज्ज्वलम्
श्रि-चैतन्य-पदारविन्द-मधु-पाः सत्-प्रेम-भूषोज्ज्वलाः
शुद्ध-स्वर्ण-रुचो दृग्-अम्बु-पुलक-स्वेदैः सद्-अङ्ग-श्रियः ।
सेवोपायन-पाणयः स्मित-मुखाः शुक्लाम्बराः सद्-वराः
श्रीवासादि-महाशयान् सुख-मयान् ध्यायेम तान् पार्षदान्
इति स्मरणानन्तरं श्री-गुरोर् आज्ञया श्रीमन्-महाप्रभुं षोडशोपचारादिभिः तन्-मूल-मन्त्रेणैव पूजयेत् ।
श्रीमन्-महाप्रभु-मन्त्रोद्धारो यथा ऊर्द्ध्वाम्नाये श्री-व्यासं प्रति श्री-नारद-वाक्यम् (3.14-16)
अहो गूढतमः प्रश्नो भवता परिकीर्तितः ।
मन्त्रं वक्ष्यामि ते ब्रह्मन् महा-पुण्य-प्रदं शुभम्
क्लीं गौराय नम इति सर्व-लोकेषु पूजितः ।
माया-रमानङ्ग-बीजैः वाग्-बीजेन च पूजितः ।
षडक्षरः कीर्तितो ऽयं मन्त्र-राजः सुर-द्रुमः
मन्त्रो यथा--क्लिं गौराय नमः; ह्रीं, श्रीं, क्लीं, ऐं गौराय नमः ।
एतत् पाद्यम्, एतद् अर्घ्यम्, एतद् आचमनीयम्, एष गन्धः, एतत् पुष्पम्, एष धूपः, एष दीपः, एतन् नैवेद्यम्, एतत् पानीय-जलम्, इदम् आचमनीयम्, एतत् ताम्बूलम्, एतद् गन्ध-माल्यम्, एष पुष्पाञ्जलिर् इत्यादि ।
एवं श्री-नित्यानन्द-प्रभुं पूजयेत्, श्रीमन्-नित्यानन्द-प्रभोर् मन्त्रोद्धारो यथा (ब्रह्माण्ड-पुराणे धरणी-शेष-सम्वादे)--
इति नामाष्ट-शतकं मन्त्रं निवेदितं शृणु ।
मया त्वयि पुरा प्रोक्तं काम-बीजेति संज्ञकम्
वह्नि-बीजेन पूतान्ते चादौ देव नमस् तथा ।
जाह्नवी-पदं तत्रैव वल्लभाय ततः परम् ।
इति मन्त्रो द्वादशार्णः सर्वत्रैव मनोहरः
मन्त्रो यथा--क्लिं देव-जाह्नवी-वल्लभाय स्वाहा ।
इति मन्त्रेणैव पूजयेत् ।
एवं श्री-अद्वैत-प्रभुं पूजयेत् ।
अथ श्री-अद्वैत-प्रभोर् मन्त्रोद्धारो यथा पाद्मे--
अहो गूढतमः प्रश्नो नारद मुनि-सत्तम ।
न प्रकाश्यस् त्वया ह्य् एतद् गुह्याद् गुह्यतरं महत्
काम-बीज-समायुक्ता अद्वैत-वह्नि-नायिका ।
ङे ऽन्ता वै ऋषि-वर्णो ऽयं मन्त्रः सर्वातिदुर्लभः
मन्त्रो यथा--क्लीं अद्वैताय स्वाहा ।
तद्-अनन्तरं श्रीमन्-महाप्रभोः शेष-निर्माल्येन श्री-गदाधर-पण्डितं पूजयेत् तन्-मन्त्रेणैव, श्री-गदाधर-पण्डित-मन्त्रो यथा--श्रीं गदाधराय स्वाहा ।
अथ तथैव श्री-श्रीवासादि-भक्तान् गुरु-वर्गादीन् महाप्रभु-निर्माल्य-प्रसादेन पूजयेत्, स्व-स्व-नाम-चतुर्थ्यन्तेन श्री-गुरु-देवं तु तन्-मूल-मन्त्रेणैव पूजयेत् ।
श्री-गुरु-मन्त्रोद्धरो यथा बृहद्-ब्रह्माण्ड-पुराणे सूत-शौनक-सम्वादे--
श्रीं गुम् इत्य् एव भगवद्-गुरवे वह्नि-वल्लभा ।
दशार्ण-मन्त्र-राजश् च सर्व-कार्येषु रक्षिता
मूल पाठ: Gauragaovindārcanasmaraṇapaddhati · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0