गौरगओविन्दार्चनस्मरणपद्धति · श्लोक 341-360
मन्त्रो यथा --श्रीं कस्तूरी-मञ्जर्यै स्वाहा ।
अस्या ध्यानं यथा तत्रैव--
विशुद्ध-हेमाब्ज-कलेवराभां
काच-द्युति-चारु-मनोज्ञ-चेलाम् ।
श्री-राधिकाया निकटे वसन्तीं
भजाम्य् अहं कौस्तूरी-मञ्जरिकाम्
अथ वृन्दावनाधीशौ पद्म-केशर-मध्य-गौ ।
कोटि-कन्दर्प-लावण्यौ ध्यायेत् प्रिय-सखी-वृतौ
उक्त-वेश-वयो-रूप-संयुतौ सुमनोहरौ ।
संस्मरेत् सिद्ध-देहेन साधकः साधनैर् युतः
तत्रादौ मञ्जरी-रूपान् गुर्वादीन् तु स्वीयान् स्वीयान् प्रणाल्य्-अनुसारेण संस्मरेत् श्री-गुरु-परम-गुरु-क्रमेणेति ततः श्री-राधिकां ध्यायेत् ।
ततः श्री-नन्दनन्दनम् ।
अथ युगल-मन्त्रोद्धारो यथा सनत्-कुमार-संहितायाम्--
गोपीजन-वल्लभेति चरणान् इति च क्रमात् ।
शरणं च प्रपद्ये च तत एतत् पद-द्वयम्
पद-त्रयात्मको मन्त्रः षोडशार्ण उदाहृतः ।
नमो गोपीजनेत्य् उक्त्वा वल्लभाभ्यां वदेत् ततः ।
पद-द्वयात्मको मन्त्रो दशार्णः खलु कथ्यते
मन्त्रो यथा--गां गोपीजन-वल्लभ-चरणान् शरणं प्रपद्ये,
नमो गोपीजन-वल्लभाभ्याम् ।
अस्य ध्यानं यथा तत्रैव--
अथ ध्यानं प्रवक्ष्यामि मन्त्रस्यास्य द्विजोत्तम ।
पीताम्बरं घन-श्यामं द्वि-भुजं वन-मालिनम्
बर्हि-बर्ह-कृतापीशं शशि-कोटि-निभाननम् ।
घूर्णायमान-नयनं कर्णिकारावतंसिनम्
अभितश् चन्दनेनाथ मध्ये कुङ्कुम-बिन्दुना ।
विचित्र-तिलकं भाले विभृतं मण्डलाकृतिम्
तरुणादित्य-सङ्काश-कुण्डलाभ्यां विराजितम् ।
घर्माम्बु-कणिका-राजद्-दर्पणाभ-कपोलकम्
प्रिया-मुखे कृतापाङ्ग-लीलया चोन्नत-भ्रुवम् ।
अग्र-भाग-लसन्-मुक्ता-स्फुरद्-उच्च-सुनासिकम्
दशन-ज्योत्स्नया राजत्-पक्व-बिम्ब-फलाधरम् ।
केयूराङ्गद-सद्-रत्न-मुद्रिकादि-लसत्-करम्
विभृतं मुरलीं वामे पाणौ पद्मं तथोत्तरे ।
काञ्ची-दाम-स्फुरन्-मध्यं नूपुराभ्यां लसत्-पदम्
रति-केलि-रसावेश-चपलं चपलेक्षणम् ।
हसन्तं प्रियया सार्धं हासयन्तं च तां मुहुः
इत्थं कल्प-तरोर्-मूले रत्न-सिंहासनोपरि ।
वृन्दारण्ये स्मरेत् कृष्णं संस्थितं प्रियया सह
वाम-पार्श्वे स्थितां तस्य राधिकां च स्मरेत् ततः ।
सुचीन-नील-वसनां द्रुत-हेम-सम-प्रभाम्
पटाञ्चलेनावृताङ्गां स-स्मितानन-पङ्कजाम् ।
कान्त-वक्त्रे न्यस्त-नृत्यच्-चकोरीं चञ्चलेक्षणाम्
अङ्गुष्ठ-तर्ज्जनीभ्यां च निज-प्रिय-मुखाम्बुजे ।
अर्पयन्तीं नाग-वल्लीं पूग-चूर्ण-समन्विताम्
मुक्ताहार-स्फुरच्-चारु-पीनोन्नत-पयोधराम् ।
क्षीण-मध्यां पृथु-श्रोणिं किङ्किणी-जाल-मण्डिताम्
रत्न-ताडङ्क-मञ्जीर-रत्न-पादाङ्गुलीयकाम् ।
लावण्य-सार-मुग्धाङ्गीं सर्वावयव-सुन्दरीम्
आनन्द-रस-सम्मग्नां प्रसन्नां नव-यौवनम् ।
सख्यश् च तस्या विप्रेन्द्र तत्-समान-वयो-गुणाः ।
तत्-सेवन-परा भाव्याश् चामर-व्यजनादिभिः
मूल पाठ: Gauragaovindārcanasmaraṇapaddhati · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0