गौरगओविन्दार्चनस्मरणपद्धति · श्लोक 321-340
वयो ऽस्या एक-मासाढ्या हायनास् तु त्रयोदश ।
सप्त-विंशतिभिर् युक्तं दिनैश् च समुदीरितम् (13-1-27)
गोपाल-भट्ट-नामासौ ख्याता गौर-रसे कलौ
अस्या मन्त्रोद्धारो यथा किशोरी-तन्त्रे--
गणेशो मुख-वृत्ताढ्यो नाद-बिन्दु-समन्वितः ।
ङे ऽन्ता वह्नि-प्रियान्ता च मन्त्रो वै गुण-मञ्जरी
मन्त्रो यथा--गां गुण-मञ्जर्यै स्वाहा
अस्या ध्यानं यथा तत्रैव--
जबा-निभ-दुकूलाढ्यां तडिद्-आलि-तनु-च्छविम् ।
कृष्णामोद-कृतापेक्षां भजे ऽहं गुण-मञ्जरीम्
लीलानन्द-प्रदो नाम्ना सुदेव्याः कुञ्जकोत्तरे ।
तत्रैव तिष्ठति सदा मञ्जुलाली सुमञ्जरी
रूप-मञ्जरिका-सख्य-प्राया सा गुण-सम्पदा ।
जबा-राजि-दुकूलेयं तप्त-हेम-तनु-च्छविः
लीला-मञ्जरी नामास्या वाम-मध्यात्वम् आश्रिता ।
वयः-सप्ताह-युक्तासौ सार्ध-त्रिदश-हायना (13-6-7)
कलौ गौर-रसे लोक-नाथ-गोस्वामितां गता
अस्या मन्त्रोद्धारो यथा किशोरी-तन्त्रे--
लक्ष्मी-युक्ता मञ्जुलाली मञ्जरी वह्नि-जायिका ।
चतुर्थ्यन्ता भवेन् मन्त्रो दशार्णः खलु कथ्यते
मन्त्रो यथा--श्रीं मञ्जुलाली-मञ्जर्यै स्वाहा
अस्या ध्यानं यथा तत्रैव--
प्रतप्त-हेमाङ्ग-रुचिं मनोज्ञां
शोणाम्बरां चारु-सुभूषणाढ्याम् ।
श्री-राधिका-पाद-सरोज-दासीं
तां मञ्जुलालीं नियतं भजामि
वैशाख-कुञ्जाद् आग्नेये कुञ्जो ऽस्ति सुमनोहरः
विलासानन्ददो नाम्ना-त्रास्ते विलास-मञ्जरी
विलास-मञ्जरी रूप-मञ्जरी-सख्यम् आश्रिता ।
स्वकान्त्या सदृशीं चक्रे या दिव्यां स्वर्ण-केतकीम्
चञ्चरीक-दुकूलेयं वामा मृद्वीत्वम् आश्रिता
कनिष्ठा रस-मञ्जर्याश् चतुर्भिर् दिवसैर् इयम् (12-11-26)
जीव-गोस्वामितां प्राप्ता कलौ गौर-रसे त्व् असौ
अस्या मन्त्रोद्धारो यथा किशोरी-तन्त्रे--
श्रिया प्रचेतसा चैव नाद-बिन्द्व् आस्य-वृत्त-गा ।
विलास-मञ्जरी ङे ऽन्ता स्वाहान्तो मनुर् ईरितः
मन्त्रो यथा--श्रीं वां विलास-मञ्जर्यै स्वाहा
अस्या ध्यानं यथा तत्रैव--
स्वर्ण-केतक-विनिन्दि-कायकां
निन्दित-भ्रमर-कान्तिकाम्बराम् ।
कृष्ण-पाद-कमलोपसेवनीम्
अर्चयामि सुविलास-मञ्जरीम्
नैरृते श्री-रङ्गदेवी-कुञ्जात् कुञ्जो ऽस्ति पश्चिमः ।
कौस्तूर्यानन्ददो नाम्ना तत्रास्ते कौस्तूरी-मञ्जरी
काच-तुल्याम्बरा चासौ शुद्ध-हेमाङ्ग-कान्ति-भाक् ।
वयस् त्रिदश-वर्षासौ वामा मृद्वीत्वम् आश्रिता
श्री-कृष्ण-कविराजाख्यां प्राप्ता गौर-रसे कलौ
अस्या मन्त्रोद्धारो यथा किशोरी-तन्त्रे--
श्री-बीजेन समायुक्ता ङे ऽन्ता कौस्तूरी-मञ्जरी ।
स्वाहान्त इति वै प्रोक्तो नवार्ण-मन्त्र उच्यते
मूल पाठ: Gauragaovindārcanasmaraṇapaddhati · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0