भाषा

ENहिગુ
ग्रंथ पाठ

गौरगओविन्दार्चनस्मरणपद्धति · श्लोक 301-320

301

तारावली-दुकूलेयं तडित्-तुल्य-तनु-च्छविः ।
दक्षिणा मृद्वीका ख्याता तुलसीति वदन्ति याम्

302

अस्या वयो द्वि-मासाढ्य-हायनास् तु त्रयोदश (13-2) ।
इयं श्री-रघुनाथाख्यां प्राप्ता गौर-रसे कलौ

303

अस्या मन्त्रोद्धारो यथा किशोरी-तन्त्रे--
नाद-बिन्दु-युतो वह्निर् मुख-वृत्त-समन्वितः ।
स्वाहान्ता मञ्जरी ङे ऽन्ता रति-मञ्जरिका-मनुः

304

मन्त्रो यथा--रां रति-मञ्जर्यै स्वाहा
अस्या ध्यानं यथा तत्रैव--
तारालिवासो-युगलं वसानां
तडित्-समान-स्वतनु-च्छविं च ।
श्री-राधिकाया निकटे वसन्तीं
भजे सुरूपां रति-मञ्जरीं ताम्

305

कुञ्जस्य तुङ्गविद्यायाः कुञ्जः पूर्वत्र वर्तते ।
लवङ्ग-सुखदो नाम्ना सुदृशां सुमनोहरः

306

लवङ्ग-मञ्जरी तत्र मुदा तिष्ठति सर्वदा ।
सा तु रूपाख्य-मञ्जर्या एकेनाह्ना वरीयसी

307

उद्यद्-विद्युत्-समान-श्रीस् तारावली-पटावृता ।
श्री-कृष्णानन्ददा नित्यं दक्षिणा मृद्विका मता

308

वय एक-दिनं सार्ध-हायनास् तु त्रयोदश (13-6-1) ।
श्री-सनातन-नामासौ ख्याता गौर-रसे कलौ

309

अस्या मन्त्रोद्धारो यथा किशोरी-तन्त्रे--
श्री-लीलाभ्यां समायुक्ता
ङे ऽन्ता लवङ्ग-मञ्जरी ।
स्वाहा लवङ्ग-मञ्जर्या
मन्त्रो ऽयं दश-वर्णकः

310

मन्त्रो यथा--श्रीं लां लवङ्ग-मञ्जर्यै स्वाहा
अस्या ध्यानं यथा तत्रैव--
चपला-द्युति-निन्दि-कान्तिकां
शुभ-तारावलि-शोभिताम्बराम् ।
व्रज-राज-सुत-प्रमोदिनीं
प्रभजे तां च लवङ्ग-मञ्जरीम्

311

रसानन्द-प्रदो नाम्ना चित्रा-कुञ्जस्य पश्चिमे ।
कुञ्जो ऽस्ति तत्र वसति सर्वदा रस-मञ्जरी

312

श्री-रूप-मञ्जरी-सम्यग्-जिवातु सा प्रकीर्तिता ।
हंस-पक्ष-दुकूलेयं फुल्ल-चम्पक-कान्ति-भाक्

313

लवङ्ग-मञ्जरी-तुल्या प्रायेण गुण-सम्पदा ।
अतीव प्रियतां प्राप्ता श्री-रूप-मञ्जरी-श्रिता

314

सन्धान-चतुरा सेयं दौत्ये कौशलम् आगता ।
त्रयोदश-शरद्-युक्ता (13) दक्षिणा मृद्विका मता

315

सा कलौ रघुनाथाख्या-युक्त-भट्टत्वम् आगता

316

अस्या मन्त्रोद्धारो यथा किशोरी-तन्त्रे--
मुख-वृत्त-युतो वह्नि-नाद-बिन्दु-समन्वितः ।
स्वाहान्त-सम्प्रदानान्तो मन्त्रो वै रस-मञ्जरी

317

मन्त्रो यथा--रां रस-मञ्जर्यै स्वाहा ।
अस्या ध्यानं यथा तत्रैव--
हंस-पक्ष-रुचिरेण वाससा
संयुतां विकच-चम्पक-द्युतिम् ।
चारु-रूप-गुण-सम्पदान्वितां
सर्वदापि रस-मञ्जरीं भजे

318

ऐशान्ये चम्पकलता-कुञ्जात् कुञ्जो ऽस्ति शोभनः ।
गुणानन्द-प्रदो नाम्ना तत्रास्ते गुण-मञ्जरी

319

रूप-मञ्जरिका-सौख्याभिलाषा सा प्रकीर्तिता ।
जबा-राजि-दुकूलेयं तडित्-प्रकर-कान्ति-भाक्

320

कनिष्ठेयं भवेत् तस्यास् तुलस्यास् तु त्रिभिर् दिनैः ।
श्री-कृष्णामोद-दाक्षिण्यम् आश्रिता प्रखरोदिता

मूल पाठ: Gauragaovindārcanasmaraṇapaddhati · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc