गौरगओविन्दार्चनस्मरणपद्धति · श्लोक 281-300
अस्या यूथो यथा (श्री-कृष्ण-गणोद्देशे 1.246)--
मञ्जुमेधा सुमधुरा सुमध्या मधुरेक्षणा ।
तनूमध्या मधुस्यन्दा गुणचूडा वराङ्गदा
अस्या मन्त्रोद्धारो यथा किशोरी-तन्त्रे--
लक्ष्मी-पूर्वा तुङ्गविद्या चतुर्थी हुत-भुक्-प्रिया ।
मन्त्रो ऽयं तुङ्गविद्याया वसु-वर्णः समीरितः
मन्त्रो यथा--श्रीं तुङ्गविद्यायै स्वाहा ।
अस्या ध्यानं, यथा तत्रैव--
चन्द्राढ्यैर् अपि चन्दनैः सुललितां श्री-कुङ्कुमाभ-द्युतिं
सद्-रत्नान्वित-भूषणाञ्चित-तनुं शोणाम्बरोल्लासिताम् ।
सद्-गीतावलि-संयुतां बहु-गुणां डम्फस्य शब्देन वै
नृत्यन्तीं पुरतो हरे रसवतीं श्री-तुङ्गविद्यां भजे
वायव्य-दलके कुञ्जम् आस्ते हरित-वर्णकम् ।
वसन्त-सुखदम् अत्र सुदेवी वर्तते सदा
कलहान्तरिता-भावम् आपन्ना रति-युग्-घरौ ।
पद्म-किञ्जल्क-रुचिरा जबा-पुष्प-निभाम्बरा
असौ च जल-सेवाढ्या वामा प्रखरिका मता ।
वेद-वासर-संयुक्त-द्वि-मास-मनु-हायना (14-2-4)
अस्या वयः-परिमाणं यावटे तु निकेतनम् ।
मातास्याः करुणा प्रोक्ता जनको रङ्गसागरः
भ्रात्रा वक्रेक्षणस्येयम् परिणीता कनीयसा ।
श्री-वासुदेव-घोषाख्याम् आप्ता गौर-रसे त्व् असौ
कलहान्तरिता-लक्षणं यथा (उन् 5.87)--
या सखीनां पुरः पाद-पतितं वल्लभं रुषा ।
निरस्य पश्चात् तपति कलहान्तरिता हि सा ।
अस्याः प्रलाप-सन्ताप-ग्लानि-निःश्वसितादयः
उदाहरणं यथा (उन् 5.88)--
स्रजः क्षिप्ता दूरे स्वयम् उपहृताः केशि-रिपुणा
प्रिय-वाचस् तस्य श्रुति-परिसरान्ते ऽपि न कृताः ।
नमन्न् एष क्षौनी-विलुठित-शिखं प्रैक्षि न मया
मनस् तेनेदं मे स्फुटति पुटपाकार्पितम् इव
वाम-प्रखरा-लक्षणोदाहरणे तूक्ते; अस्या यूथो यथा (श्री-कृष्ण-गणोद्देशे 1.249)-
कावेरी चारुकवरी सुकेशी मञ्जुकेशिका ।
हारहिरा हारकण्ठी हारवल्ली मनोहरा
अस्या मन्त्रोद्धारो यथा रुद्र-यामले--
द्वे वाग्-भवे रमा ङे ऽन्ता सुदेवी दहन-प्रिया ।
उक्तः सुदेव्या मन्त्रो ऽयम् अष्टार्णः प्रेम-भक्ति-दः
मन्त्रो यथा--ऐं सौं श्रीं सुदेव्यै स्वाहा ।
अस्या ध्यानं यथा तत्रैव--
अम्भोज-केशर-समान-रुचिं सुशीलां
रक्ताम्बरां रुचिर-हास-विराजि-वक्त्राम् ।
श्री-नन्दनन्दन-पुरो जल-सेवनाढ्यां
सद्-भूषणावलि-युतां च भजे सुदेवीम्
कुञ्जो ऽस्ति रूपोल्लासाख्यो ललिता-कुञ्जकोत्तरे ।
सदा तिष्ठति तत्रैव सुशोभा रूप-मञ्जरी
प्रिय-नर्म-सखी-मुख्या सुन्दरी रूप-मञ्जरी ।
गोरोचना-समाङ्ग-श्रीः केकि-पत्रांशुक-प्रिया
सार्ध-त्रिदश-वर्षासौ (13-6) वाम-मध्यात्वम् आश्रिता ।
रङ्गण-मालिका चेति प्रवदन्ति मनीषिणः
इयं लवङ्ग-मञ्जर्या एकेनाह्ना कनीयसी ।
कलौ गौर-रसे रूप-गोस्वामित्वं समागता
अस्या मन्त्रोद्धारो यथा किशोरी-तन्त्रे--
श्री-बीजेन समायुक्ता ङे ऽन्ता वै रूप-मञ्जरी ।
अयम् अष्टाक्षरो रूप-मञ्जर्या मन्त्र ईरितः
मन्त्रो यथा--श्रीं रूप-मञ्जर्यै स्वाहा ।
अस्या ध्यानं यथा तत्रैव--
गोरोचना-निन्दि-निजाङ्ग-कान्तिं
मायूर-पिञ्छाभ-सुचीन-वस्त्राम् ।
श्री-राधिका-पाद-सरोज-दासीं
रूपाख्यकां मञ्जरिकां भजे ऽहम्
रत्यम्बुजाख्यः कुञ्जो ऽस्ति इन्दुलेखा-कुञ्ज-दक्षिणे ।
तत्रैव तिष्ठति सदा सुरूपा रति-मञ्जरी
मूल पाठ: Gauragaovindārcanasmaraṇapaddhati · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0