भाषा

ENहिગુ
ग्रंथ पाठ

गौरगओविन्दार्चनस्मरणपद्धति · श्लोक 241-260

241

गृहम् अस्यास् तु यावटे पिता सागर-संज्ञकः

242

अस्या माता भवेद् वेला पतिर् अस्यास् तु दुर्बलः ।
वसु-रामानन्दतया ख्याता गौर-रसे ह्य् असौ

243

प्रोषित-भर्तृका-लक्षणं यथा (उन् 5.89)--
दूर-देशं गते कान्ते भवेत् प्रोषित-भर्तृका ।
प्रिय-संकीर्तनं दैन्यम् अस्यास् तानव-जागरौ ।
मालिन्यम् अनवस्थानं जाड्य-चिन्तादयो मताः

244

उदाहरणं यथा (उन् 5.90)--
विलासी स्वच्छन्दं वसति मथुरायां मधु-रिपु*
र्वसन्तः सन्तापं प्रथयति समन्ताद् अनुपदम् ।
दुराशेयं वैरिण्य् अहह मद्-अभीष्टोद्यम-विधौ
विधत्ते प्रत्यूहं किम् इह भविता हन्त शरणम्

245

वाम-प्रखरा-लक्षणोदाहरणे तूक्ते; अस्या यूथो यथा श्री-कृष्ण-गणोद्देश-दीपिकायाम् (1.247)--
तुङ्गभद्रा चित्रलेखा सुरङ्गी रङ्गवाटिका ।
मङ्गला सुविचित्राङ्गी मोदिनी मदनापि च

246

अस्या मन्त्रोद्धारो यथा ईशान-संहितायाम्--
वाग्-भवश् चेन्दुलेखा च चतुर्थी वह्नि-जायिका ।
मन्त्रः स्याच् चेन्दुलेखाया अष्टार्णः समुदीरितः

247

मन्त्रो यथा--ऐम् इन्दुलेखायै स्वाहा ।
अस्या ध्यानं यथा तत्रैव--
हरिताल-समान-देह-कान्तिं
विकसद्-दारिम-पुष्प-शोभि-वस्त्राम् ।
अमृतं ददतीं मुकुन्द-वक्त्रे
भज आलीम् अहम् इन्दुलेखिकाख्याम्

248

दक्षिणे ऽस्मिन् दले काम-लता-नामास्ति कुञ्जकम् ।
अत्यन्त-सुखदं तप्त-जाम्बूनद-सम-प्रभम्

249

श्री-चम्पकलता तिष्ठ-त्यमुष्मिन् कृष्ण-वल्लभा ।
असौ वासक-सज्जात्वम् आपन्ना रति-युग्-घरौ

250

वाम-मध्या चम्पकाभा चातकाभ-शुभाम्बरा ।
तत्-सेवा रत्न-मालाया दानं चामर-चालनम्

251

सार्ध-त्रयोदश-दिन-मास-द्वय-समन्विताः ।
मनु-संख्या-हायनाश् च वयोमानं भवेत् पुनः (14-2-13 1।2)

252

मातास्या वाटिका ख्याता पिता चाराम-संज्ञकः ।
अस्याश् च भर्ता चण्डाख्यस् तथा गौर-रसे ह्य् असौ ।
शिवानन्दतया ख्यातिम् आगता हि कलौ युगे

253

वासक-सज्जा-लक्षणं यथा (उन् 5.76-77)--
स्ववासक-वशात् कान्ते समेष्यति निजं वपुः ।
सज्जी-करोति गेहं च या सा वासक-सज्जिका

254

चेष्टास्याः स्मर-संक्रीडा-सङ्कल्प-वर्त्म-वीक्षणम् ।
सखी-विनोद-वार्त्ता च मुहुर् दूति-क्षणादयः

255

उदाहरणं यथा (उन् 5.78)--
रति-क्रीडा-कुञ्जं कुसुम-शयनीयोज्ज्वल-रुचिं
वपुः सालङ्कारं निजम् अपि विलोक्य स्मित-मुखी ।
मुहुर् ध्यायं ध्यायं किम् अपि हरिणा सङ्गम-विधिं
समृद्ध्यन्ति राधा मदन-मद-माद्यन् मतिर् अभूत्

256

वाम-प्रखरा-लक्षणोदाहरणे तूक्ते; अस्या यूथो यथा (कृष्ण-गणोद्देशे 1.244)--
कुरङ्गाक्षी सुरचिता मण्डली मणिमण्डना ।
चण्डिका चन्द्रलतिका कन्दुकाक्षी सुमन्दिरा

257

अस्या मन्त्रोद्धारो यथा गारुडे--
आदौ च चम्पकलता ङे ऽन्ता वैश्वानर-प्रिया ।
मन्त्रो ऽयं चम्पकलता-प्रेमदो वसु-वर्णकः

258

मन्त्रो यथा--चम्पकलतायै स्वाहा ।
अस्या ध्यानं यथा तत्रैव--
चम्पकावलि-समान-कान्तिकां
चातकाभ-वसनां सुभूषणाम् ।
रत्न-माल्य-युत-चामरोद्यतां
चारु-चम्पकलतां सदा भजे

259

रक्षोदले श्याम-वर्णे कुञ्जे श्री-रङ्गदेविका ।
सुखदाख्ये निवसति नित्यं श्री-हरि-वल्लभा

260

पद्म-किञ्जल्क-वर्णाभा जबा-पुष्प-निभाम्बरा ।
उत्कण्ठिता-भाव-युक्ता श्री-कृष्णे रति-भाक् सदा

मूल पाठ: Gauragaovindārcanasmaraṇapaddhati · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc