गौरगओविन्दार्चनस्मरणपद्धति · श्लोक 221-240
मन्त्रो यथा -ऐं सौं विशाखायै स्वाहा ।
अस्या ध्यानं, यथा तत्रैव--
सच्-चम्पकावलि-विडम्बि-तनुं सुशीलां
ताराम्बरां विविध-भूषण-शोभमानाम् ।
श्री-नन्दनन्दन-पुरो वसनादि-भूषा-*
दाने रतां सुकुतुकां च भजे विशाखाम्
चित्रं पूर्व-दले कुञ्जं पद्म-किञ्जल्क-नामकम् ।
श्री-चित्रा स्वामिनी तत्र वर्तते कृष्ण-वल्लभा
अभिसारिकात्वम् आपन्ना हरौ रति-समन्विता ।
लवङ्ग-माला-सेवाढ्या काश्मीर-वर्ण-संयुता
काच-तुल्याम्बरा चासौ सदा चित्र-गुणान्विता ।
अस्याश् चैव वयोमानं मनु-संख्या-दिनान्वितम्
ऋषि-मासाधिकं शक्र-हायनं चेति विश्रुतम् (14-7-14)
चतुरो ऽस्याः पिता प्रोक्तो जनन्य् अस्याश् च चर्च्चिका ।
पतिः पीठरकश् चास्या असौ गौर-रसे पुनः
गोविन्दानन्दतां प्राप्ता चतुर्थ-युग-मध्यके ।
इयं त्व् अधिक-मृद्वी च गृहम् अस्यास् तु यावटे
अभिसारिका-लक्षणं यथा (उन् 5.71-72)--
याभिसारयते कान्तं स्वयं वाभिसरत्य् अपि ।
सा ज्योत्स्नी तामसी यान-योग्य-वेषाभिसारिका
लज्जया स्वाङ्ग-लीनेव निःशब्दाखिल-मण्डना ।
कृतावगुष्ठा स्निग्धैक-सखी-युक्ता प्रियं व्रजेत्
उदाहरणं यथा तत्र (1) ज्योत्स्न्य्-अभिसारिकायाः (उन् 5.74)--
इन्दुस् तुन्दिल-मण्डलं प्रणयते वृन्दावने चन्द्रिकां
सान्द्रां सुन्दरि नन्दनो व्रज-पतेस् त्वद् वीथिम् उद्वीक्षते ।
त्वं चन्द्राञ्चित-चन्दनेन खचिता क्षौमेण चालङ्कृता
किं वर्त्मन्य् अरविन्द-चारु-चरण-द्वन्द्वं न सन्धित्ससि
(2) तामस्य्-अभिसारिकायाः (विम् 4.22, उन् 5.75)--
तिमिर-मसिभिः संवीताङ्ग्यः कदम्ब-वनान्तरे
सखि बक-रिपुं पुण्यात्मानः सरन्त्य् अभिसारिकाः ।
तव तु परितो विद्युद्-वर्णास् तनु-द्युति-सूचयो
हरि हरि घन-ध्वान्तान्येताः स्ववैरिणि भिन्दते
(उन् 8.21)--
अधिका मृदवश् चात्र चित्रा मधुरिकादयः
अधिक-मृद्व्य्-उदाहरणं, यथा (उन् 8.20)--
दरापि न दृग्-अर्पिता सखि शिखण्ड-चूडे मया
प्रसीद बत मा कृथा मयि वृथा पुरोभागिताम् ।
नटन्-मकर-कुण्डलं सपदि चण्डि लीला-गतिं
तनोत्य् अयम् अदूरतः किम् इह संविधेयं मया
अस्या यूथो यथा (श्री-कृष्ण-गणोद्देश-दीपिका 1.245)--
रसालिका तिलकिनी शौरसेनी सुगन्धिका ।
वामनी वामनयना नागरी नागवल्लिका
अस्या मन्त्रोद्धारो, यथा स्कान्दे--
लक्ष्मीश् चित्रा चतुर्थ्यन्ता वह्नि-जाया षडक्षरः ।
मन्त्रो ऽयं चित्रिका-नाम्न्याः कृष्ण-सख्या उदीरितः
मन्त्रो यथा--श्रीं चित्रायै स्वाहा ।
अस्या ध्यानं, यथा तत्रैव--
काश्मीर-वर्णां सहितां विचित्र-*
गुणैः स्मिता-शोभि-मुखीं च चित्राम् ।
काचाम्बरां कृष्ण-पुरो लवङ्ग*-
माला-प्रदाने नितरां स्मरामि
आग्नेय-पत्रे पूर्णेन्दु-कुञ्ज-स्वर्णाभ-वर्णके ।
श्री-इन्दुलेखा वसत्य् अत्र हरिताल-समाङ्गिका
दाडिम्ब-कुसुमोद्भासि-वसना कृष्ण-वल्लभा ।
प्रोषित-भर्तृका-भावम् आपन्ना रति-युग्-घरौ
अमृताशन-सेवाढ्या यासौ नन्दात्मजस्य वै ।
वयोमानं भवेत् तस्याः सर्व-शास्त्रेषु सम्मतम्
सार्ध-दिग्-वासरैर् युक्ता द्वि-मास-मनु-हायना (14-2-10 1।2) ।
असौ तु वाम-प्रखरा हरेश् चामर-सेविनी
मूल पाठ: Gauragaovindārcanasmaraṇapaddhati · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0