भाषा

ENहिગુ
ग्रंथ पाठ

गौरगओविन्दार्चनस्मरणपद्धति · श्लोक 261-280

261

असौ चन्दन-सेवाढ्या वाम-मध्या भवेत् पुनः ।
गृहम् अस्या यावटे तु वयोमानं भवेत् पुनः

262

सार्ध-वेद-दिनैर् युक्तं द्वि-मासं मनु-हायनम् (14-2-4 1।2) ।
माता श्री-करुणा प्रोक्ता पिता श्री-रङ्गसागरः

263

पतिर् वक्रेक्षणः प्रोक्तो ह्य् असौ गौर-रसे पुनः ।
गोविन्दानन्द-घोषाख्याम् आपन्ना हि कलौ युगे

264

उत्कण्ठिता-लक्षणं यथा (उन् 5.79-80)--
अनागसि प्रियतमे चिरयत्य् उत्सुका तु या ।
विरहोत्कण्ठिता भाव-वेदिभिः सा समीरिता

265

अस्यास् तु चेष्टा हृत्-तापो वेपथुर् हेतु-तर्कणम् ।
अरतिर् वाष्प-मोक्षण् च स्वावस्था-कथनादयः

266

उदाहरणं यथा (उन् 5.81)--
सखि किम् अभवद् बद्धो राधा-कटाक्ष-गुणैर् अयं
समरम् अथवा किं प्रारब्धं सुरारिभिर् उद्धुरैः ।
अहह बहुलाष्टम्यां प्राची-मुखे ऽप्य् उदिते विधौ
विधु-मुखि! न यन् मां सस्मार व्रजेश्वर-नन्दनः

267

वाम-मध्या-लक्षणोदाहरणे तूक्ते; अस्या यूथो यथा (श्री-कृष्ण-गणोद्देशे 1.248)
कलकण्ठी शशिकला कमला प्रेम-मञ्जरी ।
माधवी मधुरा काम-लता कन्दर्प-सुन्दरी

268

अस्या मन्त्रोद्धारो यथा किशोरी-तन्त्रे--
लक्ष्मीर् अग्नि-रङ्गदेवी ङे ऽन्ता वह्नि-प्रिया ततः ।
रङ्गदेव्यास् तु मन्त्रो ऽयम् अष्टार्णो राग-भक्ति-दः

269

मन्त्रो यथा--श्रीं रां रङ्गदेव्यै स्वाहा ।
अस्या ध्यानं च तत्रैव--
राजीव-किञ्जल्क-समान-वर्णां
जबा-प्रसूनोपम-वासस्-आढ्याम् ।
श्रीखण्ड-सेवा-सहितां व्रजेन्द्र-
सूनोर् भजे रास-ग-रङ्गदेवीम्

270

कुञ्जो ऽस्ति पश्चिमे दले ऽरुण-वर्णः सुशोभनः ।
तुङ्गविद्यानन्ददो नाम्नेति विख्यातिम् आगतः

271

नित्यं तिष्ठति तत्रैव तुङ्गविद्या समुत्सुका ।
विप्रलब्धात्वम् आपन्ना श्री-कृष्णे रति-युक् सदा

272

चन्द्र-चन्दन-भूयिष्ठ-कुङ्कुम-द्युति-शालिनी ।
पाण्डु-मण्डन-वस्त्रेयं दक्षिण-प्रखरोदिता

273

मेधायां पौष्कराजाता पतिर् अस्यास् तु बालिशः ।
नृत्य-गीतादि-सेवाढ्या गृहम् अस्यास् तु यावटे

274

द्वाविंशति-दिनैर् युक्ता द्वि-मास-मनु-हायनाः (14-2-22)

275

अस्या वयः-प्रमाणं स्याद् असौ गौर-रसे पुनः ।
वक्रेश्वर इति ख्यातिम् आपन्ना हि कलौ युगे

276

विप्रलब्धा-लक्षणं यथा (उन् 5.83-84)--
कृत्वा सङ्केतम् अप्राप्ते दैवाज् जीवित-वल्लभे ।
व्यथमानान्तरा प्रोक्ता विप्रलब्धा मनीषिभिः ।
निर्वेद-चिन्ता-खेदाश्रु-मूर्छा-निःश्वसितादि-भाक्

277

उदाहरणं यथा--
विन्दति स्म दिवम् इन्दुर् इन्दिरा-*
नायकेन सखि वञ्छिता वयम् ।
कुर्महे किम् इह शाधि सादरं
द्राग् इति क्लममगान् मृगेक्षणा

278

दक्षिणा-लक्षणं यथा (उन् 8.38, 42)--
असहा मान-निर्बन्धे नायके युक्त-वादिनी ।
सामभिस् तेन भेद्या च दक्षिणा परिकीर्तिता

279

तुङ्गविद्यादिका चात्र दक्षिण-प्रखरा भवेत्

280

उदाहरणं यथा (श्री-गीत-गोविन्दे 9.10)--
स्निग्धे यत् परुषासि यत् प्रणमति स्तब्धासि यद् रागिणि
द्वेषं यासि यद् उन्मुखे विमुखतां यातासि तस्मिन् प्रिये ।
तद् युक्तं विपरीत-कारिणि! तव श्रीखण्ड-चर्चा विषं
शीतांशुस् तपनो हिमं हुतवहः क्रीडा-मुदो यातनाः

मूल पाठ: Gauragaovindārcanasmaraṇapaddhati · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc