भाषा

ENहिગુ
ग्रंथ पाठ

गौरगओविन्दार्चनस्मरणपद्धति · श्लोक 201-220

201

प्रत्येकं प्रखरा मध्या मृद्वी चेति पुनस् त्रिधा

202

प्रगल्भ-वाक्या प्रखरा ख्याता दुर्लङ्घ्य-भाषिता ।
तद् ऊनत्वे भवेन् मृद्वी मध्या तत्-साम्यम् आगता

203

तत्र लघु-प्रखरा (उन् 8.31) --
सा लघु-प्रखरा द्वेधा भवेद् वामाथ दक्षिणा

204

तत्र वामा (उन् 8.32)--
मान-ग्रहे सदोद्युक्ता तच् छैथिल्ये च कोपना ।
अभेद्या नायके प्रायः क्रूरा वामेति कीर्त्यते

205

(उन् 8.37)--
यूथे ऽत्र वाम-प्रखरा ललिताद्याः प्रकीर्तिताः

206

वाम-प्रखरोदाहरणं, यथा (उन् 8.36)--
अमूर् व्रज-मृगेक्षणाश् चतुर्-अशीति-लक्षाधिकाः
प्रतिस्वम् इति कीर्तितं सवयसा तवैवामुना ।
इहापि भुवि विश्रुता प्रिय-सखी महार्घ्येत्य् असौ
कथं तद् अपि साहसी शठ! जिघृक्षुर् एनाम् असि

207

अस्या यूथो, यथा (श्री-कृष्ण-गणोद्देश-दीपिका 1.242)--
रत्नरेखा (-प्रभा) रति-कला सुभद्रा चन्द्र (भद्र-) रेखिका ।
सुमुखी च धनिष्ठा च कलहंसी कलापिनी

208

अस्या मन्त्रोद्धारो, यथा सम्मोहन-तन्त्रे--
लक्ष्मी लीला च ललिता ङे ततो वह्नि-नायिका ।
एषो ऽष्टार्णो महा-मन्त्रो ललितायास् तु राग-दः

209

मन्त्रो यथा--श्रीं लां ललितायै स्वाहा ।
अस्या ध्यानं, यथा तत्रैव--
गोरोचना-द्युति-विडम्बि-तनूं सुवेशीं
मयूर-पिञ्छ-वसनां शुभ-भूषणाढ्याम् ।
ताम्बूल-सेवन-रतां व्रज-राज-सूनोः
श्री-राधिका-प्रिय-सखीं ललितां स्मरामि

210

ईशान-दल आनन्द-नामकं कुञ्जम् अस्ति हि ।
मेघ-वर्णं श्री-विशाखा यत्रास्ते कृष्ण-वल्लभा

211

स्वाधीन-भर्तृका-भावम् आपन्ना हि हरौ सदा ।
वस्त्रालङ्कार-सेवाढ्या गौराङ्गी तारकाम्बरा

212

पक्षाहर्-युग्-युग्म-मास-संयुक्त-मनु-हायना (14-2-15) ।
अस्या वयः पिता माता पावनो दक्षिणा क्रमात्

213

पतिर् यस्या बाहुकाख्यो ऽप्य् असौ गौर-रसे पुनः ।
राय-रामानन्दतया विख्याताभूत् कलौ युगे

214

इयं त्व् अधिक-मध्या हि गृहम् अस्यास् तु यावटे

215

स्वाधीन-भर्तृका-लक्षणम् (उन् 5.91)--
स्वायत्तासन्न-दयिता भवेत् स्वाधीन-भर्तृका ।
सलिलारण्य-विक्रीडा-कुसुमावचयादि-कृत्

216

उदाहरणं यथा (उन् 5.92)--
मुदा कुर्वन् पत्राङ्कुरम् अनुपमं पीन-कुचयोः
श्रुति-द्वन्द्वे गन्धाहृत-मधुपम् इन्दीवर-युग्मम् ।
सखेलं धम्मिल्लोपरि च कमलं कोमलम् असौ
निरावाधां राधां रमयति चिरं केशि-दमनः

217

(उन् 8.19)--
अत्र यूथे विशाखाद्या भवन्त्य् अधिक-मध्यमाः

218

अधिक-मध्योदाहरणं यथा (उन् 8.17)--
दामार्प्यतां प्रिय-सखी-प्रहितां त्वयैव
दामोदरे कुसुमम् अत्र मयावचेयम् ।
नाहं भ्रमाच् चतुरिके सखि सूचनीया
कृष्णः कदर्थयति माम् अधिकं यद् एषः

219

अस्या यूथो यथा (कृष्ण-गणोद्देश-दीपिका 1.243)--
मालती माधवी चन्द्र-रेखा चापि शुभानना ।
कुञ्जरी हरिणी चैव सुरभिश् चपलापि च

220

अस्या मन्त्रोद्धारो, यथा बृहद्-गौतमीये--
वाग्-भवः सौं ततो ङे ऽन्ता विशाखा वह्नि-जायिका ।
अष्टाक्षरो विशाखाया मन्त्रो ऽयं प्रेम-वृद्धि-दः

मूल पाठ: Gauragaovindārcanasmaraṇapaddhati · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc