गौरगओविन्दार्चनस्मरणपद्धति · श्लोक 181-200
श्री-राधा-मन्त्रोद्धारो यथा गौरी-तन्त्रे--
श्री-नाद-बिन्दु-संयुक्ता तथाग्निर् मुख-वृत्त-युक् ।
चतुर्थी वह्नि-जायान्ता राधिकाष्टाक्षरो मनुः
मन्त्रो यथा -श्रीं रां राधिकायै स्वाहा ।
गायत्री यथा -श्री-राधिकायै विद्महे, प्रेम-रूपायै धीमहि, तन् नो राधा प्रचोदयात् ।
अस्या ध्यानं यथा तत्रैव--
स्मेरां श्री-कुङ्कुमाभां स्फुरद्-अरुण-पट-प्रान्त-क् प्तावगुण्ठां
रम्यां वेशेन वेणी-कृत-चिकुर-शिखालम्बि-पद्मां किशोरीम् ।
तर्ज्जन्य्-अङ्गुष्ठ-युक्त्या हरि-मुख-कमले युञ्जतीं नागवल्ली-*
पर्णं कर्णायताक्षीं त्रि-जगति मधुरां राधिकाम् अर्चयामि
तप्त-हेम-प्रभां नील-कुन्तल-बद्ध-मल्लिकाम् ।
शरच्-चन्द्र-मुखीं नृत्य-चकोरी-चञ्चलेक्षणाम्
बिम्बाधर-स्मित-ज्योत्स्नां जगज्-जीवन-दायिकाम् ।
चारु-रत्न-स्तनालम्बि-मुक्तादाम-विभूषणाम्
नितम्ब-नील-वसनां किङ्किणी-जाल-मण्डिताम् ।
नाना-रत्नादि-निर्माण-रत्न-नूपुर-धारिणीम्
सर्व-लावण्य-मुग्धाङ्गीं सर्वावयव-सुन्दरीम् ।
कृष्ण-पार्श्व-स्थितां नित्यं कृष्ण-प्रेमैक-विग्रहाम् ।
आनन्द-रस-सम्मग्नां किशोरीम् आश्रये वने
सौरीं रक्ताम्बरां रम्यां सुनेत्रां सुस्मिताननाम् ।
श्यामां श्यामाखिलाभीष्टां राधिकाम् आश्रये वने
विना राधा-प्रसादेन कृष्ण-प्राप्तिर् न जायते ।
ततः श्री-राधिका-कृष्णौ स्मरणीयौ सुसंयुतौ
यथा भविष्योत्तरे--
प्रेम-भक्तौ यदि श्रद्धा मत्-प्रसादं यदीच्छसि ।
तदा नारद भावेन राधायाराधको भव
तथा च नारदीये--
सत्यं सत्यं पुनः सत्यं सत्यम् एव पुनः पुनः ।
विना राधा-प्रसादेन मत्-प्रसादो न विद्यते
श्री-राधिकायाः कारुण्यात् तत्-सखी-संगतिम् इयात् ।
तत्-सखीनां च कृपया योषिद्-अङ्गम् अवाप्नुयात्
अनङ्ग-सुखदाख्यो ऽस्ति कुञ्जस् तस्योत्तरे दले ।
विज्ञेयो ऽयं तडिद्-वर्णो नाना-पुष्प-द्रुमावृतः
ललितानन्ददो नित्यम् उत्तरे कुञ्ज-राजकः ।
गोरोचनाभा ललिता तत्र तिष्ठति नित्यशः
मयूर-पिञ्छ-सदृश-वसना कृष्ण-वल्लभा ।
खण्डिता-भावम् आपन्ना रति-युक्ता हरौ सदा
चन्द्र-ताम्बूल-सेवाढ्या दिव्याभरण-मण्डिता ।
सप्त-विंशत्य्-अहो युक्ताष्ट-मास-मनु-हायना (14-8-27)
अस्या वयः-प्रमाणं यत् पिता माता विशोककः ।
शारदा च पतिर् यस्या भैरवाख्यो मतो बुधैः
स्वरूप-दामोदरतां प्राप्ता गौर-रसे त्व् इयम् ।
इयं तु वाम-प्रखरा गृहम् अस्यास् तु यावटे
खण्डिता-लक्षणं, यथा (उन् 5.85-86)--
उल्लङ्घ्य समयं यस्याः प्रेयान् अन्योपभोगवान् ।
भोग-लक्ष्माङ्कितः प्रातर् आगच्छेत् सा हि खण्डिता ।
एषा तु रोष-निःश्वास-तूष्णीं-भावादि-भाग् भवेत्
यावैर् धूमलितं शिरो भुज-तटीं ताटङ्क-मुद्राङ्कितां
संक्रान्त-स्तन-कुङ्कुमोज्ज्वल-मुरो मालां परिम्लापिताम् ।
घूर्णा-कुड्मलिते दृशौ व्रज-पतेर् दृष्ट्वा प्रगे श्यामला
चित्ते रुद्र-गुणं मुखे तु सुमुखी भेजे मुनीनां व्रतम्
वाम-प्रखरा-लक्षणं यथा (उन् 6.2-5)--
सौभाग्यादेर् इहाधिक्याद् अधिका साम्यतः समा ।
लघुत्वाल् लघुर् इत्य् उक्तास् त्रिधा गोकुल-सुभ्रुवः
मूल पाठ: Gauragaovindārcanasmaraṇapaddhati · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0