भाषा

ENहिગુ
ग्रंथ पाठ

गौरगओविन्दार्चनस्मरणपद्धति · श्लोक 161-180

161

सख्यः कुसुमिका-विन्ध्या-धनिष्ठाद्याः प्रकीर्तिताः ।
नित्य-सख्यश् च कस्तूरी-मणि-मञ्जरिकादयः

162

प्राण-सख्यः शशिमुखी-वासन्ती-लासिकादयः ।
गता वृन्दावनेश्वर्याः प्रायेणेमाः स्वरूपताम्

163

प्रिय-सख्यः कुरङ्गाक्षी सुमध्या मदनालसा ।
कमला माधुरी मञ्जु-केशी कन्दर्प-सुन्दरी ।
माधवी मालती काम-लता शशिकलादयः

164

परम-प्रेष्ठ-सख्यस् तु ललिता स-विशाखिका ।
स-चित्रा चम्पकलता तुङ्गविद्येन्दुलेखिका ।
रङ्गदेवी सुदेवी चेत्यष्टौ सर्व-गणाग्रिमाः

165

(उन् 3.61)--
यूथाधिपात्वे ऽप्य् औचित्यं दधाना ललितादयः ।
स्वेष्ट-राधादि-भावस्य लोभात् सख्य-रुचिं दधुः

166

मदीयता-भाव-लक्षणं यथा--
शृङ्गार-रस-सर्वस्वः कृष्णः प्रियतमो मम ।
इति यः प्रौढ-निर्बन्धो भावः स स्यान् मदीयता

167

उदाहरणं यथा -
शिखि-पिञ्छ-लसन्-मुखाम्बुजो
मुरलीवान् मम जीवनेश्वरः ।
क्व गतो ऽत्र विहाय माम् इतो
वद नारायण सर्व-वित्तम

168

भुज-चतुष्टयं क्वापि नर्मणा दर्शयन्न् अपि ।
वृन्दावनेश्वरी-प्रेम्णा द्वि-भुजः क्रियते हरिः

169

यथा (उन् 5.7)--
रासारम्भ-विधौ निलीय वसता कुञ्जे मृगाक्षी-गणै-*
र्दृष्टं गोपयितुं समुद्धुर-धिया या सुष्ठु संदर्शिता ।
राधायाः प्रणयस्य हन्त महिमा यस्य श्रिया रक्षितुं
सा शक्या प्रभविष्णुनापि हरिणा नासीच् चतुर्-बाहुता

170

मधु-स्नेह-लक्षणं यथा (उन् 14.93-94)--
मदीयतातिशय-भाक्
प्रिये स्नेहो भवेन् मधु ।
स्वयं प्रकट-माधुर्यो
नाना-रस-समाहृतिः

171

मत्ततोष्म-धरः स्नेहो
मधु-साम्यान् मधूच्यते

172

उदाहरणं यथा (उन् 14.95)--
राधा स्नेहमयेन हन्त रचिता माधुर्य-सारेण सा
सौधीव प्रतिमा घनाप्य् उरु-गुणैर् भावोष्मणा विद्रुता ।
यन्-नामन्य् अपि धामनि श्रवणयोर् याति प्रसङ्गेन मे
सान्द्रानन्दमयी भवत्य् अनुपमा सद्यो जगद्-विस्मृति

173

माञ्जिष्ठ-राग-लक्षणं यथा (उन् 14.139)--
अहार्यो ऽनन्य-सापेक्षो
यः कान्त्या वर्द्धते सदा ।
भवेन् माञ्जिष्ठ-रागो ऽसौ
राधा-माधवयोर् यथा

174

उदाहरणं यथा (उन् 14.141)--
धत्ते द्राग् अनुपाधि जन्म विधिना केनापि नाकम्पते
सूते ऽत्य् आहित-सञ्चयैर् अपि रसं ते चेन् मिथो वर्त्मने ।
ऋद्धिं सञ्चिनुते चमत्कृति-करोद्दाम-प्रमोदोत्तरां
राधा-माधवयोर् अयं निरुपमः प्रेमानुबन्धोत्सवः

175

समर्था-रतेर् लक्षणं यथा (उन् 14.52-53)--
कञ्चिद् विशेषम् आयान्त्या सम्भोगेच्छा ययाभितः ।
रत्या तादात्म्यम् आपन्ना सा समर्थेति भण्यते

176

स्व-स्वरूपात् तदीयाद् वा जाता यत् किञ्चिद् अन्वयात् ।
समर्था सर्व-विस्मारि-गन्धा सान्द्रतमा मता

177

उदाहरणं यथा (उन् 14.54, 55, 57)--
प्रेक्ष्याशेषे जगति मधुरां स्वां वधूं शङ्कया ते
तस्याः पार्श्वे गुरुभिर् अभितस् त्वत्-प्रसङ्गो न्यवारि ।
श्रुत्वा दूरे तद् अपि भवतः सा तुला-कोटि-नादं
हा कृष्णेत्य् अश्रुत-चरम् अपि व्याहरन्त्य् उन्मदासीत्

178

सर्वाद्भुत-विलासोर्मि-चमत्कार-कर-श्रियः ।
सम्भोगेच्छा-विशेषो ऽस्या रतेर् जातु न भिद्यते ।
इत्य् अस्यां कृष्ण-सौख्यार्थम् एव केवलम् उद्यमः

179

इयम् एव रतिः प्रौढा महाभाव-दशां व्रजेत् ।
या मृग्या स्याद् विमुक्तानां भक्तानां च वरीयसाम्

180

यथा श्री-दशमे (10.47.58)--
एताः परं तनु-भृतो भुवि गोप-वध्वो
गोविन्द एव निखिलात्मनि रूढ-भावाः ।
वाञ्छन्ति यद् भव-भियो मुनयो वयं च
किं ब्रह्म-जन्मभिर् अनन्त-कथारसस्य

मूल पाठ: Gauragaovindārcanasmaraṇapaddhati · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc