गौरगओविन्दार्चनस्मरणपद्धति · श्लोक 101-120
चामर-व्यजनादीनां सर्वाज्ञा-प्रतिपालनम् ।
इति सेवा परिज्ञेया यथा-मति विभागशः
श्री-राधा-कृष्णयोर् यद्वद् रूप-मञ्जरिकादयः ।
प्राप्त नित्य-सखीत्वं च तथा स्याम् इति भावयेत्
पाल्य-दासी च सा प्रोक्ता परिपाल्या प्रियंवदा ।
स्व-मनो-वृत्ति-रूपेण या नित्य-परिचारिका
निवासो व्रज-मध्ये तु राधा-कृष्ण-स्थली मता ।
वंशी-वटश् च श्री-नन्दी-श्वरश् चाप्य् अतिकौतुकः
अनङ्ग-मञ्जरी प्रोक्ता विलास-मञ्जरी तथा ।
अशोक-मञ्जरी चेति रस-मञ्जरिका तथा
रसाल-मञ्जरी नाम्ना तथा कमल-मञ्जरी ।
करुणा-मञ्जरी ख्याता विख्याता गुण-मञ्जरी
एवं सर्वाश् च विख्याताः स्व-स्व-नामाक्षरैः पराः ।
मञ्जर्यो बहुशः रूप-गुण-शील-वयो ऽन्विताः
नाम-रूपादि तत् सर्वं गुरु-दत्तं च भावयेत् ।
तत्र तत्र स्थिता नित्यं भजेत् श्री-राधिका-हरी
भावयन् साधको नित्यं स्थित्वा कृष्ण-प्रिया-गृहे ।
तद् आज्ञा-पालको भूत्वा कालेष्व् अष्टसु सेवते
सखीनां सङ्गिनी-रूपाम् आत्मानं भावना-मयीम् ।
आज्ञा-सेवा-पराकाष्ठा-कृपालङ्कार-भूषिताम् ।
ततश् च मञ्जरी-रूपान् गुर्वादीन् अपि संस्मरेत्
अथ प्रातः-पूर्वाह्न-लीलां स्मृत्वा मध्याह्ने सङ्ग-मितौ राधा-कृष्णौ परस्पर-सङ्ग-जनित-नाना-सात्त्विक-विकार-भूषितौ ललितादि-प्रिय-सखी-वृन्द-सनर्म-वाग्-विलासेन जनित-परमानन्दौ नाना-रस-विलास-चिह्नौ सम्मग्न-मानसौ विहितारण्य-लीलौ वृन्दारण्ये सुमहीरुह-मूले योग-पीठोपरि उपविष्टौ एवम्भूतौ राधा-कृष्णौ संस्मरेत् ।
प्रथमं षड्-दलं पद्मं तद्-बहिर् वसु-पत्रकम् ।
तद्-बहिर् दश-पत्रं च दशोपदल-संयुतम्
श्रीमद्-राधा-कृष्ण-लीला-रस-पूरित-विग्रहम् ।
तत्-तद्-इच्छा-वशेनैवोन्-मीलितं भाति मुद्रितम्
प्राकारास् तद्-बहिस् तत्र दिक्षु द्वार-चतुष्टयम् ।
चतुष्-कोणाश् च षड्-दल्यां षट्-पद्य्-अष्टादशाक्षरी
यथा ब्रह्म-संहितायाम् (2-4)
सहस्र-पत्रं कमलं गोकुलाख्यं महत् पदम् ।
तत्-कर्णिकारं तद्-धाम तद्-अनन्तांश-सम्भवम्
कर्णिकारं महद् यन्त्रं षट्-कोशं वज्र-कीलकम् ।
षड्-अङ्गं षट्-पदी-स्थानं प्रकृत्या पुरुषेण च
प्रेमानन्द-महानन्द-रसेनावस्थितं हि यत् ।
ज्योती-रूपेण मनुना काम-बीजेन सङ्गतम्
तत्-किञ्जल्कं तद्-अंशानाम् तत्-पत्राणि श्रियाम् अपि
एवम्भूत योग-पीठे श्री-श्री-राधा-कृष्णौ स्मरेत् ।
अथ श्री-कृष्ण-चन्द्रस्य वयो-वेशादयो ऽखिलाः ।
रस-शास्त्रानुसारेण निरूप्यन्ते यथामति
(भक्ति-रसामृत-सिन्धु 2.1.308, 9)--
वयः कौमार-पौगण्ड-कैशोरम् इति तत् त्रिधा
कौमारं पञ्चमाब्दान्तं पौगण्डं दशमावधि ।
आषोडशाच् च कैशोरं यौवनं स्यात् ततः परम्
मूल पाठ: Gauragaovindārcanasmaraṇapaddhati · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0