गौरगओविन्दार्चनस्मरणपद्धति · श्लोक 121-140
आद्य-मध्यान्त-भेदेन कौमारादीनि च त्रिधा ।
अष्ट-मासाधिकं वर्षं भागत्वेन च कीर्तितम्
तद् यथा--आद्य-कौमारम् अष्ट-मासाधिकम् एक-वर्षम् एवं मध्य-कौमारम्, एवं च शेष-कौमारम्; एवं पञ्चम-वर्ष-पर्यन्तं कौमारं ज्ञेयम् ।
आद्य-पौगण्डम् अष्ट-मासाधिकम् एक-वर्षम्; एवं मध्य-पौगण्डम्; एवं च शेष-पौगण्डम्; एवं च क्रमेण षष्ठ-वर्षम् आरभ्य दश-वर्ष-पर्यन्तं पौगण्डं ज्ञेयम् ।
आद्य-कैशोरं सार्ध-दिन-द्वयोत्तरैकादश-मासाधिकम् एक-वर्षम्; एवं मध्य-कैशोरम्; एवं शेष-कैशोरम्; क्रमेणैकादश-वर्षम् आरभ्य पञ्च-दश-वर्ष-नव-मास-सार्ध-सप्त-दिन-पर्यन्तं कैशोरं ज्ञेयम् ।
अथ श्री-कृष्णस्य व्रज-लीला--तत्र श्री-कृष्णस्य व्रज-लीला पञ्च-दिनोत्तर-षड्-मासाधिक-दश-वर्षीया ज्ञेया (10-6-5) अथ च (भ्प् 3.2.26)--
एकादश-समास् तत्र गूढार्चिः सबलो ऽवसत्
महाराज-कुमारतया भोगातिशयेन समृद्ध्या वर्ष-मास-दिनानां सार्धतया सार्ध-सप्त-दिनोत्तर-नव-मासाधिक-पञ्च-दश-वर्ष-परिमितं श्री-कृष्णस्य वयो ज्ञेयम् (15-9-7 1।2) ।
अत्रैव शेष-कैशोरे षोडश-हायने सदा ।
व्रजे विहारं कुरुते श्रीमन् नन्दस्य नन्दनः
वंशी-पाणिः पीत-वासा इन्द्रनील-मणि-द्युतिः ।
कण्ठे कौस्तुभ-शोभाढ्यो मयूर-दल-भूषणः
गुञ्जा-हार-लसद्-वक्षा रत्न-हार-विराजितः ।
वन-माला-धरो निष्क शोभोल्लसित-कण्ठकः
वाम-भाग-स्थित-स्वर्ण-रेखा-राजद्-उरः-स्थलः ।
वैजयन्ती-लसद्-वक्षा गज-मौक्तिक-नासिकः
कर्णयोर् मकराकार-कुण्डलाभ्यां विराजितः ।
रत्न-कङ्कन-युग् घस्तः कौङ्कुमं तिलकं दधत्
किङ्किणी-युक्त-कटिको रत्न-नूपुर-युक्-पदः ।
मालती-मल्लिके जाति-यूथी केतकी-चम्पके
नागकेशर इत्यादि पुष्प-माला-स्वलङ्कृतः ।
इति वेश-धरः श्रीमान् ध्येयः श्री-नन्दनन्दनः
शृङ्गं वामोदर-परिसरे तुन्द-बन्धान्तर-स्थं
दक्षे तद्वन् निहित-मुरलीं रत्न-चित्रां दधानः ।
वामेनासौ सरल-लगुणं पाणिना पीत-वर्णं
लीलाम्भोजं कमल-नयनः कम्पयन् दक्षिणेन
अस्यैव कृष्ण-चन्द्रस्य मन्त्राः सन्ति त्रयो ऽमलाः ।
सिद्धाः कृष्णस्य सत्-प्रेम-भक्ति-सिद्धि-करा मताः
तत्रादौ मन्त्रोद्धारो यथा सनत्-कुमार-संहितायाम्--
हरे-कृष्णौ द्विर् आवृत्तौ
कृष्ण तादृक् तथा हरे ।
हरे राम तथा राम
तथा तादृग् घरे मनुः
हरे कृष्ण हरे कृष्ण कृष्ण कृष्ण हरे हरे ।
हरे राम हरे राम राम राम हरे हरे
अस्य ध्यानं यथा तत्रैव--
ध्यायेद् वृन्दावने रम्ये
गोप-गोभिर् अलङ्कृते ।
कदम्ब-पादप-च्छाये
यमुना-जल-शीतले
राधया सहितं कृष्णं
वंशी-वादन-तत्-परम् ।
त्रिभङ्ग-ललितं देवं
भक्तानुग्रह-कारकम्
विशेषतो दशार्णो ऽयं
जप-मात्रेण सिद्धि-दः ।
पञ्चाङ्गान्य् अस्य मन्त्रस्य
विज्ञेयानि मनीषिभिः
इति गौतमीय-तन्त्र-वाक्यात् राग-मार्गे दशाक्षर-गोपाल-मन्त्रस्य प्रसिद्धिः; तद्-उद्धारो लिख्यते, स यथा गौतमीय-तन्त्रे--
खान्ताक्षरं समुद्धृत्य
त्रयोदश-स्वरान्वितम् ।
पार्णं तुर्य-स्वर-युतं
छान्तं धान्तं तथा द्वयम्
अमृतार्णं मांस-युग्मं
मुख-वृत्तेन संयुतम् ।
भार्शं तु मुख-वृत्ताढ्यं
पवनार्णं तथैव च
बीज-शक्ति-समायुक्तो
मन्त्रो ऽयं समुदाहृतः ।
गुप्त-बीज-स्वभावत्वाद्
दशार्णः खलु कथ्यते
ब्रह्मार्णं तुर्य-संयुक्तं
मांस-द्वय-समन्वितम् ।
नाद-बिन्दु-समायुक्तं
जगद्-बीजम् उदाहृतम्
मूल पाठ: Gauragaovindārcanasmaraṇapaddhati · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0