भाषा

ENहिગુ
ग्रंथ पाठ

गरुड़ पुराण · अध्याय 2.37

2.37.1

इति श्रीगारुडे महापुराणे उत्तरखण्डे द्वितीयांशे धर्मकाण्डे प्रेतकल्पे श्रीकृष्णगरुडसंवादे ऽनशनमृत गतिनिरूपणं नाम षट्त्रिंशो ऽध्यायः
श्रीगरुडमहापुराणम्- 37
तार्क्ष्य उवाच ।
उदकुम्भप्रदानं मे कथयस्व यथातथम् ।
विधिना केन कर्तव्या कृतिरेषा जनार्दन

2.37.2

किंलक्षणाः केन पूर्णाः कस्य देया जनार्दन ।
कस्मिन् काले प्रदातव्या प्रेततृप्तिप्रसाधकाः

2.37.3

श्रीकृष्ण उवाच ।
सत्यं पुनः प्रवक्ष्यामि उदकुम्भप्रदानकम् ।
प्रेतोद्देशेन दातव्या अन्नपानीयसंयुताः ।
विशेषेण महापक्षिन् प्रेतमुक्तिप्रदायकाः

2.37.4

द्वादशाहे च पण्मासे त्रैपक्षे वापि वत्सरे ।
उदकुम्भाः प्रदातव्या मार्गे तस्य सुखाय वै

2.37.5

अहन्यहनि दातव्या उदकुम्भास्तिलैर्युताः ।
सुलिप्ते भूमिभागे तु पक्कान्नजलपूरिताः

2.37.6

प्रेतस्य तत्र दातव्यं भाजनञ्च यदृच्छया ।
सुप्रीतस्तेन दत्तेन प्रेतो याम्यैः स गच्छति

2.37.7

द्वादशाहे विशेषेण उदकम्भान् प्रदापयेत् ।
विधिना तत्र सङ्कल्पय घटान् द्वादशसंख्यकान्

2.37.8

एकाषि बर्धनी तत्र पक्वान्नफलपूरिता ।
विष्णुमुद्दिश्य दातव्या संकल्प्य ब्राह्मणे शुभे

2.37.9

एको वै धर्मराजाय तेन तुष्टेन मुक्तिभाक् ।
चित्रगुप्ताय चैकं तु गतस्तत्र सुखी भवेत्

2.37.10

षोडशाद्याः प्रदातव्या माषान्नजलपूरिताः

2.37.11

उक्त्रान्तिश्राद्धमारभ्य श्राद्धषोडषोडशकस्य तु ।
षोडशब्राह्मणानान्तु एकैकं विनिवदयेत्

2.37.12

एकादशाहात्प्रभृति देयो नित्यं दृढाह्वयः ।
पक्वान्नजलपूर्णो हि यावत् संवत्सरं दिनम्

2.37.13

जलपात्राणि वृद्धानि दत्तानिघटकानि च ।
एका वै वर्धनी तत्र तस्यां पात्रन्तु वंशजम्

2.37.14

वस्त्रेणाच्छादयेत् तान्तु पूजयित्वा सुगन्धिभिः ।
ब्राह्मणेभ्यो विशेषेण जलपूर्णानि दापयेत्

2.37.15

अहन्यहनि सङ्कल्प्य विधिपूर्वं खगेश्वर ।
ब्राह्मणाय कुलीनाय वेदवृत्तयुताय च

2.37.16

विद्यावृत्तवते देयं मूर्खे तन्न कदाचन ।
समर्थो वेदवृत्ताढ्यस्तारणे तरणे ऽपि च

मूल पाठ: Garuḍapurāṇa · Edition: Bombay : Venkatesvara Steam Press (or a reprint thereof) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc