गरुड़ पुराण · अध्याय 2.36
(35.46)
इति श्रीगारुडे महापुराणे उत्तरखण्डे द्वितीदृ धदृप्रेतकल्पे श्रीकृष्णगरुडसंवादे सपिण्डनशवविध्योर्निरूपणं नाम पञ्चत्रिंशो ऽध्यायः
श्रीगरुडमहापुराणम्- 36
तार्क्ष्यौवाच ।
कस्मादनशनं पुण्यमक्षय्यगतिदायकम् ।
स्वगृहन्तु परित्यज्य तीर्थे वै म्रियते यदि
अप्राप्य तीर्थं म्रियते गृहे वा मृत्यु मागतः ।
बूत्वा कुटीचरो यस्तु स कां गतिमवाप्नुयात्
संन्यासं कुरुते यस्तु तीर्थे वापि गृहे ऽपि वा ।
कथं तस्य प्रकर्तव्यमप्राप्तनिधने ऽपि वा
नियमे चेत् कृते देव चित्तभङ्गो हि जायते ।
केन तस्य भवेत् सिद्धिः कृतेनाप्यकृतेन वा
श्रीकृष्ण उवाच ।
कृत्वा निरशनं यो वै मृत्युमाप्नोति को ऽपि चेत् ।
मानुपीं तनुमुत्सृज्य मम तुल्यो विराजते
यावन्त्यहानि जीवेत् व्रते निरशने कृते ।
क्रतुभिस्तानि तुल्यानि समग्रवदक्षिणैः
तीर्थे गृहे वा संन्यासं नीत्वा चेन्म्रियते यदि ।
प्रत्यहं लभते सो ऽपि पूर्वोक्तं द्विगुणं फलम्
महारोगोपपत्तौ च गृहीते ऽनशने कृते ।
पुनर्न जायते रोगो देववद्धि विराजते
य आतुरः सन् सन्न्यासं गृह्णाति यदि मानवः ।
पुनर्न जायते भूमौ संसारे दुः खसागरे
अहन्यहनि दातव्यं ब्राह्मणानाञ्च भोजनम् ।
तिलपात्रं यथाशक्ति दीपदानं सुरार्चनम्
एवं वृत्तस्य दह्यन्ते पापान्युच्चावचानि च ।
मृतो मुक्तिमवाप्नोति यथा सर्वे महर्षयः
तस्मादनशनं नॄणां वैकुण्ठपददायकम् ।
तस्मात् स्वस्थे चोत्तरे वा साधयेन्मोक्षलक्षणम्
पुत्त्रद्रव्यादि सन्त्यज्य तीर्थं व्रजति यो नरः ।
ब्रह्माद्या देवतास्तस्य भवेयुस्तुष्टिपुष्टिदाः
यस्तीर्थसंमुखो भूत्वा व्रते ह्यनशने कृते ।
चेन्म्रियेतान्तराले ऽपि ऋषीणां मण्डले वसेत्
व्रतं निरशन कृत्वा स्वगृहे ऽपि मृतो यदि ।
स्वकुलानि परित्यज्य एकाकी विचरेद्दिवि
अन्नञ्चैव तथा तोयं परित्यज्य नरो यदि ।
पीतमत्पादतोयश्च न पुनर्जायते क्षितौ
कृत्त्यासीनन्तत्तीर्थगतं रक्षन्ति वनदेवताः ।
यमदूता विशेषेण न याम्यास्तस्य पार्श्वगाः
तीर्थसेवी नरो यस्तु सर्वकिल्बिषवर्जितः ।
तत्र म्रियते दह्येत तत्तीर्थफलभाग्भवेत्
सेविते ऽपि सदा तथि ह्यन्यत्र म्रियते यदि ।
शुभे देशे कुले धीमान् स भवेद्वेदविद्द्विजः
कृत्वा निरशनं तार्क्ष्य पुनर्जीवति मानवः ।
ब्राह्मणान् स समाहूय सर्वस्वं यत् परित्यजेत्
चान्द्रायणं चरेत् कृत्स्नमनुज्ञातश्च तैर्द्विजैः ।
अनृतं न वदेत् पश्चाद्धर्ममेव समाचरेत्
तीर्थे गत्वा च यः को ऽपि पुनरायाति वै गृहम् ।
अनुज्ञातः स वै विप्रैः प्रायश्चित्तमथाचरेत्
दत्त्वा वा स्वर्णदानानि गो-मही-गज-वाजिनः ।
तीर्थं यदि लभेद् यस्तु मृत्युकाले स भाग्यवान्
गृहात् प्रचलितस्तीर्थं मरणे समुपस्थिते ।
पदेपदे तु गोदानं यदि हिंसा न जायते
गृहे तु यत् कृतं पापं तीर्थस्नानेन शुध्यति ।
कुरुते तत्र पापञ्चेद्वज्रलेपसमं हि तत्
क्लिश्येत् स नात्र सन्देहो यावच्चन्द्रार्कतारकम् ।
तत्र दत्तानि दानानि जायन्ते चाक्षयाणि वै
आतुरे सति दातव्यं निर्धनैरपि मानवैः ।
गावस्तिला हिरण्यञ्च सप्तधान्यं विशेषतः
दानवन्तं नरं दृष्ट्वा हृष्टाः सर्वे दिवौकसः ।
ऋषिभिः सह धर्मण चित्रगुप्तेन सर्वदा
आत्मायत्तं धनं यावत् तावद्विप्रे समर्पयेत् ।
पराधीनं मृते सर्वं कृपया कः प्रदास्यति
पित्रुद्देशेन यः पुत्त्रैर्धनं विप्रकरे ऽर्पितम् ।
आत्मानं सधनं तेन चक्रे पुत्रप्रपौत्रकैः
पितुः शतगुणं दत्तं सहस्रं मातुरुच्यते ।
भगिन्या शतसाहस्रं सोदर्ये दत्तमक्षयम्
यदि लोभान्न यच्छन्ति प्रमादान्मोहतो ऽपि वा ।
मृताः शोचन्ति ते सर्वे कदर्याः पापिनस्त्विति
अतिक्लेशेन लब्धस्य प्रकृत्या चञ्चलस्य च ।
गतिरेकैव वित्तस्य दानमन्या विपत्तयः
मृत्युः शरीगोप्तारं वसुरक्षं वसुन्धरा ।
दुश्चारिणीव हसति स्वपतिं पुत्रवत्सलम्
उदासे धार्मिकः सौम्यः प्राप्यापि विपुलं धनम् ।
तृणवन्मन्यते तार्क्ष्य आत्मानं वित्तमप्यथ
न चैवोपद्रवास्तस्य मोहजालो न चैव हि ।
मृत्युकाले न च भयं यमदूतसमुद्भवम्
समाः सहस्राणि च सप्त वै जले दशैकमग्नौ पवने च षोडश ।
महाहवे पष्टिरशीतिर्गोगृहे अनाशके काश्यप चाक्षया गतिः
मूल पाठ: Garuḍapurāṇa · Edition: Bombay : Venkatesvara Steam Press (or a reprint thereof) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0