भाषा

ENहिગુ
ग्रंथ पाठ

गरुड़ पुराण · अध्याय 2.38

2.38.1

इति श्रीगारुडे महापुराणे द्वितीयांशे प्रेतकल्पे धर्मकाण्डे सोदकुम्भश्राद्धनिरूपणं नाम सप्तत्रिंशो ऽध्यायः
श्रीगरुडमहापुराणम्- 38
तार्क्ष्य उवाच ।
दानतीर्थार्थितं मोक्षं स्वर्गञ्च वद मे प्रभो ।
केन मोक्षमवाप्नोति केन स्वर्गे वसेच्चिरम्

2.38.2

केन गच्छति तेजस्तु स्वर्लोकात् सत्यलोकतः ।
मानुष्यं केन लभते नरकेशु निमज्जति

2.38.3

एतन्मे वदनिश्चित्य भक्तानां मोक्षदायक ।
ब्रूहि कस्मिन् मृते स्वर्गे पुनर्जन्म न विद्यते

2.38.4

श्रीविष्णुरुवाच ।
मानुष्यं भारते वर्षे त्रयोदशसु जातिषु

2.38.5

तत् प्राप्य म्रियते क्षेत्रे पुनर्जन्म न विद्यते ।
अयोध्या मथुरा माया काशी काञ्ची अवन्तिका

2.38.6

पुरी द्वारवती ज्ञेया सप्तैता मोक्षदायिकाः ।
सन्न्यस्तमिति यो ब्रुयात् प्राणैः कण्ठगतैरपि

2.38.7

मृतो विष्णुपुरं याति न पुनर्जायते क्षितौ ।
सकृदुच्चरितं येन हरिरित्यक्षरद्वयम्

2.38.8

बद्धः परिकरस्तेन मोक्षाय गमनं प्रति ।
कृष्णकृष्णेति कृष्णेति यो मां स्मरति नित्यशः

2.38.9

जल भित्त्वा यथा पद्मं नरकादुद्धराम्यहम् ।
शालग्रामजिला यत्र यत्र द्वारवती शिला

2.38.10

उभयोः सङ्गमो यत्र मुक्तिस्तत्र न संशयः ।
शालग्रामशिला यत्र पापदोषक्षयावहा

2.38.11

तत्सन्निधानमरणान्मुक्तिर्जन्तोः सुनिश्चता ।
रोपणात् पालनात् सेकाद्ध्यानस्पर्शनकीर्तनात् ।
तुलसी दहते पापं नृणां जन्मार्जितं खग

2.38.12

ज्ञानहृदे सत्यजले रागद्वेषमलापहे ।
यः स्नातो मानसे तीर्थे न स लिप्येत पातकैः

2.38.13

न काष्ठे विद्यते देवो न शिलायां कदाचन ।
भावे हि विद्यते देवस्तस्माद्भावं समाचरेत्

2.38.14

प्रातः प्रातः प्रपश्यन्ति नर्मदां मत्स्यघातिनः ।
न ते शिवपुरीं यान्ति चित्तवृत्तिर्गरीयसी

2.38.15

यादृक् चित्तप्रतीतिः स्यात् तादृक् कर्मफलं नृणाम् ।
परलोकगतिस्तादृक सूचीसूत्रविचारवत्

2.38.16

ब्राह्मणार्थे गवार्थे च स्त्रीणां बलवधेषु च ।
प्राणत्यागपरो यस्तु स वै मोक्षमवाप्नुयात्

2.38.17

अनाशके मृतौ यस्तु स वै मोक्षमवाप्नुयात् ।
अनाशके मृतो यस्तु स मुक्तः सर्वबन्धनैः

2.38.18

दत्त्वा दानानि विप्रेभ्यस्ततो मोक्षमवाप्नुयात् ।
एते वै मोक्षमार्गाश्च स्वर्गमार्गास्तथैव च

2.38.19

गोग्रहे देशविध्वंसे मरणं रणतीर्थयोः ।
उत्तमाधममध्यस्य बाध्यमानस्य देहिनः ।
आत्मानं तत्र सन्त्यज्य स्वर्गवासं लभेच्चिरम्

2.38.20

जीवितं मरणञ्चैव द्वयं शिक्षेत पण्डितः ।
जीवितं दानभोगाभ्यां मरणं रणतीर्थयोः

2.38.21

हरिक्षेत्रे कुरुक्षेत्रे भृगुक्षेत्रे तथैव च ।
प्रभासे श्रीस्थले चैव अर्बुदे च त्रिपुष्करे

2.38.22

भूतेश्वरे मृतो यस्तु स्वर्गे वसति मानवः ।
ब्रह्मणो दिवसं यावत् ततः पतति भूतले

2.38.23

वर्षवृत्तिन्तु यो दद्याद्ब्राह्मणे दोषवर्जिते ।
सर्वं कलं स मुद्धृत्य स्वर्गलोके महीयते

2.38.24

कन्यां विवाहयेद्यस्तु ब्राह्मणं वेदपारगम् ।
इन्द्रलोके वसेत् सो ऽपि स्वकुलैः परिवेष्टितः

2.38.25

महादानानि दत्वा च नरस्तत्फलमामुयात्

2.38.26

वापी कूपतडागानामारामसुरसद्मनाम् ।
जीर्णोद्धारं प्रकुर्वाणः पूर्वकर्तुः फलं लभेत् ।
जीर्णोद्धारेण वा तेषां तत् पुण्यं द्विगुणं भवेत्

2.38.27

शीतवा तातपहरमपि पर्णकुटीरकम् ।
कृत्वा विप्राय विदुषे प्रददाति कुटुम्बिने

2.38.28

तिस्रः कोट्योर्धकोटी च नरः स्वर्गे महीयते

2.38.29

या स्त्री सवर्णा संशुबा मृतं पतिमनुव्रजेत् ।
सा मृता स्वर्गमाप्नोति वर्षाणां रोमसंख्यता

2.38.30

पुत्रपौत्रादिकं त्यक्त्वा स्वपतिं यानुगच्छति ।
स्वर्गं लभेतां तौ चोभौ दिव्यस्त्रीभिरलङ्कृतौ

2.38.31

कृत्वा पापान्यनेकानि भर्तृद्रोहमतिः सदा ।
प्रक्षालयति सर्वाणि या स्वं पतिमनुव्रजेत्

2.38.32

महापापसमाचारो भर्ता चेद्दुष्कृती भवेत् ।
तस्याप्यनुव्रता नारी नारायेत् सर्वकिल्बिषम्

2.38.33

ग्रासमात्रं नियमतो नित्यदानं करोति यः ।
चतुश्चामरसंयुक्तविमानेनाधिगच्छति

2.38.34

यत् कृतं हि मनुष्येण पापमामरणान्तिकम् ।
तत् सर्वं नाशमायाति वर्षवृत्तिप्रदानतः

2.38.35

भूतं भव्यं बविष्यञ्च पापं जन्मत्रयार्जितम् ।
पक्षालयति तत् सर्वं विप्रकन्योपनायनात्

2.38.36

दशकूपसमा वापि दशवापीसमं सरः ।
सरो भिर्दशभिस्तुल्या या प्रपा निर्जले वने

2.38.37

या वापी निर्जले देशे यद्दानं निर्धने द्विजे ।
प्राणिनां यो दयां धत्ते स भवेन्नाकनायकः

2.38.38

एवमादिभिरन्यैश्च सुकृतैः स्वर्गभाग्भवेत् ।
स तत् सर्वं फलं प्राप्य प्रतिष्ठां परमां लभेत्

2.38.39

फल्गु कार्यं परित्यज्य सततं धर्मवान् भवेत् ।
दानं दमो दया चेति सारमेतत् त्रयं भुवि

2.38.40

दानं साधोर्दरिद्रस्य शून्यलिङ्गस्य पूजनम् ।
अनाथप्रेतसंस्कारः कोटियज्ञफलप्रदः

मूल पाठ: Garuḍapurāṇa · Edition: Bombay : Venkatesvara Steam Press (or a reprint thereof) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc