भाषा

ENहिગુ
ग्रंथ पाठ

गरुड़ पुराण · अध्याय 1.96

1.96.1

इति श्रागारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे याज्ञवल्क्योक्तगृहल्थधर्मनिर्णयो नाम पञ्चनवतितमो ऽध्यायः
श्रागरुडमहापुराणम्- 96
याज्ञवल्क्य उवाच ।
वक्ष्ये सङ्करजात्यादिगृहस्थादि विधिं परम् ।
विप्रान्मूर्धावषिक्तो हि क्षात्त्रियायां विशः स्त्रियाम्

1.96.2

जातो ऽम्बष्ठस्तु शूद्रायां निषादः पर्वतो ऽपि वा ।
माहिष्यः क्षत्त्रियाज्जातो वैश्यायां म्लेच्छसंज्ञितः

1.96.3

शूद्रायां करणो वैश्याद्विन्नास्वेष विधिः स्मृतः ।
ब्राह्मण्यां क्षत्त्रियात्सूतो वैश्याद्वैदेहकस्तथा

1.96.4

शूद्राज्जातस्तु चाण्डालः सर्ववर्णविगर्हितः ।
क्षत्त्रिया मागधं वैश्याच्छूद्रा क्षत्तारमेव च

1.96.5

शूद्रादयोगवं वैश्या जनयामास वै सुतम् ।
माहिष्येण करण्यां तु रथकारः प्रजायते

1.96.6

असत्सन्तस्तु वै ज्ञेयाः प्रतिलोमानुलोमजाः ।
जात्युत्कर्षाद्द्विजो ज्ञेयः सप्तमे पञ्चमे ऽपि वा

1.96.7

व्यत्यये कर्मणां साम्यं पूर्ववच्चोत्तरावरम् ।
कर्म स्मार्तं विवाहाग्नौ कुर्वीत प्रत्यहं गृही

1.96.8

दायकालादृते वापि श्रौतं वैतानिकाग्निषु ।
शरीरचिन्तां निर्वर्त्य कृतशौचविधिर्द्विजः

1.96.9

प्रातः सन्ध्यामुपासीत दन्तधावनपूर्वकम् ।
हुत्वाग्नौ सर्यदेवत्याञ्जपेन्मन्त्रान्समाहितः

1.96.10

वेदार्थानधिगच्छेच्च शास्त्राणि विविधानि च ।
योगक्षोमादिसिद्ध्यर्थमुपेयादीश्वरं गृही

1.96.11

स्नात्वा देवान्पितॄंश्चैव तर्पयेदर्चयेत्तथा ।
वेदानथ पुराणानि सेतिहासानि शक्तितः

1.96.12

जपयज्ञानुसिद्ध्यर्थं विद्यां चाध्यात्मिकीं जपेत् ।
बलिकर्मस्वधाहोमस्वाध्यायातिथिसक्रियाः

1.96.13

भूतपित्रमरब्रह्ममनुष्याणां महामखाः ।
देवेभ्यस्तु हुतं चाग्नौ क्षिपेद्भूतबलिं हरेत्

1.96.14

अन्नं भूमौश्वचाण्डालवायसेभ्यश्च निः क्षिपेत् ।
अन्नं पितृमनुष्येभ्यो देयमप्यन्वहं जलम्

1.96.15

स्वाध्यायमन्वहं कुर्यान्न पचेच्चान्नमात्मने ।
बालस्ववासिनीवृद्धगर्भिण्यातुरकन्यकाः

1.96.16

संभोज्यातिथिभृत्यांश्च दम्पत्योः शेषभोजनम् ।
प्राणाग्निहोत्रविधिनाश्रीयादन्नमकुत्सयन्

1.96.17

मितं विपाकं च हितं भक्ष्यं बालादिपूर्वकम् ।
आपोशानेनोपरिष्टादधस्ताच्चैव भुज्यते

1.96.18

अनग्नममृतं चैव कार्यमन्नं द्विजन्मना ।
अतिथिभ्यस्तु वर्णेभ्यो देयं शक्त्यानुपूर्वशः

1.96.19

अप्रणोद्यो ऽतिथिः सायमपि नात्र विचारणा ।
सत्कृत्य भिक्षवे भिक्षा दातव्या सुव्रताय च

1.96.20

आगतान् भोजयेत्सर्वान्महोक्षं श्रोत्रियाय च ।
प्रतिसंवत्सरं त्वर्च्याः स्नातकाचार्यपार्थिवाः

1.96.21

प्रियो विवाह्यश्च तथा यज्ञं प्रत्यृर्त्विजः पुनः ।
अध्वनीनो ऽतिथिः प्रोक्तः श्रोत्रियो वेदपारगः

1.96.22

मान्यावेतौ गृहस्थस्य ब्रह्मलोकमभीप्सतः ।
परपाकरुचिर्न स्यादनिन्द्यामन्त्रणादृते

1.96.23

वाक्पाणिपादचापल्यं वर्जयच्चातिभोजनम् ।
श्रोत्रियं वातिथिं तृप्तमासीमान्तादनुव्रजेत्

1.96.24

अहः शेषं सहासीत शिष्टैरिष्टैश्च बन्धुभिः ।
उपास्य पश्चिमां सन्ध्यां हुत्वाग्नौ भोजनं ततः

1.96.25

कुर्याद्भत्यैः समायुक्तैश्चिन्तयेदात्मनो हितम् ।
ब्राह्मे मुहूर्ते चोत्थाय मान्यो विप्रो धनादिभिः

1.96.26

वृद्धार्तानां समादेयः पन्था वै भारवाहिनाम् ।
इज्याध्ययनदानानि वैश्यस्य क्षत्त्रियस्य च

1.96.27

प्रतिग्रहो ऽधिको विप्रे याजनाध्यापने तथा ।
प्रधानं क्षत्त्रिये कर्म प्रजानां परिपालनम्

1.96.28

कुसीदकृषिवाणिज्यं पाशुपाल्यं विशः स्मृतम् ।
शूद्रस्य द्विजशुश्रूषा द्विजो यज्ञान्न हापयेत्

1.96.29

अहिंसा सत्यमस्तेयं शौचमिन्द्रियसंयमः ।
दमः क्षमार्जवं दानं सर्वेषां धर्मसाधनम्

1.96.30

आचरेत्सदृशीं वृत्तिमजिह्मामशठान्तथा ।
त्रैवार्षिका धिकान्नो यः स सोमं पातुमर्हति

1.96.31

स्यादन्नं वार्षिकं यस्य कुर्यात्प्रकसौमिकीं क्रियाम् ।
प्रतिसंवत्सरं सोमः पशुः प्रत्ययनं तथा

1.96.32

कर्तव्याऽग्रहणेष्टिश्च चातुर्मास्यानि यत्नतः ।
एषामसम्भवे कुर्यादिष्टिं वैश्वानरीं द्विजः

1.96.33

हीनकल्पं न कुर्वीत सति द्रव्ये फलप्रदम् ।
चण्डालो जायते यज्ञकरणाच्छूद्रभिक्षितात

1.96.34

यज्ञार्थलब्धं नादद्याद्भासः काको ऽपि वा भवेत् ।
कुसूतकुम्भीधान्यो वा त्र्याहिकः श्वस्तनो ऽपि वा

1.96.35

जीवेद्वापि शिलोञ्छेन श्रेयानेषां परः परः ।
न स्वाध्यायविरोध्यर्थमीहेत न यतस्ततः

1.96.36

राजान्तेवासियाज्येभ्यः सीदन्निच्छेद्धनं क्षुधा ।
दम्भहैतुकपाषण्डिबकवृत्तींश्च वर्जयेत्

1.96.37

शुक्लाम्बरधरो नीचकेशश्मश्रुनखः शुचिः ।
न भार्यादर्शने ऽश्रीयान्नैकवासा न संस्थितः

1.96.38

अप्रियं न वदेज्जातु ब्रह्मसूत्री विनीतवान् ।
देवप्रदक्षिणाङ्कुर्याद्यष्टिमान्सकमण्डलुः

1.96.39

न तु मेहेन्नदीच्छायाभस्मगोष्टाम्बुवर्त्मसु ।
न प्रत्यग्न्यर्कगोसोमसन्ध्याम्बुस्त्रीद्विजन्मनाम्

1.96.40

नेक्षेताग्न्यर्कनग्नां स्त्रीं न च संसृष्टमैथुनाम् ।
न च मूत्रं पुरीषं वा स्वपेत्प्रत्यकूशिरा न च

1.96.41

ष्टीवनासृक्शकृन्मूत्रविषाण्यप्सु न संक्षिपेत् ।
पादौ प्रतापयेन्नाग्नौ न चैनमभिलङ्घयेत्

1.96.42

पिबेन्नाञ्जलिना तोयं न शयानं प्रबोधयेत् ।
नाक्षैः क्रीजेच्च कितवैर्व्याधितैश्च न संविशेत्

1.96.43

विरुद्धं वर्जयेत्कम प्रेतधूमं नदीतरम् ।
केशभस्मतुषाङ्गारकपालेषु च संस्थितिम्

1.96.44

नाचक्षीत धयन्तीं गां नाद्वारेणाविशेत्क्रचित् ।
न राज्ञः प्रतिगृह्णायाल्लुब्धस्योच्छास्त्रवर्तिनः

1.96.45

अध्यायानामुपाकर्म श्रावण्यां श्रवणेन वा ।
हस्तेनौषधिभावे वा पञ्चम्यां श्रावणस्य च

1.96.46

पौषमासस्य रोहिण्यामष्टकायामथापि वा ।
जलान्ते छन्दसां कुर्यादुत्सर्गं विधिवद्वहिः

1.96.47

अनध्यायस्त्र्यहं प्रेते शिष्यर्त्विग्गुरुबन्धुषु ।
उपाकर्मणि चोत्सर्गे स्वशाखश्रोत्रिये मृते

1.96.48

सन्ध्यागर्जितनिर्घातभूकम्पोल्कानिपातने ।
समाप्य वेदं द्युनिशमारण्यकमधीत्य च

1.96.49

पञ्चदश्यां चतुर्दश्यामष्टम्यां राहुसूतके ।
ऋतुसन्धिषु भुक्त्वा वा श्राद्धिकं प्रतिगृह्य च

1.96.50

पशुमण्डूकनकुलश्वाहिमार्जारसूकरैः ।
कृते ऽन्तरे त्वहोरात्रं शक्रपाते तथोच्छ्रये

1.96.51

श्वक्रोष्टुगर्दभोलूकसामबाणार्तनिः स्वने ।
अमेध्यशवशूद्रान्त्यश्मशानपतितान्तिके

1.96.52

देशे ऽशुचावात्मनि च विद्युत्स्तनितसंप्लवे ।
भुक्त्वार्द्रपाणिरम्भो ऽन्तरर्धरात्रे ऽतिमारुते

1.96.53

दिग्दाहे पांसुवर्षेषु सन्ध्यानी हारभीतिषु ।
धावतः पूतिगन्धे च शिष्टे च गृहमागते

1.96.54

खरोष्ट्रयानहस्त्यश्वनौवृक्षगिरिरोहणे ।
सप्तत्रिंशदनध्यायानेतांस्तात्कालिकान्विदुः

1.96.55

वेददिष्टं तथाचार्यं राजच्छायां परस्त्रियम् ।
नाक्रामेद्रक्तविण्मूत्रष्ठीवनोद्वर्तनानि च

1.96.56

विप्राहिक्षत्त्रियात्मानो नावज्ञेयाः कदाचन ।
दूरादुच्छिष्टविण्मूत्रपादाम्भांसि समुत्सृजेत्

1.96.57

श्रुतिस्मृत्युक्तमाचारं कुर्यान्मर्मणि न स्पृशेत् ।
न निन्दाताडने कुर्यात्सुतं शिष्यं च ताडयेत्

1.96.58

आचरेत्सर्वदा धर्मं तद्विरुद्धं तु नाचरेत् ।
मातापित्रतिथीभ्याढ्यैर्विवादं नाचरेद्गृही

1.96.59

पञ्च पिण्डाननुद्धृत्य न स्नायात्परवारिषु ।
स्नायान्नदीप्रस्त्रवणदेवखातह्रदेषु च

1.96.60

वर्जयेत्परशय्यादि न चाश्रीयादनापदि ।
कदर्यबद्धचो (वै) राणां तथा चानम्निकस्य च

1.96.61

वैणाभिशस्तवार्धुष्यगणिकागणदीक्षिणाम् ।
चिकित्सकातुरक्रुद्धक्लीबरङ्गोपजीविनाम्

1.96.62

क्रूरोग्रपतितव्रात्यदाम्भिकोच्छिष्टभोजिनाम् ।
शास्त्रविक्रयिणश्चैव स्त्रीजितग्रामयाजिनाम्

1.96.63

नृशंसराजरजककृतघ्नवधजीविनाम् ।
पिशुनानृतिनोश्चैव सोमविक्रयिणस्तथा

1.96.64

बन्दिनां स्वर्णकाराणामन्नमेषां कदाचन ।
न भोक्तव्यं वृथा मांसं केशकीटसमन्वितम्

1.96.65

भक्तं पर्युषितोच्छिष्टं श्वस्पृष्टं पतितो (ते) क्षितम् ।
उदक्यास्पृष्टसंघुष्टमपर्याप्तं च वर्जयेत्

1.96.66

घोघ्रातं शकुनोच्छिष्टं पादस्पृष्ट च कामतः ।
शूद्रेषु दासगोपालकुलमित्रार्धसीरिणः

1.96.67

भोज्यान्नो नापितश्चैव यश्चात्मानं निवेदयेत् ।
अन्नं पर्युषितं भोज्यं स्नेहाक्तं चिरसंभृ (स्थि) तम्

1.96.68

अस्नेहा अपि घोधूमयवगोरसविक्रियाः ।
औष्ट्रमैकशफं स्त्रीणां पयश्च परिवर्जयेत्

1.96.69

क्रव्यादपक्षिदात्यूहशुकमांसानि वर्जयेत् ।
सारसैकशफान्हंसान्बलाकबकटिट्टिभान्

1.96.70

वृथा कृसरसंयाव पायसापूपशष्कुलीः ।
कुररं जालपादं च खञ्जरीटमृगद्विजान्

1.96.71

चाषान्मत्स्यात्रक्तपादञ्चग्द्ध्वा वै कामतो नरः ।
बल्लूरं कामतो जग्द्ध्वा सोप वासस्त्र्यहं भवेत्

1.96.72

पलाण्डुलशुनादीनि जग्द्ध्वा चान्द्रायणं चरेत् ।
श्राद्धे देवान्पितॄन्प्रार्च्य खादन्मांसं न दोषभाक्

1.96.73

वसेत्स नरके घोर दिनानि पशुरोमतः ।
संमितानि दुराचारो यो हन्त्यविधिना पशून् ।
मांसं सन्त्यज्य संप्रार्थ्य कामान्याति ततो हरिम्

मूल पाठ: Garuḍapurāṇa · Edition: Bombay : Venkatesvara Steam Press (or a reprint thereof) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc