भाषा

ENहिગુ
ग्रंथ पाठ

गरुड़ पुराण · अध्याय 1.97

1.97.1

इति श्रीगारुजे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे याज्ञवल्क्योक्तश्राद्धनिरूपणं नाम षण्णवतितमो ऽध्यायः
श्रीगरुडमहापुराणम्- 97
याज्ञवल्क्य उवाच ।
द्रव्यशुद्धिंप्रवक्ष्यामि तन्निबोधत सत्तमाः ।
सौवर्णराजताब्जानां शङ्खरज्ज्वादिचर्मणाम्

1.97.2

पात्राणां चासनानां च वारिणा शुद्धिरिष्यते ।
उष्णवाभः स्त्रुक्स्त्रुवयोर्धान्यादेः प्रोक्षणेन च

1.97.3

तक्षणाद्दारुशृङ्गादेर्यज्ञपात्रस्य मार्जनात् ।
सोष्णैरुदकगोमूत्रैः शुध्यत्याविककौशिकम्

1.97.4

भैक्ष्यं योषिन्मुखं पश्यन्पुनः पाकान्महीमयम् ।
गाघ्नाते ऽन्ने तथा केशमक्षिकाकीटदूषिते

1.97.5

भस्मक्षेपाद्विशुद्धिः स्याद्भूशुद्धिर्माजनादिना ।
त्रपुसीसकताम्राणां क्षाराम्लोदकवारिभिः

1.97.6

भस्माद्भिर्लोहकांस्यानामज्ञातं च सदा शुचि ।
अमेध्याक्तस्य मृत्तोयैर्गन्धलेपापकर्षणात्

1.97.7

शुचि गोतृप्तिदं तोयं प्रकृतिस्थं महीगतम् ।
तथा मांसं श्वचाण्डालक्रव्यादादिनिपातितम्

1.97.8

रश्मिरग्नी रजश्छाया गौरश्वो वसुधानिलाः ।
अश्वाजविप्रुषो मेध्या स्तथाचमनबिन्दवः

1.97.9

स्नात्वा पीत्वा क्षुते सुप्ते भुक्त्वा रथ्याप्रसर्पणे ।
आचान्तः पुनराचामेद्वासो ऽन्यत्परिधाय च

1.97.10

क्षुते निष्ठीविते स्वापे परिधाने ऽश्रुपातने ।
पञ्चस्वेतेषु नाचामेद्दक्षिणं श्रवणं स्पृशेत् ।
तिष्ठन्त्यग्न्यादयो देवा विप्रकर्णे तु दक्षिणे

मूल पाठ: Garuḍapurāṇa · Edition: Bombay : Venkatesvara Steam Press (or a reprint thereof) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc