गरुड़ पुराण · अध्याय 1.95
इत श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाक्ये आचारकाण्डे याज्ञवल्क्योक्तवर्णधर्मनिरूपणं नाम चतुर्नवतितमो ऽध्यायः
श्रीगरुडमहापुराणम्- 95
याज्ञवल्क्य उवाच ।
शृण्वन्तु मुनयो धर्मान् गृहस्थस्य यतव्रताः ।
गुरवे च धनं दत्त्वा स्नात्वा च तदनुज्ञया
समापितब्रह्मचर्यो लक्षण्यां स्त्रियमुद्वहेत् ।
अनन्यपूर्विकां कान्तामसपिण्डां यवीयसीम्
अरोगिणीं भ्रातृमतीमसमानार्षगोत्रजाम् ।
पञ्चमात्सप्तमादूर्ध्वं मातृतः पितृतस्तथा
दशपूरुषविख्याताच्छ्रोत्रियाणां महाकुलात् ।
सवर्णः श्रोत्रियो विद्वान्वरो दोषान्वितो न च
यदुच्यते द्विजातीनां शूद्राद्दारोपसंग्रहः ।
न तन्मम मतं यस्मात्तत्रायं जायते स्वयम्
तिस्रो वर्णानुपूर्व्येण द्वे तथैका यथाक्रमम् ।
ब्राह्मणक्षत्त्रियविशां भार्याः स्वा शूद्रजन्मनः
ब्राह्मो विवाह आहूय दीयते शक्त्यलङ्कृता ।
तज्जः पुनात्युभयतः पुरुषोनेकविंशतिम्
यज्ञस्थायर्त्विजे दैवमादायार्षस्तु गोयुगम् ।
चतुर्दश प्रथमजः पुनात्युत्तरजश्च षटू
इत्युक्त्वा चरतां धर्मं सह या दीयते ऽर्थिने ।
स कायः पावयेत्तज्जः षड्वंश्यानात्मना सह
आसुरो द्रविणादानाद्गान्धर्वः समयान्मिथः ।
राक्षसो युद्धहरणात्पैशाचः कन्यकाच्छलात्
चत्वारो ब्राह्मणस्याद्यास्तथा गान्धर्वराक्षसौ ।
राज्ञस्तथासुरो वैश्ये शूद्रे चान्त्यस्तु गर्हितः
पाणिर्ग्राह्यः सवर्णासु गृह्णीत क्षत्त्रिया शरम् ।
वैश्या प्रतोदमादद्याद्वेदने चाग्रजन्मनः
पिता पितामहो भ्राता सकुल्यो जननी तथा ।
कन्याप्रदः पूर्वनाशे प्रकृतीस्थः परः परः
अप्रयच्छन्समाप्नोति भ्रूणहत्यामृतावृतौ ।
एषामभावे दातॄणां कन्या कुर्यात् स्वयंवरम्
सकृत्प्रदीयते कन्या हरंस्तां चोरदण्डभाक् ।
अदुष्टां हि त्यजन्दण्ड्यः सुदुष्टां तु परित्यजेत्
अपुत्रा गुबपुज्ञातो देवरः पुत्रकान्यगा ।
सपिण्डो वा समोत्रो वा घृताभ्यक्त ऋतावियात्
आगर्भसम्भवं गच्छेत्पतितस्त्वन्यथा भवेत् ।
अनेन विधिना जात क्षेत्रपस्य भवेत्सुतः
हृताधिकारां मलिनां पिण्डमात्रोपसेविनीम् ।
परिभूतामधः शय्यां वासयेद्य्वभिचारिणीम्
सोमः शौचं ददौ तासां गन्धर्वश्च सुभां गिरम् ।
पावकः सर्वमेध्यत्वं मेध्या वै योषितो यतः
व्यभिचारादृतौशुद्धिर्गर्भेत्यागं करोति च ।
गर्भभर्तृवधे तासां तथा महति पातके
सुरापि व्याधिता द्वेष्ट्री वन्ध्यार्थघ्न्यप्रियंवदा ।
अधिविन्ना च भर्तव्या महदेनोन्यथा भवेत्
यत्राविरोधो दम्पत्योस्त्रिवर्गस्तत्त्र वर्धते ।
मृते जीवति या पत्यौ या नान्यमुपगच्छति
सेह कीर्तिमवाप्नोति मोदते चोमया सह ।
शुद्धां त्यजंस्तृतीयांशं दद्यादामरणं स्त्रियाः
स्त्रीभिर्भर्तुर्वचः कार्यमेष धर्मः परः स्त्रियाः ।
षोडशर्तुनिशाः स्त्रीणां तासु युग्मासु संविशेत्
ब्रह्मचारी च पर्वाण्याद्याश्ततस्त्रस्तु वर्जयेत् ।
एवं गच्छं स्त्रियं क्षामां मघां मूलां च वर्जयेत्
लक्षण्यं जनयेदेव पुत्रं रोगविवर्जितम् ।
यथा कामी भवेद्वापि स्त्रीणां (स्म) वलमनुस्मरन्
स्वदारनिरतश्चैव स्त्रियो रक्ष्या यतस्ततः ।
भर्तृभ्रातृपितृज्ञातिश्वश्रूश्वशुरदेवरैः
बन्धुभिश्च स्त्रियः पूज्या भूषणाच्छादनाशनैः ।
संयतो पस्करा दक्षा हृष्टा व्ययपराङ्मुखी
श्वश्रूश्वशुरयोः कुर्यात्पादयोर्वन्दनं सदा ।
क्रीडाशरीरसंस्कारसमाजोत्सवदशनम्
हास्यं परगृहे यानं त्यजेत्प्रेषितभर्तृका ।
रक्षेत्कन्यां पिता बाल्ये यौवने पतिरेव ताम्
वार्धक्ये रक्षते पुत्रो ह्यन्यथा ज्ञातयस्तथा ।
पतिं विना न तिष्ठेत्तु दिवा वा यदि वा निशि
ज्येष्ठां धर्मविधौ कुर्यान्न कनिष्ठां कदाचन ।
दाहयेदग्निहोत्रेण स्त्रियं वृत्तवतीं पतिः
आहरेद्विधिवद्दारानग्निं चैवाविलम्बितः ।
हिता भर्तुर्दिवं गच्छेदिह कीर्तीरवाप्य च
मूल पाठ: Garuḍapurāṇa · Edition: Bombay : Venkatesvara Steam Press (or a reprint thereof) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0