गरुड़ पुराण · अध्याय 1.70
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे मुक्ताफलप्रमाणादिवर्णनं नाम मुक्ताफलपरीक्षा नामैकोनसप्ततितमो ऽध्यायः
श्रीगरुडमहापुराणम्- 70
सूत उवाच ।
दिवाकरस्तस्य महामहिम्नो महासुरस्योत्तमरत्नबीजम् ।
असृग्गृहीत्वा चरितुं प्रतस्थे निस्त्रिंशनीलेन नभः स्थलेन
जेत्त्रा सुराणां समरेष्वजस्त्रं वीर्यावलेपोद्धतमानसेन ।
लङ्काधिपेनार्धपथे समेत्य स्वर्भानुनेव प्रसभं निरुद्धः
तत्सिंहलीचारुनितम्बबिम्बविक्षो भितागाधमहाह्रदायाम् ।
पूगद्रुमाबद्धतटद्वयायां मुमोच सूर्यः सरिदुत्तमायाम्
ततः प्रभृति सा गङ्गा तुल्यपुण्यफलोदया ।
नाम्ना रावणगङ्गेति प्रथिमानमुपागता
ततः प्रभृत्येव च शर्वरीषु कूलानि रत्नैर्निचितानि तस्याः ।
सुवर्णनाराचशतैरिवान्तर्बहिः प्रदीप्तैर्निशितानि भान्ति
तस्यास्तटेपूज्ज्वचारुरागा भवन्ति तोयेषु च पद्मरागाः ।
सौगन्धिकोत्थाः कुरुविन्दजाश्च महागुणाः स्फाटिकसंप्रसूताः
बन्धू कगुञ्जासकलेन्द्रगोपजवासमासृक्समवर्णशोभाः ।
भ्राजिष्णवो दाडिमबीजवर्णास्तथापरे किशुकपुष्पभासः
खिन्दुरपद्मोत्पलकुङ्कुमानां लाक्षारसस्यापि समानवर्णः ।
सांद्रे ऽपि रागे प्रभया स्वयैव भान्ति स्वलक्ष्याः स्फुटमध्यशोभाः
भानोश्च भासामनुवेधयोगामासाद्य रशमि प्रकरेण दूरम् ।
पार्श्वानि सर्वाण्यनुरञ्जयन्ति गुणापपन्नाः स्फटिकप्रसूताः
कुसुंभनीलव्यतिमिश्ररागप्रत्युग्ररक्ताबुजतुल्यभासः ।
तथापरे ऽरुष्करकण्टकारिपुष्पत्विषो हिङ्गुलवत्त्विषो ऽन्ये
चकोरपुंस्कोकिलसारसानां नेत्रावभासश्च भवन्ति केचित् ।
अन्ये पुनः सन्ति च पुष्पितानां तुल्यत्विषा कोकनदोत्तमानाम्
प्रभावकाठिन्यगुरुत्वयोगैः प्रायः समानाः स्फटिकोद्भवानाम् ।
आनीलरक्तोत्पलचारुभासः सौगन्धिकोत्था मणयो भवन्ति
कामं तु रागः कुरुविन्दजेषु स नैव यादृक् स्फटिकोद्भवेषु ।
निरर्चिषो ऽन्तर्बहुला भवन्ति प्रभाववन्तो ऽपि नतैः समस्तैः
ये तु रावणगङ्गायां जायन्ते कुरुविन्दकाः ।
पद्मरागघनं रागं बिभ्राणाः स्फटिकार्चिषः
वर्णानुयायिनस्तेषा मान्ध्रदेशे तथा परे ।
न जायन्ते हि ये केचिन्मूल्यलेशमवाप्नुयुः
तथैव स्फाटिकोत्थानां देशे तुम्बुरुसंज्ञके ।
सधर्माणः प्रजायन्ते स्वल्पमूल्या हि ते स्मृताः
वर्णाधिक्यं गुरुत्वं च स्निग्धता समताच्छता ।
अर्चिष्मत्ता महत्ता च मणीनां गुणसंग्रहः
ये कर्करच्छिद्रमलोपदिग्धाः प्रभाविमुक्ताः परुषा विवर्णाः ।
न ते प्रशस्ता मणयो भवन्ति समानतो जातिगुणैः समस्तैः
दोषोपसृष्टं मणिमप्रबोधाद्विभर्ति यः कश्चन कञ्चिदेव ।
तं शोकचिन्तामयमृत्युवित्तनाशादयो दोषगणा भजन्ते
कामं चारुतराः पञ्च जातीना प्रतिरूपकाः ।
विजा तयः प्रयत्नेन विद्वांस्तनुपलक्षयेत्
कलशपुरोद्भवसिंहलतुम्बुरुदेशोत्थमुक्तपाणीयाः ।
श्रीपूर्णकाश्च सदृशा विजातयः पद्मरागाणाम्
तुषोपसर्गात्कलशाभिधानमाताम्रभावादपि तुम्बुरूत्थम् ।
कार्ष्ण्यात्तथा सिंहलदेशजातं मुक्ताभिधानं नभसः स्वभावात्
श्रीपूर्णकं दीप्तिविनाकृतत्वाद्विजातिलिङ्गाश्रय एव भेदः ।
यस्ताम्रिकां पुष्यति पद्मरागो योगात्तुषाणामिव पूर्णमध्यः
स्त्रेहप्रदिग्धः प्रतिभाति यश्च यो वा प्रघृष्टः प्रजहाति दीप्तिम् ।
आक्रान्तमूर्धा च तथाङ्गुलिभ्यां यः कालिकां पार्श्वगतां बिभर्ति
संप्राप्य चोत्क्षिप्य यथानुवृत्तिं विभर्तियः सर्वगुणानतीव ।
तुल्यप्रमाणस्य च तुल्यजातेर्यो वा गुरुत्वेन भवेत्तु तुल्यः ।
प्राप्यापि रत्नाकरजा स्वजातिं लक्षेद्गुरुत्वेन गुणेन विद्वान्
अप्रणश्यति सन्देहे शाणे तु परिलेखयेत् ।
सु(स्व) जातकसमुत्थेन लिखित्वापि परस्परम्
वज्रं वा कुरुविन्दं वा विमुच्यानेन केनचित् ।
नाशक्यं लेखनं कर्तुं पद्मरागेन्द्रनीलयोः
जात्यस्य सर्वे ऽपि मणेर्न जातु विजातयः सन्ति समानवर्णाः ।
तथापि नानाकरणार्थमेव भेदप्रकारः परमः प्रदिष्टः
गुणोपपन्नेन सहावबद्धोमेणिर्न धार्यो विगुणो हि जात्या ।
न कौस्तुभेनापि सहावबद्धं विद्वान्विजातिं बिभृयात्कदाचित्
चाण्डाल एको ऽपि यथा द्विजातीन्समेत्य भूरीनपि हन्त्ययत्नात् ।
अथो मणीन्भूरिगुणोपपन्नाञ्छक्रोति विप्लावयितुं विजात्यः
सपत्नमध्ये ऽपि कृताधिवासं प्रमादवृत्तावपि वर्तमानम् ।
न पद्मरागस्य महागुणस्य भर्तारमापत्स्पृशतीह काचित्
दोषोपसर्गप्रभवाश्च ये ते नोपद्रवास्तं समभिद्रवन्ति ।
गुणैः समुत्तेजितचारुरागं यः पद्मरागं प्रयतो बिभर्ति
वज्रस्य यत्तण्डुलसंख्ययोक्तं मूल्यं समुत्पादितगौरवस्य ।
तत्पद्मरागस्य महागुणस्य तन्माषकल्पाकलितस्य मूल्यम्
वर्णदाप्त्यपपन्नं हि मणिरत्नं प्रशस्यते ।
ताभ्यामीषदपि भ्रष्टं मणिमूल्यात्प्रहीयते
मूल पाठ: Garuḍapurāṇa · Edition: Bombay : Venkatesvara Steam Press (or a reprint thereof) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0