भाषा

ENहिગુ
ग्रंथ पाठ

गरुड़ पुराण · अध्याय 1.71

1.71.1

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे पद्मरागपरीक्षणं नाम सप्ततितमो ऽध्यायः
श्रीगरुडमहापुराणम्- 71
सूत उवाच ।
दानवाधिपतेः पित्तमादाय भुजगाधिपः ।
द्विधा कुर्वन्निव व्योम सत्वरं वासुकिर्ययौ

1.71.2

स तदा स्वशिरोरत्नप्रभादीप्ते नभो ऽम्बुधौ ।
राजतः समहानेकः खण्डसेतुरिवाबभौ

1.71.3

ततः पक्षनिपातेन संहरन्निव रोदसी ।
गरुत्मान्पन्नगेन्द्रस्य प्रहर्तुमुपचक्रमे

1.71.4

सहसैव मुमोच तत्फणीन्द्रः सुरसाभ्यक्ततुरुष्क (रष्क) पादपायाम् ।
कलिकाघनगन्धवासिता यां वरमाणिक्यगिरेरुपत्यकायाम्

1.71.5

तस्य प्रपातसमनन्तरकालमेव तद्वद्वरालयमतीत्य रमासमीपे ।
स्थानं क्षितेरुपपयोनिधितीरलेखंयां वरमाणिक्यगिरेरुपत्यकायाम्

1.71.6

तत्रैव किञ्चित्पततस्तु पित्तादुपेत्य जग्राह ततो गरुत्मान् ।
मूर्छापरीतः सहसैव घोणारन्ध्रद्वयेन प्रमुमोच सर्वम्

1.71.7

तत्राकठोरशुककण्ठशिरीषपुष्पखद्योतपृष्ठचरशाद्वलशैवलानाम् ।
कल्हारशष्पकभुजङ्गभुजाञ्च पत्रप्राप्तत्विषो मरकताः शुभदा भवन्ति

1.71.8

तद्यत्र भोगीन्द्रभुजाभियुक्तं पपात पित्तं दितिजाधिपस्य ।
तस्याकरस्यातितरां स देशो दुः खोपलभ्यश्च गुणैश्च युक्तः

1.71.9

तस्मिन्मरकतस्थाने यत्किञ्चिदुपजायते ।
तत्सर्वं विषरोगाणां प्रशमाय प्रकीर्त्यते

1.71.10

सर्वमन्त्रौ षधिगणैर्यन्न शक्यं चिकित्सितुम् ।
महाहिदंष्ट्राप्रभवं विषं तत्तेन शाम्यति

1.71.11

अन्यदप्याकरे तत्र यद्दोषैरुपवर्जितम् ।
जायते तत्पवित्राणामुत्तमं परिकीर्तितम्

1.71.12

अत्यन्तहरितवर्णं कोमलमर्चिर्विभेदजटिलं च ।
काञ्चनचूर्णस्यान्तः पूर्णमिव लक्ष्यते यच्च

1.71.13

युक्तं संस्थानगुणैः समरागं गौरवेण न विहीनम् ।
सवितुः करसंस्पर्शाच्छुरयति सर्वाश्रमं दीप्त्या

1.71.14

हित्वा च हरितभावं यस्यान्तर्विनिहिता भवेद्दीप्तिः ।
अचिरप्रभाप्रभाहतनवशाद्वलसन्निभा भाति

1.71.15

यच्च मनसः प्रसादं विदधाति निरीक्ष्यमतिमात्रम् ।
नन्मरकतं महागणमिति रत्नविदां मनोवृत्तिः

1.71.16

वर्णस्याति विभुत्वाद्यस्यान्तः स्वच्छकिरणपरिधानम् ।
सान्द्रस्निग्धविशुद्धं कोमलबर्हिप्रभादिसमकान्ति

1.71.17

वर्णोज्ज्वलया कान्त्या सान्द्राकारो विभासया भाति ।
तदपि गुणवत्संज्ञामाप्नोति हि यादृशी पूर्वम्

1.71.18

शबलकठोरमलिनं रूक्षं पाषाणकर्करोपेतम् ।
दिग्धं शिलाजतुना मरकतमेवंविधं विगुणम्

1.71.19

यत्सन्धिशोषितं रत्नमन्यन्मरकताद्भवेत् ।
श्रेयस्कामैर्न तद्धार्यं क्रेतव्यं वा कतञ्चन

1.71.20

भल्लातकी पुत्रिका च तद्वर्णसमयोगतः ।
मणेर्मरकतस्यैते लक्षणीया विजातयः

1.71.21

क्षौमेण वाससा मृष्टा दीप्तिं त्यजति पुत्रिका ।
लाघवेनैव काचस्य शक्या कर्तुं विभावना

1.71.22

कस्यचिदनेकरूपैर्मरकतमनुगच्छतो ऽपि गुणवर्णैः ।
भल्लातकस्यस्वनात्तु वैषम्यमुपैति वर्णस्य

1.71.23

वज्राणि मुक्ताः सन्त्यन्ये ये च केचिद्द्विजातयः ।
तेषां नाप्रतिबद्धानां भा भवत्यूर्ध्वगामिनी

1.71.24

ऋजुत्वाच्चैव केषाञ्चित्कथञ्चिदुपजायते ।
तिर्यगालोच्यमानानां सद्यश्चैव प्रणश्यति

1.71.25

स्नानाचमनजप्येषु रक्षामन्त्रक्रियाविधौ ।
ददद्भिर्गोहिरण्यानि कुर्वद्भिः साधनानि च

1.71.26

दैवपित्र्यातिथेयेषु गुरुसंपूजनेषु च ।
बाध्यमानेषु विविधैर्देषजातैर्विषोद्भवैः

1.71.27

दौषैर्हेनं गुणैर्युक्तं काञ्चनप्रतियोजितम् ।
संग्रामे विचरद्भिश्च धार्यं मरकतं बुधैः

1.71.28

तुलया पद्मरागस्य यन्मूल्यमुपजायते ।
लभते ऽभ्यधिकं तस्माद्गुणैर्मरकतं युतम्

1.71.29

तथा च पद्मरागाणां दोषैर्मूल्यं प्रहीयते ।
ततो ऽस्याप्यधिका हानिर्देषैर्मरकते भवेत्

मूल पाठ: Garuḍapurāṇa · Edition: Bombay : Venkatesvara Steam Press (or a reprint thereof) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc