भाषा

ENहिગુ
ग्रंथ पाठ

गरुड़ पुराण · अध्याय 1.69

1.69.1

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे रत्नतद्विशेषवज्रपरीक्षणादिवर्णनं नामाष्टषष्टितमो ऽध्यायः
श्रीगरुडमहापुराणम्- 69
सूत उवाच ।
द्विपेन्द्रजीमूतवराहशङ्खमत्स्याहिशुक्त्युद्भववेणुजानि ।
मुक्ताफलानि प्रथितानि लोके तेषां च शुक्त्युद्भवमेव भूरि

1.69.2

तत्रैव चैकस्य हि मूलमात्र निविश्यते रत्नपदस्य जातु ।
वेध्यं तु शुक्तयुद्भवमेव तेषां शेषाण्यवेध्यानि वदन्ति तज्ज्ञाः

1.69.3

त्वक्सारनागेन्द्रतिमिप्रसूतं यच्छङ्खजं यच्च वरा हजातम् ।
प्रायो विमुक्तानि भवन्ति भासा शस्तानि माङ्गल्यतया तथापि

1.69.4

या मौक्तिकानामिह जातये ऽष्टौ प्रकीर्तिता रत्नविनिश्चयज्ञैः ।
कम्बूद्भवं तेष्वधमं प्रदिष्टमुत्पद्यते यच्च गजेन्द्रकुम्भात्

1.69.5

स्वयोनिमद्यच्छवितुल्यवर्णं शाङ्खं बृहल्लोलफलप्रमाणम् ।
उत्पद्यते वारणकुम्भमध्यादापीतवर्णं प्रभया विहीनम्

1.69.6

ये कम्बवः शार्ङ्गमुखावमर्शपीतस्य शङ्खप्रवरस्य गोत्रे ।
मतङ्गजाश्चापि विशुद्धवंश्यास्ते मौक्तिकानां प्रभवाः प्रदिष्टाः

1.69.7

उत्पद्यते मौक्तिकमेषु वृत्तमापीतवर्णं प्रभया विहीनम् ।
पाठीनपृष्ठस्य समानवर्णं मीनात्सुवृत्तं लघु चातिसूक्ष्मम्

1.69.8

उत्पद्यते वारिचराननेषु मत्स्याश्चे ते मध्यचराः पयोधेः ।
वराहदंष्ट्राप्रभवं प्रदिष्टं तस्यैव दंष्ट्राङ्कुरतुल्यवर्णम्

1.69.9

क्रचित्कथञ्चित्स भुवः प्रदेशे प्रजायते सूकरराड्विशिष्टः ।
वर्षोपलानां समवर्णशोभं त्वक्सारपर्वप्रभवं प्रदिष्टम्

1.69.10

ते वेणवो दिव्यजनोपभोग्ये स्थाने प्ररोहन्ति न सार्वजन्ये ।
भौजं गमं मीनविशुद्धवृत्तं संस्थानतो ऽत्युज्ज्वलवर्णशोभम्

1.69.11

नितान्तधौतप्रविकल्पमाननिस्त्रिंशधारासमवर्णकान्ति ।
प्राप्यातिरत्नानि महाप्रभाणि राज्यं श्रियं वा महतीं दुरापाम्

1.69.12

तेजो ऽन्विताः पुण्यकृतो भवन्ति मुक्ताफलस्याहिशिरोभवस्य ।
जिज्ञासया रत्नधनं विधिज्ञैः शुभेमुहूर्ते प्रयतैः प्रयत्नात्

1.69.13

रक्षाविधानं सुमहद्विधाय हर्म्योपरिष्ठं क्रियते यदा तत् ।
तदा महादुन्दुभिमन्द्रघोषैर्विद्युल्लताविस्फुरितान्तरालैः

1.69.14

पयोधराक्रान्तिविलम्बिनम्रैर्घनैर्नवैराव्रियते ऽन्तरिक्षम् ।
न तं भुजङ्गा न तु यातुधाना न व्याधयो नाप्युपसर्गदोषाः

1.69.15

हिंसन्ति यस्याहिशिरः समुत्थं मुक्ताफलं तिष्ठति कोशमध्ये ।
नाभ्येति मेघप्रभवं धरित्रीं विप्रद्गतं तद्विबुधा हरन्ति

1.69.16

अर्चिः प्रभानावृतदिग्विभागमादित्यवहुः खविभाव्यबिम्बम् ।
तेजस्तिरस्कृत्य हुताशनेन्दुनक्षत्रताराप्रभवं समग्रम्

1.69.17

दिवा यथा दीर्प्तिङ्करं तथैव तमो ऽवगाढास्वपि तन्निशासु ।
विचित्ररत्नद्युतिचारुतोया चतुः समुद्राभरणोपपन्ना

1.69.18

मूल्यं न वा स्यादिति निश्चयो मे कृत्स्ना मही तस्य मुवर्णपूर्णा ।
हीनो ऽपियस्तल्लभते कदाचिद्विपाकयोगान्महतः शुभस्य

1.69.19

सापत्न्यहीनां स महीं समग्रां भुनक्ति तत्तिष्ठति यावदेव ।
न केवलं तच्छुभकृन्नृपस्य भाग्यैः प्रजानामपि तस्य जन्म

1.69.20

तद्योजनानां परितः सहस्रं सर्वाननर्थान्विमुखी करोति ।
नक्षत्रमालेव दिवो विशीर्णा दन्तावलिस्तस्य महामुरस्य

1.69.21

विचित्रवर्णेषु विशुद्धवर्णा पयः सु पत्युः पयसां पपात ।
सम्पूर्णचन्द्रांशुकलापकान्तेर्माणिप्रवेकस्य महागुणस्य

1.69.22

तच्छुक्तिमत्सु स्थितिमाप बीजमासन्पुराप्यन्यभवानि यानि ।
यस्मिन्प्रदेशे ऽम्बुनिधौ पपात सुचारुमुक्तामणिरत्नबीजम् ।
तस्मिन्पयस्तोयधरावकीर्णं शुक्तौ स्थितं मौक्तिकतामवाप

1.69.23

सैंहलिकपारलौकिकसौराष्ट्रिकताम्रपर्णपारशवाः ।
कौवेरपाण्ड्यहाटकहेमकमित्याकरास्त्वष्टौ

1.69.24

शुक्त्युद्भवं नातिनिकृष्टवर्णं प्रमाणसंस्थानगुणप्रभाभिः ।
उत्पद्यते वर्धनपारसीकपाताललोकान्तरसिंहलेषु

1.69.25

चिन्त्या न तस्याकरजा विशेषा रूपे प्रमाणे च यतेत विद्वान् ।
न च व्यवस्थास्ति गुणागुणेषु सर्वत्र सर्वाकृतयो भवन्ति

1.69.26

एतस्य शुक्तिप्रभस्य मुक्ताफलस्य चान्येन समुन्मितस्य ।
मूल्यं सहस्राणि तु रूपकाणां त्रिभिः शतैरप्याधिकानि पञ्च

1.69.27

यन्माषकार्धेन ततो विहीनं तत्पञ्चभागद्वयहीनमूल्यम् ।
यन्माषकांस्त्रीन्बिभृयात्सहस्रे द्वे तस्य मूल्यं परमं प्रदिष्टम्

1.69.28

अर्धाधिकौ द्वौ वहतो ऽस्य मूल्यं त्रिभिः शतैरप्यधिकं सहस्रम् ।
द्विमाष कोन्मानितगौरवस्य शतानि चाष्टौ कथितानि मूल्यम्

1.69.29

अर्धाधिकं माषकमुन्मितस्य समं च विंशत्रितयं शतानाम् ।
गुञ्जाश्च षड् धारयतः शते द्वे मूल्यं परं तस्य वदन्ति तज्ज्ञाः ।
अध्यर्धमुन्मान(प) कृतं शतं स्यान्मूल्यं गुणैस्तस्य समन्वितस्य

1.69.30

यदि षोडशभिर्भवेदनूनन्धरणं तत्प्रवदन्ति दार्विकाख्यम् ।
अधिकं दशभिः शतं च मूल्यं समवाप्नोत्यपि बालिशस्य हस्तात्

1.69.31

द्विगुणैर्दशभिर्भवेदनूनं धरणं तद्भवकं वदन्ति तज्ज्ञाः ।
नवसप्ततिमाप्नुयात्स्वमूल्यं यदि न स्याद्गुणसम्पदा विहीनम्

1.69.32

त्रिंशता धरणं पूर्णं शिक्यं तस्येति कीर्त्यते ।
चत्वारिंशद्भवेत्तस्याः परं मूल्यं विनिश्चयः

1.69.33

चत्वारिंशद्र भवेत्तस्यास्त्रिंशन्मूल्यं लभेत् सा ।
पञ्चाशत्तु भवेत्सोमस्तस्य मूल्यं तु विंशतिः

1.69.34

षष्टिर्निकरशीर्षं स्यात्तस्या मूल्यं चतुर्दश ।
अशीतिर्नवतिश्चैव कूप्येति परिकीर्तिता ।
एकादश स्यान्नव च तयोर्मूल्यमनुक्रमात्

1.69.35

आदाय तत्सकलमेव ततो ऽन्नभाण्डं जम्बीरजातरसयोजनया विपक्रम् ।
घृष्टं ततो मृदुतनूकृतपिण्डमूलैः कुर्याद्यथेष्टमनु मौक्तिकमाशु विद्धम्

1.69.36

मृल्लिप्तमत्स्यपुटमध्यगतं तु कृत्वा पश्चात्पचेत्तनु ततश्च बिडालपुट्या ।
दुग्धे ततः पयसि तं विपचेत्सुधायां पक्रं ततो ऽपि पयसा शुचिचिक्रणेन

1.69.37

शुद्धं ततो विमलवस्त्रनिघर्षणेन स्यान्मौक्तिकं विपुलसद्गुणकान्तियुक्तम् ।
व्याडिर्जगाद जगतां हि महाप्रभावः सिद्धो विदग्धहिततत्परया दयालुः

1.69.38

श्वेतकाचसमं तारं हेमांशशतयोजितम् ।
रसमध्ये प्रधार्येत मौक्तिकं देहभूषणम्

1.69.39

एवं हि सिंहले देशे कुर्वन्ति कुशला जनाः ।
यस्मिन्कृत्रैमसन्देहः क्रचिद्भवति मौक्तिके

1.69.40

उष्णे सलवणे स्नेहे निशां तद्वासयेज्जले ।
व्रीहिभिर्मर्दनीयं वा शुष्कवस्त्रोपवेष्टितम्

1.69.41

यत्तु नायाति वैवर्ण्यं विज्ञेयं तदकृत्रिमम् ।
सितं प्रमाणवत्स्निग्धं गुरु स्वच्छं सुनिर्मलम्

1.69.42

तेजो ऽधिकं सुवृत्तं च मौक्तिकं गुणवत्स्मृतम्

1.69.43

प्रमाणवद्गौरवरश्मियुक्तं सितं सुवृत्तं समसूक्ष्मवेधम् ।
अक्रेतुरप्यावहति प्रमोदं यन्मौक्तिकं तद्गुणवत्प्रदिष्टम्

1.69.44

एवं समस्तेन गुणोदयेन यन्मौक्तिकं योगमुपागतं स्यात् ।
न तस्य भर्तारमनर्थजात एको ऽपि कश्चित् समुपैति दोषः

मूल पाठ: Garuḍapurāṇa · Edition: Bombay : Venkatesvara Steam Press (or a reprint thereof) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc