भाषा

ENहिગુ
ग्रंथ पाठ

गरुड़ पुराण · अध्याय 1.65

1.65.1

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे ज्योतिः शास्त्रे सामुद्रिके स्त्रीलक्षणनिरूपणं नाम चतुः षष्टितमो ऽध्यायः
श्रीगरुडमहापुराणम्- 65
हरिरुवाच ।
समुद्रोक्तं प्रवक्ष्यामि नरस्त्रीलक्षणं शुभम् ।
येन विज्ञातमात्रेण अतीतानागताप्रमा

1.65.2

अस्वेदिनौ मृदुतलौ कमलोदरसन्निभौ ।
श्लेष्टाङ्गुली ताम्रनखौ पादाविष्णौ शिरोज्झितौ

1.65.3

कूर्मोन्नतौ गूढगुल्फौ सुपार्ष्णो नृपतेः स्मृतौ ।
शू(सर्) पाकारौ विरूक्षौ च वक्रौ पादौ शिरालकौ

1.65.4

संशुष्कौ पाण्डुरनखौ निः स्वस्य विरलाङ्गुली ।
मार्गायोत्कण्टकौ पादौ कषायसदृशौ तथा

1.65.5

विच्छित्तिदौ च वंशस्य ब्रह्मन्घौ शङ्कु (पक्र) सन्निभौ ।
अगम्यागमने प्रीतौ जङ्घा विरलरोमिका

1.65.6

मृदुरोमा समा जङ्घा तथा करिकरप्रभा ।
ऊरवो जानवस्तुल्या नृपस्योपचिताः स्मृताः

1.65.7

निः स्वस्य सृगालजङ्घा रौमैकैकं चकूपके ।
नृपाणां श्रोत्रियाणां च द्वेद्वे श्रिये च धीमताम्

1.65.8

त्र्याद्यैर्निः स्वा मानवाः स्युर्दुः स्वभाजश्च निन्दिताः ।
केशाश्च वै कुञ्चिताश्च प्रवासे म्रियते नरः

1.65.9

निर्मांसजानुः सौभाग्यमल्पैर्निम्नै रतिः स्त्रियाः ।
विकटैश्च दरिद्राः स्युः समांसै राज्यमेव च

1.65.10

महद्भिरायुराख्यातं ह्यल्पलिङ्गो धनी नरः ।
अपत्यरहितश्चैव स्थूललिङ्गो घनोज्झितः

1.65.11

मेढे वामनते चैव सुतार्थरहितो भवेत् ।
वक्रे ऽन्यथा पुत्रवान्त्स्याद्दारिद्रयं विनतेत्वधः

1.65.12

अल्पे त्वतनयो लिङ्गेशिराले ऽथ सुखी नरः ।
स्थूलग्रन्थियुते लिङ्गे भवेत्पुत्रादिसंयुतः

1.65.13

कोशगूढे दीर्घैर्भुग्नैश्च धनवर्जितः ।
बलवान्युद्धशीलश्च लघुशेक्तः स एव च

1.65.14

दुर्बलस्त्वेकवृषणो विषमाभ्याञ्चलः स्त्रियाम् ।
समाभ्यां क्षितिपः प्रोक्तः प्रलम्बेन शताब्दवान्

1.65.15

उद्वृं (द्ध) ताभ्यां च बह्वायू रूक्षैर्मणिभिरीश्वरः ।
पाण्डरैर्मणिभिर्निः स्वा मलिनैः सुखभागिनः

1.65.16

सशब्दनिः शब्दमूत्राः स्युदंरिद्राश्च मानवाः ।
एकद्वित्रिचतुः पञ्चषड्भिर्धाराभिरेव च

1.65.17

दक्षिणावर्तचलितमूत्रा भिश्च नृपाः स्मृताः ।
विकीर्णमूत्रा निः स्वाश्च प्रधानसुखदायिकाः

1.65.18

एकधाराश्च वनिताः स्निग्धैर्मणिभिरुन्नतैः ।
समैः स्त्रीरत्नधनिनो मध्ये निम्नैश्च कन्यकाः

1.65.19

शुष्कैर्निश्वा विशुष्कैश्च दुर्भगाः परिकीर्तिताः ।
पुष्पगन्धे नृपाः शुक्रे मधुगन्धे धनं बहुः

1.65.20

पुत्राः शुक्रे मत्स्यगन्धे तनुशुक्रे च कन्यकाः ।
महाभोगी मांसगन्धे यज्वा स्यान्मदगन्धिनि

1.65.21

दरिद्रः क्षारगन्धे च दीर्घायुः शीघ्रमैथुनी ।
अशीघ्रमैथुन्यल्पायुः स्थूलस्फिक् स्याद्धनोज्झितः

1.65.22

मांसलस्फिक् सुखी स्याच्च सिंहस्फिक् भूपतिः स्मृतः ।
भवेत्सिंहकटी राजा निः स्वः कपिकटिर्नरः

1.65.23

सर्पोदरा दरिद्राः स्युः पिठरैश्च घटैः समैः ।
धनिनो विपुलैः पार्श्वैर्निः स्वा रक्तैश्च निम्नगैः

1.65.24

समकक्षाश्च भोगाढ्या निम्नकक्षा धनोज्झिताः ।
नृपाश्चोन्नतकक्षाः स्युर्जिह्ना विषमकक्षकाः

1.65.25

मत्स्योदरा बहुधना नाभिभिः सुखिनः स्मृताः ।
विस्तीर्णाभिर्बहुलाभिर्निम्नाभिः क्लेशभागिनः

1.65.26

बलिमध्यगता नाभिः शूलबाधां करोति हि ।
वामावर्तश्च साध्यं वै मेधां दक्षिणतस्तथा

1.65.27

पार्श्वायता चिरायुर्दा तूपविष्टा धनेश्वरम् ।
अधो गवाढ्यं कुर्याच्च नृपत्वं पद्मकर्णिका

1.65.28

एकबलिः शतायुः स्याच्छ्रीभोगी द्विवलिः स्मृतः ।
त्रिवलिः क्ष्माप आचार्य ऋजुभिर्वालिभिः सुखी

1.65.29

अगम्यागामी जिह्मबलिर्भूपाः पार्श्वैश्च मांसलैः ।
मृदुभिः सुसमैश्चैव दक्षिणावर्तरोमभिः

1.65.30

विपरीतैः परप्रेष्या निर्द्रव्याः सुखवर्जिताः ।
अनुद्धतैश्चूचुकैश्च भवन्ति सुभगा नराः

1.65.31

निर्धना विषमैर्देर्घैः पीतोपचितकैर्नृपाः ।
समोन्नतं च हृदयमकम्पं मांसलं पृथु

1.65.32

नृपाणामधमानां च खररोमशिरालकम् ।
अर्थवान्समवक्षाः स्यात्पीनैर्वक्षोभिरूर्जितः

1.65.33

वक्षोभिर्विषमैर्निः स्वः शस्त्रेणनिधनास्तथा ।
विषमैर्जत्रुभिर्निः स्वा अस्थिनद्धैश्च मानवाः

1.65.34

उन्नतैर्भोगिनो निम्नैर्निः स्वाः पीनैर्धनान्विताः ।
निः स्वश्चिपिटकण्ठः स्याच्छिराशुष्कगलः सुखी

1.65.35

शूरः स्यान्महिषग्रीवः शास्त्रात्तो मृगकण्ठकः ।
कम्बुग्रीवश्च नृपतिर्लम्बकण्ठो ऽतिभक्षकः

1.65.36

अरोमशा भुग्नपृष्ठं शुभं चाशुभमन्यथा ।
कक्षाश्वत्थदला श्रेष्ठा सुगन्धिर्मृगरोमिका

1.65.37

अन्यथा त्वर्थहीनानां दारिद्रयस्य च कारणम् ।
संमासौ चैव भुग्नाल्पौ श्लिष्टौ च विपुलौ शुभौ

1.65.38

आजानुलम्बितौ बाहू वृत्तौ पीनौ नृपेश्वरे ।
निः स्वानां रोमशौ ह्रस्वौ श्रेष्ठौ करिकर प्रभौ

1.65.39

हस्ताङ्गुलय एव स्युवायुद्वारयुताः शुभाः ।
मेधाविनां च सूक्ष्माः स्युर्भृत्यानां चिपिटाः स्मृताः

1.65.40

स्थूलाङ्गुलीभिर्निः स्वाः स्युर्नताः स्युः सुकृशैस्तदा ।
कपितुल्यकराः निः स्वा व्याघ्रतुल्यकरैर्बलम्

1.65.41

पितृवित्तविनाशश्च निम्नात्करतलान्नराः ।
मणिबन्धैर्निगूढैश्च सुश्लिष्टैः शुभगन्धिभिः

1.65.42

नृपा हीनाः करच्छैदैः सशब्दैर्धनवर्जिताः ।
संवृतैश्चैव निम्नैश्च धनिनः परिकीर्तिताः

1.65.43

प्रोत्तानक रदातारो विषमैर्विषमा नराः ।
करैः करतलैश्चैव लाक्षाभैरीश्वरास्तलैः

1.65.44

परदाररताः पीतैरूक्षैर्निः स्वा नरा मताः ।
तुषतुल्यनखाः क्लीबाः कुटिलैः स्फुटितैर्नराः

1.65.45

निः स्वाश्च कुनखैस्तद्वद्विवर्णैः परतर्ककाः ।
ताम्रैर्भूपा धनाढ्याश्च अङ्गुष्ठैः सयवैस्तथा

1.65.46

अङ्गुष्ठमूलजैः पुत्री स्याद्दीर्घाङ्गुलिपर्वकः ।
दीर्घायुः सुभगश्चैव निर्धनो विरलाङ्गुलिः

1.65.47

घनाङ्गुलिश्च सधनस्तिस्रो रेखाश्चयस्य वै ।
नृपतेः करतलगा मणिबन्धात्समुत्थिताः

1.65.48

युगमीनाङ्कितनरो भवेत्सत्रप्रदो नरः ।
वज्राकाराश्च धनिनां मत्स्यपुच्छनिभा बुधे

1.65.49

शङ्खातपत्रशिविकागजपद्मोपमा नृपे ।
कुम्भाङ्कुशपताकाभा मृणालाभा निधीश्वरे

1.65.50

दामाभाश्च गवाढ्यानां स्वस्तिकाभा नृपेश्वरे ।
चक्रासितोमरधनुः कुन्ताभा नृपतेः करे

1.65.51

अलूखलाभा यज्ञाढ्या वेदीभा चाग्निहोत्रिणि ।
वापीदेवकुल्याभास्त्रिकोणाभाश्चधार्मिके

1.65.52

अङ्गुष्ठमूलगा रेखाः पुत्राः सूक्ष्माश्च दारिकाः ।
प्रदेशिनीगता रेखा कनिष्ठामूलगामिनी

1.65.53

शतायुषं च कुरुते छिन्नया तरुतो भयम् ।
निः स्वाश्च बहुरेखाः स्युनिर्द्रव्याश्चिबुकैः कृशैः

1.65.54

मांसलैश्च धनोपेता आरक्तैरधरैर्नृपाः ।
बिम्बोपमैश्च स्फुटितैरोष्ठैरूक्षैश्चकण्डितैः

1.65.55

विषमैर्धनहीनाश्च दन्ताः स्निग्धा घनाः शुभाः ।
तीक्ष्णा दन्ताः समाः श्रेष्ठा जिह्वा रक्ता समा शुभा

1.65.56

श्लक्ष्णा दीर्घा च विज्ञेया तालू श्वेते धनक्षये ।
कृष्णे च परुषो वक्रं समं सौम्यं च संवृतम्

1.65.57

भूपानाममलं श्लक्ष्णं विपरीतं च दुः खिनाम् ।
महा दुः खं दुर्भगाणां स्त्रीमुखं पुत्रमाप्नुयात्

1.65.58

आढ्यानां वर्तुलं वक्रं निर्द्रव्याणां च दीर्घकम् ।
भीरुवक्रः पापकर्मा धूर्तानां चतुरश्रकम्

1.65.59

निम्नं वक्रमपुत्राणां कृपणानां च ह्रस्वकम् ।
सम्पूर्णं भोगिनां कान्तं श्मश्रु स्निग्धं शुभं मृदु

1.65.60

संहतं चास्फुटिताग्रं रक्तश्मश्रुश्च चौरकः ।
रक्ताल्पपरुषश्मश्रुकर्णाः स्युः पापमृत्यवः

1.65.61

निर्मांसैश्चिपिटैर्भोगाः कृपणा ह्रस्वकर्णकाः ।
शङ्कुकर्णाश्च राजानो रोमकर्णा गतायुषः

1.65.62

बृहत्कर्णाश्च धनिनोराजानः परिकीर्तिताः ।
कर्णैः स्निग्धावनद्धैश्च व्यालम्बैर्मांसलैर्नृपाः

1.65.63

भोगी वै निम्नगण्डः स्यान्मत्री सम्पूर्णगण्डकः ।
शुकनासः सुखी स्याच्च शुष्कनासो ऽतिजीवनः

1.65.64

छिन्नाग्रकूपनासः स्यादगम्यागमने रतः ।
दीर्घनासे च सौभाग्यं चौरश्चाकुञ्चितेन्द्रियः

1.65.65

मृत्युश्चिपिटनासे स्याद्धीनो भाग्यवतां भवेत् ।
स्वल्पच्छिद्रौ सुपुटौ च अवक्रौ च नृपेश्वरे

1.65.66

क्रूरे दक्षिणवक्रा स्याद्वलिनां च क्षुतं सकृत् ।
स्याद्विनिष्पिण्डितं ह्रादि सानुनादं च जीवकृत्

1.65.67

वक्रान्तैः पद्मपत्राभैर्लोचनैः सुखभागिनः ।
मार्जारलोचनैः पाप्मा दुरात्मा मधुपिङ्गलैः

1.65.68

क्रूराः केकरनेत्राश्च हरिताक्षाः सकल्मषाः ।
जिह्यैश्च लोचनैः शूराः सेनान्यो गजलोचनाः

1.65.69

गम्भीराक्षा ईश्वराः स्युर्मन्त्रिणः स्थूलचक्षुषः ।
नीलोत्प लाक्षा विद्वांसः सौभाग्यं श्यामचक्षुषाम्

1.65.70

स्यात्कृष्णतारकाक्षाणामक्ष्णामुत्पाटनं किल ।
मण्डलाक्षाश्च पापाः स्युर्निः स्वाः स्युर्देनलोचनाः

1.65.71

दृक् स्निग्धा विपुला भोगे अल्पायुरधिकोन्नता ।
विशालोन्नता सुखिनी दरिद्रा विषमभ्रुवः

1.65.72

घनदीर्घासुसक्तभ्रूर्बालेन्दून्नतसुभ्रुवः ।
आढ्यो निः स्वश्च खण्डभ्रृर्मध्ये च विनतभ्रुवः

1.65.73

स्त्रीषु गम्यासु सक्ताः स्युः सुतार्थे परिवर्जिताः ।
अन्नतैर्विपुलैः शङ्खैर्ललाटैर्विषमैस्तथा

1.65.74

निर्धना धनवन्तश्च अर्धेन्दुसदृशैर्नराः ।
आचार्याः शुक्तिविशालैः शिरालैः पापकारिणः

1.65.75

अन्नताभैः शिराभिश्च स्वस्तिकाभिर्धनेश्वराः ।
निम्नैर्ललाटैर्बन्धार्हाः क्रूरकर्मरतास्तथा

1.65.76

संवृतैश्च ललाटैश्च कृपणा उन्नतैर्नृपाः ।
अनश्रु स्निग्धरुदितमदीनं शुभदं नृणाम्

1.65.77

प्रचुराश्रुदीनं रूक्षं च रुदितं च सुखावहम् ।
अकम्पं हसितं श्रेष्ठं मीलिताक्षमघावहम्

1.65.78

असकृद्धसितं दुष्टं सोन्मादस्य ह्यनेकधा ।
ललाटोपसृतास्तिस्रो रेखाः स्युः शतवर्षिणाम्

1.65.79

नृपत्वं स्याच्चतसृभिरायुः पञ्चनवत्यथ ।
अरेखेणायुर्नवतिर्विच्छिन्नाभिश्च पुंश्ललाः

1.65.80

केशान्तोपगताभिश्च अशीत्यायुर्नरो भवेत् ।
पञ्चभिः सप्तभिः षड्भिः पञ्चाशद्वहुभिस्तथा

1.65.81

चत्वारिंशच्च वक्राभिस्त्रिंशद्भ्रूलग्नगामिभिः ।
विंशतिर्वामवक्रा भिरायुः क्षुद्राभिरल्पकम्

1.65.82

छत्राकारैः शिरोभिस्तु नृपा निम्नशिरा धनी ।
चिपिटैश्च पितुर्मृत्युर्गवाद्याः परिमण्डलैः

1.65.83

घटमूर्धा पापरुचिर्धनाद्यैः परिवर्जितः ।
कृष्णैराकुञ्चितैः केशैः स्निग्धैरेकैकसम्भवैः

1.65.84

अभिन्नाग्रैश्च मृदुभिर्न चातिबहुभिर्नृपाः ।
बहुमूलैश्च विषमैः स्थूलाग्रैः कपिलैस्तथा

1.65.85

निः स्वाश्चैवातिकुचिलैर्घनैरसित (धिक) मूर्धजैः ।
यद्यद्गात्रं महारूक्षं शिरालं मांसवर्जितम्

1.65.86

तत्तत्स्या दशुभं सर्वं ततो ऽन्यथा ।
विपुलस्त्रिषु गम्भीरो दीर्घः सूक्ष्मश्च पञ्चसु

1.65.87

षडुन्नतश्चतुर्ह्रस्वो रक्तः सप्तस्वसौ नृपः ।
नाभिः स्वरश्च ससत्त्वं च त्रयं गम्भीरमीरितम्

1.65.88

पुंसः स्यादतिविस्तीर्णं ललाटं वदनं ह्युरः ।
चक्षुः कक्षा नासिका च षट् स्युर् नृपकृकाटिकाः

1.65.89

उन्नतानि च ह्रस्वनि जङ्घा ग्रीवा च लिङ्गकम् ।
पृष्ठं चत्वारि रक्तानि करताल्वधरा नखाः

1.65.90

नेत्रान्तपादजिह्वौष्ठाः पञ्च सूक्ष्माणि सन्ति वै ।
दशनाङ्गुलिपर्वाणि नखकेशत्वचः शुभाः

1.65.91

दीर्घाः स्तनान्तरं बाहुदन्तलोचननासिकाः ।
नराणां लक्षणं प्रोक्तं वदामि स्त्रीषु लक्षणम्

1.65.92

राज्ञ्याः स्निग्धौ समौ पादौ तलौ ताम्रौ नखौ तथा ।
श्लिष्टाङ्गुली चोन्नताग्रौ तां पाप्य नृपतिर्भवेत्

1.65.93

निगूढगुल्फोपचितौ पद्मकान्तितलौ शुभौ ।
अस्वेदिनौ मृदुतलौ मत्स्याङ्कुशघ्वजाञ्चितौ

1.65.94

वज्राब्जहलचिह्नौ च दास्याः पादौ ततो ऽन्यथा ।
जङ्घे च रोमरहिते सुवृत्ते विशिरे शुभे

1.65.95

अनुल्बणं सन्धिदेशं समं जानुद्वयं शुभम् ।
ऊरू करिकराकारावरोमौ च समौ शुभौ

1.65.96

अश्वत्थपत्रसदृशं विपुलं गुह्यमुत्तमम् ।
श्रोणीललाटकं स्त्रीणामूरु कूर्मोन्नतं शुभम्

1.65.97

गूढो मणिश्च शुभदो नितम्बश्च गुरुः शुभः ।
विस्तीर्णमांसोपचिता गम्भीरा विपुला शुभा

1.65.98

नाभिः प्रदक्षिणावर्ता मध्यं त्रिबलिशोभितम् ।
अरोमशौ स्तनौ पीनौ घनावविषमौ शुभौ

1.65.99

कठिनौ रोमशा शस्ता मृदुग्रीवा च कम्बुभा ।
आरक्तावधरौ श्रेष्ठौ मांसलं वर्तुलं मुखम्

1.65.100

कुन्दपुष्पसमा दन्ता भाषितं कोकिलासमम् ।
दाक्षिण्ययुक्तमशठं हंसशब्दसुखावहम्

1.65.101

नासा समा समपुटा स्त्रीणां तु रुचिरा शुभा ।
नीलोत्पलनिभं चक्षुर्नासालग्नं न लम्बकम्

1.65.102

न पृथू बालेन्दुनिभे भ्रुवौ चाथ ललाटकम् ।
शुभमर्धेन्दुसंस्थानमतुङ्गं स्यादलोमशम्

1.65.103

सुमांसलं कर्णयुग्मं समं मृदु समाहितम् ।
स्निग्धा नीलाश्च मृदवो मूर्धजाः कुञ्चिताः कचाः

1.65.104

स्त्रीणां समं शिरः श्रेष्ठं पादे पाणितले ऽथ वा ।
वाजिकुञ्जरश्रीवृक्षयूपेषुयवतोमरैः

1.65.105

ध्वजचामरमालाभिः शैलकुण्डलवेदिभिः ।
शङ्खातपत्रपद्मैश्च मत्स्यस्वस्तिकसद्रथैः

1.65.106

लक्षणैरङ्कुशाद्यैश्च स्त्रियः स्यू राजवल्लभाः ।
निगूढमणिबन्धौ च पद्मगर्भोपमौ करौ

1.65.107

न निम्नं नोन्नतं स्त्रीणां भवेत्करतलं शुभम् ।
रेखान्वितं त्वविधवां कुर्यात्संभोगिनीं स्त्रियम् ।
रेखा या मणिबन्धोत्था गता मध्याङ्गुलिं करे

1.65.108

गता पाणितले या च योर्ध्वपादतले स्थिता ।
स्त्रीणां पुंसां तथा सा स्याद्राज्याय च सुखाय च

1.65.109

कनिष्ठिकामूलभवा रेखा कुर्याच्छतायुषम् ।
प्रदेशिनीमध्यमाभ्यामन्तरालगता सती

1.65.110

ऊना ऊनायुषं कुर्याद्रेखाश्चाङ्गुष्ठमूलगाः ।
बृहत्यः पुत्रास्तन्व्यस्तु प्रमदाः परिकीर्तिताः

1.65.111

स्वल्पायुषो बहु (लघु) च्छिन्ना दीर्घाछिन्ना महायुषम् ।
शुभं तु लक्षणं स्त्रीणां प्रोक्तं त्वशुभमन्यथा

1.65.112

कनिष्ठिकानामिका वा यस्या न स्पृशते महीम् ।
अङ्गुष्ठं वा गतातीत्य तर्जनी कुलटा च सा

1.65.113

ऊर्ध्वं द्वाभ्यां पिण्डिकाभ्यां जङ्घे चातिशिरालके ।
रोमशेचातिमांसे च कुम्भाकारं तथोदरम्

1.65.114

वामावर्तं निम्नमल्पं दुः खितानां च गुह्यकम् ।
ग्रीवया ह्रस्वया निः स्वा दीर्घया च कुलक्षयः

1.65.115

पृथुलया प्रचण्डाश्च स्त्रियः स्युर्नात्र संशयः ।
केकरे पिङ्गले नेत्रे श्यामे लोलेक्षणा सती

1.65.116

स्मिते कूपे गण्डयोश्च सा ध्रुवं व्यभिचारिणी ।
प्रलम्बिनी ललाटे तु देवरं हन्ति चाङ्गना

1.65.117

उदरे श्वशुरं हन्ति पतिं हन्ति स्फिचोर्द्वयोः ।
या तु रोमोत्तरौष्ठी स्यान्न शुभा भर्तुरेव हि

1.65.118

स्तनौ सरोमावशुभौ कर्णौ च विषमौ तथा ।
कराला विषमा दन्ताः क्लेशाय च भवन्ति ते

1.65.119

चौर्याय कृष्णमांसाश्च दीर्घा भुर्तुश्च मृत्यवे ।
क्रव्यादरूपैर्हस्तैश्च वृककाकादिसन्निभैः

1.65.120

शिरालैर्विषमैः शुष्कैर्वित्तहीना भवन्ति हि ।
समुन्नतोत्तरेष्ठी या कलहे रूक्षभाषिणी

1.65.121

स्त्रीषु दोषा विरूपासु पत्राकारो गुणास्ततः ।
नरस्त्रीलक्षणं प्रोक्तं वक्ष्ये तज्ज्ञानदायकम्

मूल पाठ: Garuḍapurāṇa · Edition: Bombay : Venkatesvara Steam Press (or a reprint thereof) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc