गरुड़ पुराण · अध्याय 1.66
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे ज्योतिः शास्त्रे सामुद्रिके स्त्रीनरलक्षणं नाम पञ्चषष्टितमो ऽध्यायः
श्रीगरुडमहापुराणम्- 66
हरिरुवाच ।
निर्लक्षणा शुभा स्याच्च चक्राङ्कितशिलार्चनात् ।
आदौ सुदर्शनो मूर्तिर्लक्ष्मीनारायणः परः
त्रिचक्रो ऽसावच्युतः स्याच्चतुश्चक्रश्चतुर्भुजः ।
वासुदेवश्च प्रद्युम्नस्ततः सङ्कर्षणः स्मृतः
पुरुषोत्तमश्चाष्टमः स्यान्नव्यूहो दशात्मकः ।
एकादशो ऽनिरुद्धः स्याद्द्वादशो द्वादशात्मकः
अत ऊर्ध्वमनन्तः स्याच्छक्रे रेकादिकैः क्रमात् ।
सुदर्शना लक्षिताश्च पूजिताः सर्वकामदाः
शालग्रामशिला यत्र देवो द्वारवतीभवः ।
उभयोः संगमो यत्र तत्र मुक्तिर्न संशयः
शालग्रामो द्वारका च नैमिषं पुष्करं गया ।
वाराणसी प्रयागश्च कुरुक्षेत्रं च सूकरम्
गङ्गा च नर्मदा चैव चन्द्रभागा सरस्वती ।
पुरुषोत्तमो महाकालस्तीर्थान्येतानि शङ्कर
सर्वपापहराण्येव भुक्तमुक्तिप्रदानि वै ।
प्रभवो विभवः शुक्लः प्रमोदो ऽथ प्रजापतिः
अङ्गिराः श्रीमुखो भावः युवा धाता तथैव च ।
ईश्वरो बहुधान्यश्च प्रमाथी विक्रमो विषुः
चित्रभानुः स्वबानुश्च तारणः पार्थिवो व्ययः ।
सर्वजित्सर्वधारी च विरोधी विकृतिः खरः
नन्दनो विजयश्चैव जयो मन्मथदुर्मुखौ ।
हेमलम्बो विलंबश्च विकारः शर्वरी प्लवः
शुभकृच्छोभनः क्रोधी विश्वावमुपराभवौ ।
प्लवङ्गः कीलकः सौम्यः साधारणविरोधकृत्
परिधावी प्रमादी च आनन्दो राक्षसो नलः ।
पिङ्गलः कालसिद्धार्थौ रौद्रिर्वै दुर्मतिस्तथा
दुन्दुभी रुधिरोद्गारी रक्ताक्षः क्रोधनो ऽक्षयः ।
अशोभनाः शोभनाश्च नाम्नैवैते हि वत्सराः
कालं वक्ष्यामि संसिद्ध्यै रुद्र पञ्चस्वरोदयात् ।
राजा सा(मा) जा उदासा च पीडा मृत्युस्तथैव च
आ ई ऊ ऐ औ स्वरांश्च लिखेत्पञ्चाग्निकोष्ठके ।
ऊर्ध्वतिर्यग्गतै रेखैः षड्वह्निक्रममागतैः
तिथी एका ग्निकोष्ठेषु त्रयो राजाथ सा (मा) जयाः ।
उदासामृत्युपीडाश्च कुजः सोमसुतः क्रमात्
गुरुशुक्रौ च मन्दश्च रविचन्द्रौ यथोदितम् ।
रेवत्यादिमृगान्ताश्च ऋक्षाणि प्रथमा कला
पञ्चपञ्चान्यत्र भानि चैत्राद्य उदयस्तथा ।
द्वादशाहैर्द्वयोर्मासनाम्नोराद्यक्षरं तथा
कलालिङ्गा च या तिष्ठेत्पञ्चमस्तस्य वै मृतिः ।
कला तिथिस्तथा वारो नक्षत्रं मासमेव च
नामोदयस्य पूर्वं च तथा भवति नान्यथा ।
ओं क्षैं (क्षौः) शिवाय नमः
क्षामाद्यङ्गशिवामीक्षा विषग्रहमतिर्हर ।
त्रैलोक्यमोहनं बीजं नृसिंहस्य तु पद्म(न्न)गम्
मृत्युञ्जयो गणो लक्ष्मी रोचनाद्यैस्तु लेखितः ।
भूर्जे तु धारिताः कण्ठे बाहौ चेति जयादिदाः
मूल पाठ: Garuḍapurāṇa · Edition: Bombay : Venkatesvara Steam Press (or a reprint thereof) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0