भाषा

ENहिગુ
ग्रंथ पाठ

गरुड़ पुराण · अध्याय 1.64

1.64.1

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे ज्योतिः शास्त्रे सामुद्रिके पुंल्लक्षणनिरूपणं नाम त्रिषष्टितमो ऽध्यायः
श्रीगरुडमहापुराणम्- 64
हरिरुवाच ।
यस्यास्तु कुञ्चिताः केशा मुखं च परिमण्डलम् ।
नाभिश्च दक्षिणावर्ता सा कन्या कुलवर्धिनी

1.64.2

या च काञ्चनवर्णाभा रक्तहस्तसरोरुहा ।
सहस्राणां तु नारीणां भवेत्सापि पतिव्रता

1.64.3

वक्रकेशा च या कन्या मण्डलाक्षी च या भवेत् ।
भर्ता च म्रियते तस्या नियतं दुः खभागिनी

1.64.4

पूर्णचन्द्रमुखी कन्या बालसूर्यसमप्रभा ।
विशालनेत्रा बिम्बोष्ठी सा कन्या लभते सुखम्

1.64.5

रेखाभिर्बहुभिः क्लेशं स्वल्पाभिर्धनहीनता ।
रक्ताभिः सुखमाप्नोति कृष्णाभिः प्रेष्यतांव्रजेत्

1.64.6

कार्ये च मन्त्री सत्स्त्री स्यात्सती (खी) स्यात्करणेषु च ।
स्त्रेहेषु भार्या माता स्याद्वेश्या च शयने शुभा

1.64.7

अङ्कुशं कुण्डलं चक्रं यस्याः पाणितले भवेत् ।
पुत्रं प्रसूयते नारी नरेन्द्रं लभते पतिम्

1.64.8

यस्यास्तु रोमशौ पार्श्वौ रोमशौ च पयोधरौ ।
अन्नतौ चाधरोष्ठौ च क्षिप्रं मारयते पतिम्

1.64.9

यस्याः पाणितले रेखा प्राकारस्तोरणं भवेत् ।
अपि दासकुले जाता राज्ञीत्वमुपगच्छति

1.64.10

उद्वृत्ता कपिला यस्य रोमराजी निरन्तरम् ।
अपि राजकुले जाता दासीत्वमुपगच्छति

1.64.11

यस्या अनामिकाङ्गुष्ठौ पृथिव्यां नैव तिष्ठतः ।
पतिं मारयते क्षिप्रं स्वेच्छाचारेण वर्तते

1.64.12

यस्या गमनमात्रेण भूमिकम्पः प्रजायते ।
पतिं मारयते क्षिप्रं स्वेच्छाचारेण वर्तते

1.64.13

चक्षुः स्नेहेन सौभाग्यं दन्तस्नेहेन भोजनम् ।
त्वचः स्नेहेन शाय्यां च पादस्नेहेन वाहनम्

1.64.14

स्निग्धोन्नतौ ताम्रनखौ नार्याश्च चरणौ शुभौ ।
मत्स्याङ्कुशाब्जचिह्नौ च चक्रलाङ्गललक्षितौ

1.64.15

अस्वेदिनौ मूदुतलौ प्रशस्तौ चरणौ स्त्रियाः ।
शुभे जङ्घे विरोमे च ऊरू हस्तिकरोपमौ

1.64.16

अश्वत्थपत्रसदृशं विपुलं गुह्यमुत्तमम् ।
नाभिः प्रशस्ता गम्भीरा दक्षिणावर्तिका शुभा ।
अरोमा त्रिवली नार्या हृत्स्तनौ रोमवर्जितौ

मूल पाठ: Garuḍapurāṇa · Edition: Bombay : Venkatesvara Steam Press (or a reprint thereof) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc